अधिमास

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिमासः, पुं, (मासात् रविसंक्रान्तिमासादधिक मयूरव्यंसकादित्वात् समासः ।) रविसंक्रान्ति- द्वयमध्यवर्त्तिचान्द्रमासः । रविसंक्रान्तिशून्यशुक्ल- प्रतिपदादिदर्शान्तमासः । तत्पर्य्यायः । अधिक- मासः २ असंक्रान्तमासः ३ मलमासः ४ मलि- म्लुचः ५ विनामकः ६ नपुंसकः ७ । इति मल- मासतत्त्वं ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिमास¦ पु॰ अधिको रविमासादतिरिक्तः शुक्लप्रतिपदादि-दर्शान्तश्चान्द्रो मासः प्रा॰ स॰। मलमासे
“असंक्रान्त-मासोऽधिमासो निरुक्त” इतिस्मृत्युक्तो रविसंक्रान्तिवर्जितोमासोऽघिमासः। तथा हि
“मीनादिस्थो रविर्य्येषामारम्भःप्रथमे क्षणे। ते चैत्राद्या” इत्युक्तदिशा मीनस्थे रवौ यस्यचान्द्रमासस्यारम्भः स चैत्रः एवं मेषस्थरवारब्धो वैशाख[Page0132-a+ 38] इव्येवं स्थिते यस्मिन् चान्द्रमासे रवेः राश्यन्तरसंक्रमो नजातः, तस्य तदुत्तरस्य च चान्द्रमासस्य उभयोर्मेषस्थे रवौस्वारम्भात् उभयोरपि वैशाखता, तत्राद्योऽधिमासः संक्रा-न्तिहीनत्वात् द्वितीयः शुद्धः इति स्मृतौ प्रसिद्धम्। यथामलमासतत्त्वे लघुहारीतः॥
“इन्द्राग्नी यत्र हूयते” इत्युक्त्वा
“तमतिक्रम्य तु रविर्यदा गच्छेत् कथञ्चन। आद्योमलिम्लु-चोज्ञेयोद्वितीयः प्रकृतः स्मृतः। तस्मिंस्तु प्रकृते मासि-कुर्य्यात् श्राद्धं यथाविधि। तथैवाभ्युदयं कार्य्यं नित्यमेकं तुमर्वदा”।
“यदा तं दर्शान्तमासमतिक्रम्य तत्पूब्बमासा-न्त्यक्षणवृत्तिराशिस्थः सन् सूर्य्योऽतिवाह्य गच्छेत् मासा-न्तरे राश्यन्तरसंयोगं गच्छेत्तदाद्योऽतिक्रान्तोमासोमलिम्लु-चोज्ञेयः”। ज्योतिषे।
“अमावास्याद्वयं यत्र रविसंक्रान्तिवर्जि-तम् मलमासः स विंज्ञेयोविष्णुः स्वपिति कर्कटे”।
“अमा-वास्याद्वयं अमावास्यान्त्यक्षणद्वयं रविसंक्रान्तिभ्यां क्रियोत्-पत्तिरूपोत्तरसंयोगरूपाभ्यां यथाक्रमं वर्जितं तेन दर्शान्त्य-क्षणद्वययोरेव क्रियोत्पत्त्युत्तरसंयोगाभ्यां यथाक्रमं संयोगे-नाधिमासः। संक्रान्तेरेकक्षणे क्रियोत्पत्तिरपरक्षणेपूर्ब्बसंयोगनाशः उत्तरसंयोगोत्पत्तिश्चेति क्षणद्वयवृत्ति-त्वमिति मीमांसकसिद्धान्तात्”। गृह्यपरिशिष्टज्योतिः-पराशरौ।
“रविणा लङ्घितोमासश्चान्द्रः ख्यातोमलि-{??}चः। तत्र यद्विहितं कर्म्म उत्तरे मासि कारयेत्” पराशरः।
