उद्भिज्ज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्भिज्जम्, त्रि, (उद्भेदनमिति उद्भित् सम्पदादित्वात् क्विप् । तस्मात् जायते यत् । उद्भित् + जन् + ड ।) उद्भिद्यजातमात्रम् । तच्च तरुगुल्मादि । इत्यमरः ॥ (यथा, मनुः । १ । ४६ । “उद्भिज्जाः स्थावराः सर्व्वे वीजकाण्डप्ररोहिणः” । “इन्द्रगोपमण्डूकप्रभृतय- उद्भिज्जाः” ॥ इति सूत्रस्थाने प्रथमेऽध्याये सुश्रुते- नोक्तम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्भिज्ज वि।

उद्भिद्

समानार्थक:उद्भिद्,उद्भिज्ज,उद्भिज

3।1।51।2।3

स्वेदजाः कृमिदंशाद्याः पक्षिसर्पादयोऽण्डजाः। उद्भिदस्तरुगुल्माद्या उद्भिदुद्भिज्जमुद्भिदम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, अचलसजीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्भिज्ज¦ पु॰ उद्भिनत्ति क्विप् उद्भित् तथा सन् जायतेजन--ड कर्म्म॰। भूमिमुद्भिद्य जाते

१ तरुगुल्मादौ
“उद्भिज्जाःस्थावराः सर्वेवीजकाण्डप्ररोहिणः” इति मनुः। पदा॰योगार्ण्णवे।
“देहश्चतुर्विधोजन्तोर्ज्ञेय उत्पत्तिभेदतः। उद्भिज्जः स्वेदजोऽण्डोत्थश्चतुर्थश्च जरायुजः। उद्भिद्यभूमिं निर्गच्छन्नुद्भिदः स्थावरश्च यः” इति विभज्य तदुत्-पत्तिप्रकारस्तत्र दर्शितः
“उद्भिज्जाः स्थावरा ज्ञेयास्तृ-णगुल्मादिरूपिणः। तत्र सिक्ता जलैर्भूमेरूष्मभिश्च विपा-चिताः। वायुना व्यूहमानास्तु वीजत्व प्रतियन्ति ते। तथाचोप्तानि वीजानि संसिक्तान्यम्भसा पुनः। उच्छू-नतां मृदुत्वं च मूलभावं प्रयान्ति च। तन्मूलादङ्कुरोत्पत्तिरङ्कुरात् पर्ण्णसम्भवः। पर्ण्णात्मकस्वतःकाण्डः काण्डाच्चप्रसरः पुनः”। एतेषां च यथा पापभोगायतनवत्त्वात्देहवत्त्वं तथाऽयोनिजशब्दे

३४

७ पृष्ठे उक्तम्
“शरीरजैःकर्मदोषैर्याति स्थावरतां नरः” या॰ स्मृतौ शारीरपापेनतेषां देहोत्पत्तिश्रवणात् भोगायतनदेहवत्त्वमुन्नेयम्। अतएव मुक्तावल्याम् चेष्टाश्रयत्वं शरीरलक्षणमुक्त्वा
“वृक्षादीनामपि चेष्टासत्त्वान्नाव्याप्तिः। न च वृक्षादीनांशरीरित्वे किं मानम्? इति वाच्यम् आध्यात्मिकवायु-सन्धन्धस्य प्रमाणत्वात् तत्रैव किं मानम्? इति चेत्भानक्षतसंरोहणादिना तदनुमानात्” इत्युक्तम्। यथा चस्थावराणां स्वस्वकर्मोत्पन्नदेहसत्त्वं तथाऽवरोहशब्दे

४४

० पृष्ठे शा॰ सू॰ भाष्येण दर्शितम्। तेषां विमागोन्यायक-न्दल्याम् दर्शितं यथा
“स्थावरास्तृणौषधिलतावतानवनस्पतयइति” भा॰।
“तृणमूलपादिः ओषधयः फलपाकान्ता गोधू-मादयः, ये न पुष्पफलास्ते वृक्षा कोविदारप्रभृतयः लता{??}। अवतन्वन्ति अवताना विटपास्तद्वन्तः केतकी{??}रादयः ये विना पुष्पं फलन्ति ते वनस्पतय ओदु-{??}देयः”। न्या॰ क॰।

२ भूमिमुद्भिद्यजातमात्रे त्रि॰ स्थाव-[Page1180-b+ 38] रादिविभागे सुश्रुतः
“द्रव्याणि पुनरोषधयस्ता द्विविधाःस्थावरा जङ्गमाश्च। तासां स्थावराश्चतुर्विधाः। वनस्पतयीवृक्षा वीरुध ओषधय इति। तास्वपुष्पाः फलवन्तोबन-स्पतयः पुष्पफलवन्तो वृक्षाः। प्रतानवत्यः स्कन्धिन्यश्चवीरुधः। फलपाकनिष्ठा ओषधय इति। जङ्गमा अपिचतुर्विधा जरायुजाण्डजस्वेदजोद्भिज्जाः। तत्र पशु-मनुष्यव्यालादयो जरायुजाः। खगसर्पसरीसृपप्रभृतयोऽण्डजाः। कृमिकीटपिषीलिकाप्रभृतयः स्वेदजाः। इन्द्रगोपमण्डूकप्रभृतय उद्भिज्जाः”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्भिज्ज¦ mfn. (-ज्जः-ज्जा-ज्जं) Sprouting, germinating. (as a vegetable.) E. उद्भिद् a vegetable, and ज produced; also उद्भिज one ज being drop- ped; also उद्भिद्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्भिज्ज/ उद्-भिज्--ज mfn. sprouting , germinating (as a plant) ChUp. AitUp. MBh. Mn. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of ज्योतिष्मत्, after whose name was उद्भिज्जवर्ष. Br. II. १४. २७-28.
(II) (च्)--a kingdom of कुशद्वीप--also उद्भिदम्। Br. II. १४. २८; १९. ५७.
"https://sa.wiktionary.org/w/index.php?title=उद्भिज्ज&oldid=426577" इत्यस्माद् प्रतिप्राप्तम्