अपरत्व

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपरत्वम्, क्ली, (अपरस्य भावः भावे त्व ।) न्यायमते तत् द्विविधं । दैशिकं कालिकञ्च । दैशिकं यथा । अल्पसूर्य्यसंयोगज्ञानजन्यगुणः । तस्यासमवायि- कारणं दिक्संयोगः ॥ कालिकं यथा ॥ अल्प- सूर्य्यपरिस्पन्दज्ञानजन्यगुणः । तस्यासमवायि- कारणं कालपिण्डसंयोगः । तदुभयं अपेक्षाबुद्धि- जन्यं । अपेक्षाबुद्धिनाशादेव तदुभयोर्नाशः । इति सिद्धान्तमुक्तावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपरत्व¦ न॰ अपरस्य भावः त्व। अपरभावे तच्च वैशेषिकोक्तोगुणभेदः। तदपि द्विविधं दैशिकं कालिकञ्च तत्स्वरूपमपर-शब्दे उक्तम्। तत्र च कारणमपेक्षाबुद्धिविशेषः तस्यनाशाच्च परत्वापरत्वयोर्नाशः।
“संयोगश्च विभागश्चपरत्वञ्चापरत्वकमिति”
“परापरत्वधीहेतुरेका नित्या दिगु-च्यते” इति च भाषा॰। तत्र दैशिकापरत्वं अल्प-सूर्य्यसंयोगज्ञानजन्यं, कालिकं तु अल्पसूर्य्यपरिस्पन्द-{??}नजन्यभिति भेदः। कालिके कालोहेतुः दैशिके तु[Page0231-a+ 38] दिगिति भेदः।
“परत्वञ्चापरत्वञ्च द्विविधं परिकीर्त्तितम्। दैशिकं कालिकञ्चापि मूर्त्त एव तु दैशिकम्॥ परत्वंसूर्य्यसंयोगभयस्त्वज्ञानतो भवेत्। अपरत्वं तदल्पत्वबुद्धितःस्यादितीरितम्॥ तयोरसमावायो नु दिक्संयोगस्वदाश्रये। दिवाकरपरिस्पन्दपूर्ब्बोत्पन्नत्वबुद्धितः॥ परत्वमपरत्वन्तु तद-नन्तरबुद्धितः। अत्र त्वसामवायी स्यात् संयोगः काल-पिण्डयोः॥ अपेक्षाबुद्धिनाशेन नाशस्त्वेषामुदाहृत” इति भाषा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपरत्व¦ n. (-त्वं)
1. Opposition, contrariety.
2. Posteriorly, (in place or time;) also अपरता f. (-ता।) E. त्व or तल् added to अपर।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपरत्व/ अपर--त्व n. = -ताSee.

"https://sa.wiktionary.org/w/index.php?title=अपरत्व&oldid=486994" इत्यस्माद् प्रतिप्राप्तम्