असङ्गति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असङ्गति¦ स्त्री अभावे न॰ त॰।

१ सङ्गत्यभावे। सङ्गतिश्च
“सङ्गतिरनन्तराभिधानव्याप्ता, आनन्तर्य्याभिधानप्रयोजकजिज्ञा-साजनकज्ञानविषयोह्यर्थः सङ्गतिः, जायते च कार्य्ये कारणेवा ज्ञाते कारणत्वस्य कार्य्यत्वस्य ज्ञानात् किमस्य कारणंकार्य्यं वेति जिज्ञासा” दीधित्युक्ता सा च षोढा तदुक्तमभि-युक्तैः
“सप्रसङ्ग उपोद्घातो हेतुतावसरस्तथा। निर्वाहकैक-कार्य्यत्वम् षोढा सङ्गतिरिष्यते” इति व्याख्यातञ्चैतत्जगदीशेन।
“निर्द्दिष्टोपपादकत्वमुपोद्घातत्वम्
“चिन्तांप्रकृतसिद्ध्यर्थामुपोद्घातं विदुर्बुधाः” इति प्राचीनोक्तौ चिन्तापदं कृदभिहितोभाव इति न्यायेन चिन्तनीयपरं तथाच तस्याअपि प्रकृतसिद्ध्युपपादकतया चिन्तनीयत्वं प्रकृ-तसिद्ध्युपपादकत्वपर्य्यवसन्नमित्यर्थः। हेतुत्वं कारणत्वम्। असरोऽनन्तरवक्तव्यत्वम् अनन्तरोद्दिष्टत्वम् तथा इतिश्रीभास्करकृत्। निर्व्वाहकं कारणतानिर्व्वाहकं कार्य्यत्व-मिति यावत् एकं कार्य्यं ययोरिति व्युत्पत्त्या एककार्य्य[Page0530-a+ 38] कारित्वम् प्रसङ्गत्वन्तु सङ्गतित्वे सत्युपीद्घातादिभिन्नत्वम्
“स्मृतस्य उपेक्षानर्हत्वं प्रसङ्ग” इति प्रवादेऽपि स्मृतत्वम-नन्तराभिधानप्रयोजकस्मृतिविषयत्वम् उपेक्षानर्हत्वञ्च प्रसङ्गलक्षणोपेक्षा एव उपोद्घातादयस्तदन्थत्वं तेन ततोऽपिप्रागुक्तस्यैवार्थस्य लाभः” इति न्यायमतम्। वेदान्तिमतेतु सङ्गतिस्त्रिविधा
“शास्त्रेऽध्याये तथा पादे न्यायसङ्गतय-स्त्रिधा। शास्त्रादिविषये ज्ञाते तत्तत्सङ्गतिरूह्यताम्”। शास्त्रप्रतिपाद्यमध्यायप्रतिपाद्यं पादप्रतिपाद्यमर्थमवगम्यशास्त्रसङ्गतिरध्यायसङ्गतिः पादसङ्गतिश्च तिस्रः सङ्गतयऊहितुं शक्यन्ते इति तदर्थः। तत्र
“शास्त्रं ब्रह्मविचा-राख्यमध्यायाः स्युश्चतुर्विधाः। समन्वयाविरोधौ द्वौसाधनं च फलं तथा” ब्रह्मविचाराख्यशास्त्रस्य प्रथमेना-ध्यायेन समन्वयः, (सर्ब्बेषां वेदान्तानां ब्रह्मणि तात्-पर्य्येणावधारणम्) प्रतिपाद्यते। द्वितीयेन अविरोधः। तृतीयेन साधनम् चतुर्थेन फलम्। इत्येवमध्यायार्थाःएवमेषां प्रतिपाद्यमुक्त्वा षोडशपादप्रतिपाद्यानर्थानभि-धाय।
