जन्पतिथि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जन्पतिथि¦ पु॰ स्त्री जन्मनस्तिथिः। जन्मकालिकतिथिसजा-[Page3026-b+ 38] तीयतिथौ स्त्रीत्वे वा ङीप् तत्र कृत्यानां गौणचान्द्रे-णैव कर्त्तव्यता। तद्विधानादि ति॰ त॰ दर्शितं यथा(
“तच्च मलमासे न कर्त्तव्यं चान्द्रमासीयत्वेन साव-काशत्वात्। नच तस्य सौरमासीयत्वं तथात्वे तन्मासेतत्तिथेः कदाचिदप्राप्तौ तद्वर्षे तत्कृत्यलोपापत्तेः नचेष्टा-पत्तिः प्रतिसंवत्सरन्तद्विधानात् यथा ब्रह्मपुराणं गर्गश्च
“सर्वैश्च जन्मदिवसे स्नातैर्मङ्गलपाणिभिः। गुरुदेवाग्नि-विप्राश्च पूजनीयाः प्रयत्नतः। स्वनक्षत्रञ्च पितरौ तथादेवः प्रजापतिः। प्रतिसंवत्सरञ्चैव कर्त्तव्यश्च महोत्-सवः”। स्नातैस्तिलस्नातैः तथाच तत्तिथिमधिकृत्य‘ तिलोद्वर्त्तीतिलस्नायी तिलहोमी तिलप्रदः। तिलभुक्तिलवापी च षट्तिली नावसीदति। ’ प्रजापतिर्ब्रह्मा। मङ्गलपाणिभिः अभिप्रेतार्थसिद्धिर्मङ्गलं तद्धेतुतयागोरोचनादिकमपि मङ्गलं तेन गुग्गुल्यादिपाणिभि-रित्यर्थः। तथाच कृत्यचिन्तामणौ‘ गुडदुग्धतिलानद्या-ज्जन्मग्रन्थेश्च बन्धनम्। गुग्गुलुं निम्बसिद्धार्थं दूर्वागो-रोचनायुतम्। संपूज्य भानुविघ्नेशौ महर्षिं प्रार्थयेदिदम्। चिरजीवी यथा त्वं भोभविष्यामि तथा मुने!। रूपवान्वित्तवांश्चैव श्रियायुक्तश्च सर्वदा। मार्कण्डेय! महाभाग!सप्तकल्पान्तजीवन!। आयुरिष्टार्थसिद्ध्यर्थमस्माकं वरदो-भव”। स्वनक्षत्रमिति स्वनक्षत्रं अश्विन्याद्यन्तर्गतजन्मका-लीननक्षत्रं नामकरणे तथादर्शनात् वक्ष्यमाणब्रह्मपुरा-णोक्तप्रणवादिनमोऽन्तेन नाम्नैव पूजाविधानाच्च तद-ज्ञाने स्वनक्षत्राय नम इत्युल्लेख्यम्। पूजायामर्घ्या-नन्तरं पाद्यमाह मत्स्यपुराणम्
“अर्घ्यपाद्यादिकन्तत्रमधुपर्कं प्रयोजयेत्। ’ पाद्यानन्तरमर्घ्यमाह नरसिंह-पुराणम्। ‘ पाद्यं चैव तृतीयया चतुर्थ्यार्घ्यं प्रदा-पयेत्। ’ तृतीयया पुरुषसूक्तीयतृतीयया ऋचा उभय-क्रमदर्शनादिच्छाविकल्पः इति श्रीदत्तः। श्रीपतिव्यव-हारनिर्णये‘ नवाम्बरधरो भूत्वा पूजयेच्च चिरायुषम्। ’ तथा‘ द्विभुजं जटिलं सौम्यं सुवृद्धं चिरजीविनम्। मार्कण्डेयं नरो फक्त्या पूजयेत् प्रयतस्तथा। ततो दीर्घायुषं व्यासं रामं द्रौणिं कृपं वलिम्। प्रह्रादञ्च हनूमन्तविभीषणमथार्च्चयेत्। ’ रामोऽत्र परशुरामः चिरजीविसाहचर्य्यात् द्रौणिरश्वत्थामा। तथा‘ स्वनक्षत्रं जन्मति{??}प्राप्य सम्पूजयेन्नरः। षष्ठीञ्च दधिभक्तेन वर्षे वर्षे पुनपुनः’। ‘ एकैकां देवतां राम! समुद्दिश्य यथाविधि। चतुर्थ्यन्तेन घर्मज्ञ! नाम्ना च प्रणवादिना। होमद्रव्यमथैकैव[Page3027-a+ 38] शतसंख्यन्तु होमयेत्” इति विष्णुधर्मोतरदर्शनात्। एवंहोमे स्वाहान्तता च मन्त्रस्य
“स्वाहावसाने जुहुयात्ध्यायन् वै मन्त्रदेवताम्” इति स्मृतेः। अशक्तौ तु देवीपु-राणम्
