अन्तरम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तरम्, क्ली, (अन्तं राति ददाति, अन्त + रा + कः, उपपदसमासः ।) अवकाशः । अवधिः । परि- धानं । अन्तर्धानं । भेदः । तादर्थ्यं । अवसरः । मध्यं । अन्तरात्मा । छिद्रं । आत्मीयः । विना । वहिः । इत्यमरः ॥ सदृशः । इति तट्टीका मेदिनी च ॥ * ॥ अवकाशे यथा । “मृणालसूत्रान्तरमप्य- लभ्यं” । इति कुमारसम्भवे ॥ अवधौ यथा । “निरन्तराभ्यन्तरवातवृष्टिषु” ॥ परिधाने यथा । अन्तरे शाटकाः परिधानीया इत्यर्थः ॥ अन्तर्द्धौ यथा, “पर्ब्बतान्तरितो रविः” ॥ भेदे यथा, -- “यदन्तरं सर्षपशैलराजयो- र्यदन्तरं वायसवैनतेययोः” । इति रामायणं ॥ तादर्थ्ये यथा । त्वामन्तरेण ऋणं गृहीतं त्वदर्थमित्यथेः ॥ छिद्रेयथा । “प्रहरेदन्तरे रिपुं” ॥ आत्मीये यथा । “अयमत्यन्तरो मम” ॥ विनार्थे यथा । “हरे त्वदालोकनमन्तरेण” ॥ वहिरर्थे यथा । अन्तरे चण्डालगृहा वाह्या इत्यर्थः ॥ अवसरे यथा । “अत्रान्तर च कुलटा कुलवर्त्मपातेत्थादि” ॥ मध्येयथा । “आवयोर- न्तरे जाताः पर्ब्बताः परितो द्रुमाः” ॥ सदृशे यथा “हकारस्य घकारोऽन्तरतमः” । इति भरतः ॥

"https://sa.wiktionary.org/w/index.php?title=अन्तरम्&oldid=111708" इत्यस्माद् प्रतिप्राप्तम्