“पक्षद्वयेऽपि संक्रान्तिर्यदि न स्यात् सिता-सिते। तदा तन्मासविहितमुत्तरे मासि कारयेत्”। अत्र लङ्घनमसंक्रमणञ्च रवेस्तदा भवति यदा तन्मासतत्पूर्ब्बमासान्त्यक्षणयोरेकराश्यवस्थितस्य तन्मासानन्तर-संयोगः, न त्वेकराशिस्थितस्य मासव्यापनमात्रं तथात्वेचतुर्द्दश्यामेकराशौ संक्रान्तस्य प्रतिपत्प्रथमक्षणेऽपरराशौ,तत्परराशौ च द्वितीयायां प्रतिपदि वा रवेः संयोगे-ऽपरस्यापि मलमासता स्यात्”। अतएव ज्योतिषे
“अमा-वास्यापरिच्छिन्नं रविसंक्रान्तिवर्ज्जितम्। मलमासंविजानीयाद्गर्हितं सर्वकर्म्मसु। तस्यार्कोदर्शकश्चैकराशौदर्शद्वयातिगः”।
“अत्रैकराशिस्थार्कस्य दर्शद्वयातिगत्व-मुक्तम्। एतच्च पूर्ब्बोपदशितयोर्मासयोः पूर्ब्बस्यैव सम्म-वति न परस्य”। मलमासकारणन्तु ज्योतिषे।
“दिव-सस्य हरत्यर्कः षष्टिभागमृतौ सदा। करोत्येकमह-श्छेदं तथैवैकञ्च चन्द्रमाः। एवमर्द्धतृतीयानामब्दानाम-धिमासकम्। ग्रीष्मे जनयतः पूर्ब्बं पञ्चाब्दान्ते तु पश्चि-मम”।
“तेन दिवसस्य तिथेः षष्टिभागं दण्डमेकं[Page0132-b+ 38] रविर्हरति छेदयति उत्तरे छेदमित्यभिधानात्। ततश्चऋतौ मासद्वये षष्टिनाडीच्छेदादह्नस्तिथेश्छेदमाकर्घणंकरोति। एवं चन्द्रोऽपि। एवमित्युक्तक्रमेण वर्षे द्वादशतिथ्यात्मककालाकर्षादर्द्धतृतीयानामन्ते अर्द्धं तृतीयं येषांते तथा। ग्रीष्मे माधवादिषु षट्केषु पूर्ब्बं माधवादित्रिक-पतितं, पञ्चाब्दान्ते तु पश्चिमं श्रावणादित्रिकपतितं मल-मासञ्चन्द्रार्कौ जनयतः”। मिहिरः।
“माधवादिषु षट्केषुमासि दर्शद्वयं यदा। द्विराषाढः स विज्ञेयः शेते तुश्रावणेऽच्युतः।
“मिथुनोपगतो भानुरमावास्याद्वयं स्पृशेत्। द्विराषाढः स विज्ञेयोविष्णुः स्वपिति कर्कटे”।
“अमावा-स्याद्वयं तदन्त्यक्षणद्वयं स्पृशेत् संयुज्यात् न तन्मध्ये राश्य-न्तरसंयोग इत्यर्थः”।
“कन्यासिंहकुलीरेषु यदा दर्शद्वयंभवेत्। आगामिनि तदा वर्षे कुलीरे माधवः स्वपेत्”। यद्यपि
“यां तिथिं समनुप्राप्य तुलां गच्छति भास्करः। तयैव सर्वसंक्रान्तिर्यावन्मेषं न गच्छति” इति
“राजमार्त्त-ण्डवचनात्तुलादिषण्मासे तिथिवृद्ध्यभावाद्वर्षे द्वादशवृद्धि-रनुपपन्ना तथापि
“मध्ये विषुवतोर्भानुर्यान्यहानि तुवर्द्धयेत्। तैः सम्भूयाधिकोमासः पतत्येव त्रयोदशः” इति
“गृह्यपरिशिष्टवाक्ये विषुवतोर्मेषतुलासंक्रान्त्योर्मध्येमेषादिषण्मास एव तिथिवृद्धिरुक्ता अहर्गणने मेषा-दिषण्मासे मन्दभुक्त्या सप्तदिनवृद्धिस्तुलादौ शीघ्रभुक्त्यादिनद्वयह्रासः” इति तथा च ज्योतिःशास्त्रम्
“मेषादीना-महर्वृन्दं षण्णां सप्ताष्टचन्द्रकम् (