“होमग्रहादिपूजायां शतमष्टोत्तरं भवेत्। अष्टाविंशतिरष्टौ वा यथाशक्ति विधीयते”। स्कान्दे
“खण्डनं नखकेशानां मैथुनाध्वानमेव च। आमिषंकलहं हिंसां वर्षवृद्धौ विवर्जयेत्”। अध्वानम् अघ्वगमनंकलहमित्यत्र{??}ङ्गरमिति क्वचित् पाठः सङ्गरं युद्धम्। वर्षवृद्धौ जन्मदिने। वृद्धमनुः
“मृते जन्मनि संक्रान्तौश्राद्धे जन्मदिने तथा। अस्पृश्यस्पर्शने चैव न स्नाया-{??}ष्णवारिणा”। जन्मनि पुत्रजन्मनि। ज्योतिषे
“स्नात्वाजन्मदिने स्त्रियं परिहरन् प्राप्नोत्यर्भाष्टां श्रियम् मत्-स्यान्मोचयतो द्विजाय ददतोऽप्यायुश्चिरं वर्द्धते। सक्तून्खादति यस्तु तस्य रिपवोनाशं प्रयान्ति ध्रुवं भुङ्क्तेयस्तु निरामिषं स हि भवेत् जन्मान्तरे पण्डितः”। दीपि-कायाम्
“जन्मर्क्षयुक्ता यदि जन्ममासे यस्य ध्रुवं जन्म-तिथिर्मवेच्च। भवन्ति तद्वत्सरमेव यावन्नैरुज्यसम्मान-सुखानि तस्य। कृतान्तकुजयोर्वारे यस्य जन्मदिनंभवेत्। अमृक्षयोगसंप्राप्तौ विघ्नस्तस्य पदे पदे”। कृता-न्तकुजयोः शनिमङ्गलयोः।
“तस्य सर्वौषधिस्नानं ग्रह-विप्रसुरार्च्चनम्। ग्रहानुद्दिश्य होमोवा ग्रहाणां प्रीति-मिच्छता। सौरारयोर्दिने मुक्ता देयानृक्षे तु काञ्चनम्। मुरा मांसी वचा कुष्ठं शैलेयं रजनीद्वयम्। शठीचम्प-कमुस्तञ्च सर्वौषधिगणः स्मृतः”॥ सौरारयोः शनि-भौमयोः। रजनीद्वयं हरिद्रादारुहरिद्रे। एषां पत्रादी-नामपि ग्रहणम्। कषायावयवग्रहणमाह मत्स्यपुराणम्‘ एषां पत्राणि साराणि मूलानि कुसुमानि च। एवमा-दीनि चान्यानि कषायाख्योगणः स्मृतः”। तत्र क्रमः। तिलोद्वर्त्तनं तिलयुक्तजलेन स्नानं नववस्त्रपरिधानंगुग्गुलुनिम्बश्वेतसर्षपदूर्वागोरोचनात्मकजन्मग्रन्थिं दक्षि-णपाणौ बध्नीयात्। गुरुदेवाग्निविप्राः पूजनीयाःस्वनक्षत्रमपि पूजनीयम्। अत्र च
“हस्तास्वाती श्रवणाअक्लीवे मृगशिरीनपुंसि स्यात्। पुंसि पुनर्वसुपुष्यौ मूलंपुंस्त्री स्त्रियः शेषाः” इत्यनेन लिङ्गनिर्णयः। जन्मन-क्षत्रादीनां गोपनमाह विष्णुधर्म्मोत्तरे
“गोपयेज्ज-न्मनक्षत्र धनसारं गृहे मलम्। प्रभोरप्यपमानञ्चतस्य दुश्चरितञ्च यत”। धनसारं धनश्रेष्ठं मलं छिद्रम्। पितरौ प्रजापतिः सूर्य्यो गणपतिर्मार्कण्डेयच्च पूज-[Page3027-b+ 38] नीयः। ‘ सतिलं गुडसंयुक्तमञ्जल्यर्द्धमितं पयः। मार्क-ण्डेयवरं लब्धा पिबाम्यायुष्यहेतवे” इति गुडतिलदुग्ध-पानमन्त्रः। ततः प्रार्थनामन्त्रौ। ‘ चिरजीवी यथात्वं भो भविष्यामि तथा मुने!। रूपवान् वित्तवांश्चैवश्रिया युक्तश्च सर्वदा। मार्कण्डेय! महामाग! सप्तकल्पान्तजीवन!। आयुरिष्टार्थसिद्ध्यर्थमस्माकं वरदोभव”। तती-व्यासपरशुरामाश्वत्थामकृपवलिप्रह्लादहनूमद्विभीषणाः पू-जनीयाः। षष्ठ्यपि।
“त्रैलोक्ये यानि भूतानि स्थाव-राणि चराणि च। व्रह्मविष्णुशिवैः सार्द्धं रक्षां कुर्वन्तुतानि मे”। इति मत्स्यपुराणीयं पठेत्। पितृमातृ-पादग्रहणक्रमस्तु विष्णुपुराणादुन्नेयः यथा
