कालपुरुष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कालपुरुषः पुं, (कालः कालचक्रं पुरुष इव ।) यम- सहायः । इति जटाधरः ॥ ज्योतिःशास्त्रम् । यथा “किन्त्वस्य कालपुरुषाख्यमहार्णवस्य गच्छेत् कदाचिदनृषिर्मनसापि पारम्” ॥ कालपुरुषः स चाख्या नाम यस्यासौ तस्य ज्योतिःशास्त्रविस्तीर्णसमुद्रस्य । इति भट्टोत्पलः ॥ * ॥ नराणां शुभाशुभज्ञानार्थं जन्मलग्नादिद्वादशरा- शिकल्पितपुरुषाकारः । यथा, -- “शीर्षमुखबाहुहृदयोदराणिकटिवस्तिगुह्यसंज्ञ- कानि । ऊरूजानुकजङ्घेचरणाविति च राशयो- ऽजाद्याः” ॥ इति दीपिका ॥ * ॥ नराणां शुभा- शुभज्ञानार्थं जन्मलग्नादिराशिद्रेक्काणघटितपुरु- षाकारः । यथा, “कं दृक्श्रोत्रनसाकपोलहनवो वक्त्रञ्च होरादयस्ते कण्ठांशकबाहुपार्श्वहृदयक्रो- डानिनाभिस्ततः । वस्तिः शिश्नगुदे ततश्च वृषणा- वूरूततो जानुनी जङ्क्षाङ्घ्री ह्युभयत्र वाममुदितै- र्द्रेक्काणभागैस्त्रिधा” ॥ इति “कालनरस्याङ्गेसद- सद्ग्रहयोगतः । पुंसामपि तदङ्गेषु शुभाशुभफलं वदेत्” ॥ इति वृहज्जातकम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कालपुरुष¦ पु॰ कालः कालचक्रं पुरुष इव। मेषादिद्वादशराशिस्वरूपे कालव्यवहारकारके पुरुषाकारे गगनस्थे

१ वायुचक्रभेदे। तस्य च जन्मादौ शुभाशुभज्ञानाययथाङ्गादिविभागः, तथा वृहज्जातके उक्तं यथा
“शीर्षंमुखबाहू हृदयोदराणि कटिअस्तिगुह्यसंज्ञकानि। जानु-ऊर्ङ्घेच च ऊरू चरणाविति राशयोऽजाद्याः” तस्यार्थः।
“मेषः शिरोवृषोवक्त्रं मियुनं बाहुयुग्यकम्। कर्कटो-हृदयञ्चैब सिहस्तूदरमेव च। कन्या कटिस्तुला वस्ति-र्वृश्चिको गुह्यमेव च। धनुरूरू मृगो जानु कुम्भोजङ्घेप्रकीर्त्तिते। मीनः पादद्वयञ्चैवाङ्गानि कालनरस्य तु”। ततश्च यदङ्गराशिराशीशौ दीर्घौ तदङ्गं दीर्घं, तयोर्लघुत्वेलघु, राशिराशीशयोर्भिन्नरूपत्वे मध्यमम् इति कल्प्यम्। लग्नद्रेक्काणभेदेनाङ्गविशेषः तत्द्द्येक्काणे सदसद्ग्रह-योगेन फलविशेषश्च वृहज्जा॰ उक्तः यथा।
“कं दृक्-श्रोत्रनसाकपोलहनवो वक्त्रञ्च होरादयस्ते कण्ठांसक-वाहुपार्श्वहृदयक्रोडानि नाभिस्ततः। वस्तिः शिश्नगुदेततश्च वृषणावूरू ततो जानुनी--जङ्घ्रङ्घ्री ह्युभयत्रवाममुदितैद्रेक्काणभागैस्तिधा” वचनस्यायमर्थः त्रिभि-र्द्रेक्काणभागैस्त्रिधा देहविभाग इति शेषः। तत्र प्रथ-मेन द्रेक्काणेन मूर्द्धाद्यङ्गं, द्वितीयेन कण्ठादि, तृतीयेनवस्त्यादि। तत्राप्य्वदितैर्दृश्यभागस्थैर्वाममङ्गमनुदितैर-दृश्यभागस्थैर्दक्षिणाङ्गमित्यर्थः। तथाच लग्नात् द्वाद-शैकादशदशमनवमाष्टमसप्तमाः उदितभागस्था दृश्याः। अनुदितभागस्थोऽदृश्यः सच लग्नात् द्वितीयतृतीयचतुर्थ-पञ्चमषष्ठसप्तमांशभेदभागस्थः। तथाचायमर्थः प्रथमेद्रेक्-काण लग्नं शिरः, द्वितीये द्वादशे च क्रमेण दक्षवामेदृशौ, तृतीयैकादशयोः दक्षवामश्रोत्रे, चतुर्थपञ्चमयोः,[Page2000-b+ 38] दक्षवामे नासे, पञ्चमनवभयो, दक्षवामकपोलौ, षष्ठा-ष्टमयोः दक्षवामे हनू, सप्तमं मुखम्। लग्नगे द्वितीयेद्रेक्काणे लग्नं कण्ठः, द्वितीयद्वादशयोः दक्षवाभस्कन्धौ,तृतीयैकादशयोः दक्षवामौ बाहू, चतुर्थदशमयोः दक्षवामेपार्श्वे पञ्चमनवमयोः दक्षवमौ हृद्भागौ, षष्ठाष्टमयोःदक्षवामौ उदरभागौ, सप्तमं नाभिः। लग्नस्य तृतीयेद्रेक्काणे लग्नं वस्तिः (नाभिलिङ्गमध्यभागः) द्वितीय-द्वादशयोः दक्षवामौ शिश्नगुह्यभागौ, तृतीयैकादशयोःदक्षवामौ ऊरू। पञ्चमनवप्नयोः दक्षवामे जानुनी। षष्ठाष्ठमयोः दक्षवामे जङ्घे, सप्तमं पादाविति। इतिमहीधरकृतव्याख्यानुसारि। तत्फलमाह तत्रैव
“तस्मिन्पापयुते व्रणं, शुभयुते सौम्यं, हि लक्ष्मादिशेत्। स्वर्क्षांशे स्थिर