१८

७ )। तुलादीनामष्ट-सप्तचन्द्रकन्तु (

१७

८ ) लिखेत् पृथक्”।
“चन्द्र एकः
“अङ्कस्यवामा गतिः” इत्यङ्कविदां समयात् व्युत्क्रमेणाङ्का बोध्याः। तेन दिनवृद्धि

५ क्रमसञ्चयाभ्यां

६ मेषादिषट्के एव एका-दशतिथिवृद्धिः”। एवञ्च
“गतेऽब्दद्वितये सार्द्धे पञ्चपक्षेदिनद्वये। दिवसस्याष्टमे भागे पतत्येकोऽधिमासकः”। इति
“राजमार्त्तण्डोक्तः सप्तदशदिनाधिकाष्टमासाधिकवर्षद्वयेऽधि-मासः। स च सौरे मासि सप्तदशदिनोत्तरं चान्द्रमासलङ्घ-नासम्भवात् सावनमानेन ज्ञेयः इति”। सिद्धान्तशिरोमणौ तु

४३

२०

००

०० ॰॰ कल्पप्रमाणवर्षेषु

१५

९३

३०

००

०० एतन्मिता अधिमासाभवन्तीत्युक्तम् यथा
“लक्षाहता देव-नवेषुचन्द्राः कल्पेऽधिमासाः कथिताः सुधीभिरिति”।
“अत्रोपपत्तिः प्रकृतास्तावद्रविमासास्तेभ्यश्चान्द्रमासा याव-द्भिरधिकास्तावन्तोऽधिमासा” इति। तदेवाह।
“रवेःकोटिनिघ्नाः कृताऽष्टेन्दुवाणाः”

५१

८४

००

००

० ॰॰
“सुराग्न्यब्धिरामेषवो लक्षनिघ्नाः

५३

४३

३३

००

००

० । [Page0133-a+ 38] शाशाङ्कस्य मासाः पृथक् सूर्य्यमासैर्विहीनास्तु कल्पेऽथवातेऽधिमासाः इति”॥ इष्टवर्षेअधिमासानयनं तत्रैवोक्तं यथा
“कथितकल्पगतार्कसमागणो रविगुणो गतमाससमन्वितः। खदहनै (

३० ) र्गुणितस्तिथिसंयुतः पृथगतोऽधिकमाससमा-हतात् (

१५

९३

३०

००

०० )॥ रविदिना (

१५

५५

२०

० -॰॰॰॰॰॰) प्तगताधिकमासकैः कृतदिनैः सहितो द्युगणोविधोः” इति। अत्र वासना कल्पगताब्दा द्वादशगुणितारविमासा जातास्ते चैत्रादिगतचान्द्रतुल्यैः सौरैरेव युता-स्त्रिंशद्गुणा इष्टमासप्रतिपदादिगततिथितुल्यैः सौरैरेवदिनैर्युताः एवन्ते सौरा जातास्तेभ्यः पृथक् स्थितेभ्योऽधि-मासानयनं त्रैराशिकेन, यदि कल्पसौरदिनैः कल्पाधिमासालभ्यन्ते तदैभिः किमिति फलम् गताधिमासाः। तै र्दिनी-कृतैः पृथक् स्थितः सौराहर्गणसहितश्चान्द्रो भवति यतःसौरचान्द्रान्तरमधिमासदिनान्येव” इति। सूर्य्यसिद्धान्तेऽप्यु-क्तम्।
“भवन्ति शशिनो मासाः सूर्य्येन्दु भगणान्तरम्। रवि-मासोनितास्ते तु शेषाः स्युरधिमासकाः” इति॥ सूर्य्यचन्द्र-भगणयोरन्तरं चन्द्रस्य मासः भवन्ति ते चान्द्रमासा रविमासोनिताः सन्तः शेषा अवशिष्टा ये चान्द्रमासास्तेऽधिकमासा एवभवन्ति नान्ये। अनेन चान्द्रत्वमघिमासानां स्पष्टीकृतम्। अत्रोपपत्तिः। त्रिंशत्तिथ्यात्मकस्य रवीन्दुयुतिकालरूप-दर्शान्तावधेश्चाग्द्रस्य, द्वादशराशिमितेन सूर्य्येन्द्वन्तरेणैव सिद्धिःकथमन्यथा दर्शान्ते जातस्य मन्दशीघ्रयोः सूर्य्येन्द्वोर्योगस्यपुनर्दर्शान्ते सम्भवः। द्वादशराश्यन्तरं त्वेकं भगणान्तरमतोभगणान्तरेण चान्द्रो मासः सिद्धः। सौरमासापेक्षयायदन्तरेण चान्द्रमासानामधिकत्वं त एवाधिमासा इति।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिमास¦ m. (-सः) An intercalary month, formed of the aggregate days omitted in reckoning the lunar year. E. अधि, and मास a month.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिमासः [adhimāsḥ], [अधिको रविमासात् अतिरिक्तः शुक्लप्रतिपदादिद- र्शान्तश्चान्द्रो मासः] An intercalary (lunar) month.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिमास/ अधि-मास m. an additional or intercalary month.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the intercalary month; फलकम्:F1: वा. ५०. २०१.फलकम्:/F fit for पिण्ड at गया. फलकम्:F2: वा. ८३. ४२; १०५. १८.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=अधिमास&oldid=485337" इत्यस्माद् प्रतिप्राप्तम्