“ऊहित्वा सङ्गतीस्त्रिस्रो याश्चावान्तरसङ्गतीः ततआक्षेपदृष्टान्तप्रत्युदाहरणादिकाः। पूर्व्वपक्षस्य सिद्धान्तयुक्तिं वीक्ष्य परे नये। पूर्व्वपक्षोक्तयुक्तिं च तत्राक्षेपादियोजयेत्” इति वेदा॰ न्या॰ मा॰ अवान्तरसङ्गतिस्त्वने-कधा। आक्षेपसङ्गतिर्दृष्टान्तसङ्गतिः प्रसाङ्गिकसङ्गतिरित्ये-वमादि। उदाहृतञ्च तत्रैव तद्यथा प्रथमाधि-करणे ब्रह्मविचारशास्त्रमारम्भणीयमिति सिद्ध्वान्तः। तत्र युक्तिः ब्रह्मणः। संदिग्धत्वमिति। द्वितीयाधि-करणस्य जगज्जन्मादि ब्रह्मलक्षणं न भवतीतिपूर्व्वपक्षः तत्र युक्तिः जन्मादेर्जगन्निष्ठत्वादि। तदु-भयमवलोक्य तयोराक्षेपसंगतिं योजयेत्। संदिग्धत्वा-द्ब्रह्म विचार्य्यमित्ययुक्तं जन्मादेरन्यनिष्ठत्वेन ब्रह्म-णोलक्षणत्वाभावे सति ब्रह्मैव नास्ति कुतस्तस्य संदिग्धत्वं विचार्य्यत्वं वेत्याक्षेपसंगतिः। दृष्टान्तप्र{??}हरणसङ्गती अपि योजयितुं शक्येते। यथा संदिग्धत्वहेतुना ब्रह्मणो विचार्य्यत्वं तथा जन्माद्यन्यनिष्ठत्वहेतुना ब्रह्मणो लक्षणं नास्तीति दृष्टान्तसंगतिः। यथाविचार्य्यत्वे हेतुरस्ति न तथा लक्षणसद्भावहेतुं प-श्याम इति प्रत्युदाहरणसंगतिः। एते दृष्टान्तप्रत्यु-{??}हरणसंगती सर्व्वत्र सुलभे पूर्वाघिकरणसिद्ध्वान्तइणोत्तराधिकरणपूर्ब्बपक्षे हेतुमत्त्वसाम्यस्योत्तराधिकरण-सिद्धान्तं हेतुशून्यत्ववैलक्षण्यस्य च मन्दैरप्युत्प्रेक्षितुं[Page0530-b+ 38] शक्यत्वात्। आक्षेपसंगतिर्यथायोगमुन्नेया। प्रासङ्गिकसंगतिरुन्नीयते। देवताधिकरणस्याधिकारविचाररूपत्वात्समन्व-याध्याये ज्ञेयब्रह्मवाक्यविषये तृतीयपादे च संगत्यभावेऽपिबुद्धिस्थावान्तरसंगतिरस्ति। तथाहि पूर्ब्बाधिकरणे-ऽङ्गुष्ठमात्रवाक्यस्य ब्रह्मपरत्वादङ्गुष्ठमात्रत्वं ब्रह्मणोमनुष्यमात्रहृदयापेक्षं मनुष्याधिकारत्वाच्छास्त्रस्येति उक्तम्तत्प्रसङ्गेन देवताधिकरणं बुद्धिस्थम् सेयं प्रासङ्गिकी संगतिः। तदेवंन्यायसंगतिर्व्युत्पादिता”। एवं मीमांसासङ्गतिरपिअधिकरणमालायां दृश्या विस्तरभयान्नोक्ता ईदृशसङ्गत्यभा-वोऽसङ्गतिः।

२ असम्बन्धमात्रे

३ अर्थालङ्कारभेदे च अल-ङ्कारशब्दे

३९

४ पृष्ठे दृश्यः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असङ्गति¦ f. (-तिः)
1. Improbability, incongruity.
2. Not associating with. E. अ neg. सङ्गति congruity.

"https://sa.wiktionary.org/w/index.php?title=असङ्गति&oldid=489787" इत्यस्माद् प्रतिप्राप्तम्