२ ,

५ ,

८ ,

११ , संयुते च सहजः, स्यादन्य-थागन्तकः। मन्दे खानिलजोऽग्निशस्त्रविषजो भौमे,बुधे (पापयुते) भूभवः, सूर्य्ये काष्ठचतुष्पदाच्च, हिमगौ(हीनचन्द्रे) शृङ्ग्यब्जजोऽन्ये शुभाः”। कालपुरुषःप्रतिपाद्यतयास्त्यस्य अच्।

२ ज्योतिःशास्त्रे
“किन्त्वस्यकालपुरुषस्य महार्णवस्य गच्छेत् कदाचिदन्र्षिर्मनसाऽपिपारम्” भट्टोत्पलः। कर्म्म॰।

३ कृष्णवर्ण्णपुरुषे। कालःपुरुष इव। दानार्थं कल्पिते पुरुषाकारे

३ कालरूपेश्वर-मूर्त्तिभेदे पु॰ तत्प्रकारो हेमा॰ दा॰ ख॰ उक्तो-भविष्यो॰ पु॰ यथा
“काम्योदानविधिः पार्थ! क्रियमाणो यथातथम्। फलायमुनिभिः प्रोक्तो विपरीतो भयाय च। ज्ञेयं निष्कशतंपार्थ! दानेषु विधिरुत्तमः। मध्यमस्तु तदर्द्धेन तदर्द्धे-नाधमः स्मृतः। मेष्याञ्च कालपुरुषे तथान्येषु महत्सुच। एवं वृक्षे रथेऽण्डे च धेनोः कृष्णाजिनस्य च। अशक्तस्यापि क्लिष्टोऽयं पञ्चसौवर्णिकोविधिः। अतोऽप्यल्पेनयोदद्यात् महादानं नराधिप!। प्रतिगृह्णाति वा तस्यदुःखशोकावहं भवेत्। पुण्यन्दिनमथासाद्य भूमिभागेसमे शुमे। चतुर्द्दश्यां चतुर्थ्यां वा विष्थां व पाण्डु-नन्दन!। पुमान् कृष्णतिलैः कार्य्योरौप्यदन्तः सुवर्ण्णदृक्”। सुवर्ण्णादिपरीमाणमत्र यथाशक्ति सम्पादनीयम्। खड्गोद्यतकरोदीर्घोजवाकुसुमकुण्डलः। रक्ताम्बरधरःस्रग्वी शङ्खमालाविभूषितः। तीक्ष्णासिपुत्रीबन्धेन विसृ-ग्दारिकटीतटः। उपानदुयुअयुक्ताङ्घ्रिः कृष्णकम्बल-पार्श्वगः। गृहीतमांसपिण्डश्च वामे करतले तथा। एवंविधं नरं कृत्वा गृहीतकुसुमाञ्जलिः। यजमानः[Page2001-a+ 38] प्रसन्नात्मा इमं मन्त्रमुदीरयेत। सम्पूज्य गन्धकुसुमैर्नै-वेद्यं विनिवेद्य च। सर्व्वं कलयसे यस्मात् कालस्त्वं तेनचोच्यसे। ब्रह्मविष्णुशिवादीनां त्वमाराध्योऽसि सुव्रत!। पूजितस्त्वं मया भक्त्या पार्थिवश्च तथासुखम्। यद्बु-ध्यते तव विभो! तत्कुरुष्व नमोनमः। एवं संपूजयित्वातं ब्राह्मणाय निवेदयेत्। ब्राह्मणं प्रथमं पूज्य वासो-भिर्भूषणैस्तथा। दक्षिणां शक्तितो दद्यात् प्रणिपत्यविसर्ज्जयेत्”। दक्षिणां पूर्व्वोक्तां निष्कादिकाम्
“अनेनबिधिना यस्तु दानमेतत् प्रयच्छति। न च मृत्युभयं तस्यन च व्याधिकृतं भवेत्। भवत्यव्याहतैश्वर्य्यः सर्वबाधा-विवर्ज्जितः। देहान्ते सूर्य्यभवनं भित्त्वा याति परंपदम्। पुण्यक्षयादिहागत्य राजा भवति धार्म्मिकः। सत्रयाजी श्रिया युक्तः पुत्रपौत्रसमन्वितः। संपूज्यकालपुरुषं बिधिवद्द्विजाय दत्त्वा शुभाशुभफलोदयहेतु-भूतम्। रोगातुरे सकलदोषमयेऽत्र देहे देही न मोह-मुपगच्छति तत्प्रभावात्”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कालपुरुष¦ m. (-षः)
1. One of YAMA'S attendants or ministers.
2. An as- trological figure of a man, with the positions of the constella- tions, &c. inscribed on different parts of the body for the purpose of predicting his fortunes; also कालनर, &c. E. काल black, and पुरुष a man.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कालपुरुष/ काल--पुरुष m. = -नर, time personified VarBr2S.

कालपुरुष/ काल--पुरुष m. a servant of the god of death Ka1d.

"https://sa.wiktionary.org/w/index.php?title=कालपुरुष&oldid=496028" इत्यस्माद् प्रतिप्राप्तम्