“कृष्णोऽपिवसुदेवस्य पादौ जग्राह सत्वरः। देवक्याश्च महा-बाहुर्बलदेवसहायवान्”। एवञ्च
“सहस्रन्तु पितु-र्माता गौरवेणा वरिच्यते” इति मनुवचने सहस्रं पितॄ-नपेक्ष्य यद्गौरवमुक्तं तत्पोषणरक्षार्थम्। अतएव मनुः
“मृते भर्त्तरि पुत्रस्तु वाच्यो मातुररक्षिता”। वाच्यो-गर्हणीयः। अत्र वैदिकेतरमन्त्रपाठे शूद्रादेरप्यधिकारः
“वेदमन्त्रवर्जम् शूद्रस्य” इति छन्दोगाह्निकाचारचिन्तामणि-धृतस्मृतौ वेदेति विशेषणात्। एवञ्च पुराणमधिकृत्य
“अध्येतव्यं न चान्येन ब्राह्मणं क्षत्रियं विना। श्रोतव्यमिहशूद्रेण नाध्येतव्यं कदाचन” इति भविष्यपुराणवचनंपुराणमन्त्रेतरपरम्। पञ्चयज्ञस्नानश्राद्धेषु पौराणिक-मन्त्रोऽपि निषिद्धः। शूद्रमधिकृत्य
“नमस्कारेण मन्त्रेणपञ्चयज्ञान्न हापयेत्” इति याज्ञवल्क्येन
“ब्रह्मक्षत्रविशा-मेव मन्त्रवत् स्नानमिष्यते। तुष्णीमेव हि शूद्रस्य स नम-स्कारकं{??}तम्” इति योगियाज्ञवल्क्येन श्राद्धमधिकृत्य
“अयमेव वि{??} प्रोक्तः शूद्राणां मन्त्रवर्जितः। अमन्त्रस्यतु शूद्रस्य विप्रो मन्त्रेणं गृह्यते” इति वराहपुराणेनच नमस्कारेणेति तुष्णीमिति मन्त्रवर्जित इति चाभि-धानादेतत्परं वैदिकपरञ्च शूद्राधिकारे गौतमवचन
“अनुमतोऽस्य नमस्कारो मन्त्रः” इति। अनुपनीतस्यापिशूद्रसमत्वेन श्राद्धातिरिक्तवेदपाठनिषेधमाह मनुः
“नाभिव्याहारयेद्व्रह्म स्वधानिनयनादृते। शूद्रेण हिसमस्तावत् यावद्वेदे न जायते”। स्त्रीणामपि वैदिक-मन्त्रनिषेधमाह नृसिंहतापनीयम्
“सावित्रीप्रणवं यजुर्लक्ष्मीं स्त्रीशूद्रयोर्नेच्छन्ति सावित्रीं प्रणवंयजुर्लक्ष्मीं स्त्री शूद्रोयदि जानीयात्स मृतोऽधोगच्छति” इति मेच्छन्तीतिपर्य्यन्तं पराशरभाष्येऽपि लिंखतम्। [Page3028-a+ 38] जन्मतिथेः प्रागुक्तब्रह्मपुराणीयत्वात् पौर्णमास्यन्तमासा-दरः। गृह्यपरिशिष्टम्
“उपाकर्म्म तथोत्सर्गःप्रसवाहोऽष्टकादयः। मानवृद्धौ पराः कार्य्या वर्जयित्वा तुपैतृकम्”। अत्राष्टकासाहचर्य्याज्जन्माष्टम्यां तथादर्शनाच्च प्रसवाहो जन्मदिनम्।
“द्बादश मासाः संवत्सरःक्वचित्त्रयोदश मासाः संवत्सरः” इति श्रुत्या वर्षे मासवृद्धि-रूपा मानवृद्धिरुक्ता सैबात्र ग्राह्या न तु सौरे मासितिथिद्वयलाभान्मानवृद्धिर्जीमूतवाहनोक्ता ग्राह्या ति-थिद्वयलाभस्य मानवृद्धित्वे प्रमाणाभावात्। मान-वृद्धावित्यत्र मासवृद्धाविति हेमाद्रिणा धृतम्। पैतृकंमपिण्डीकरणं मलमासमृतस्य प्रत्याव्दिकञ्च तयोर्मल-मासेऽपि विधानात्। ज्योतिः पराशरोऽपि
“उपाकर्म्मतथोत्सर्गः प्रसवाहोऽष्टकादयः। मासवृद्धौ पराः कार्य्या-वर्जयित्वा तु पैतृकम्”। जन्मतिथेरुभयदिनलाभे तुदेवीपुराणम्
“युगाद्या वर्षवृद्धिश्च सप्तमी पार्वती-प्रिया। रवेरुदयमीक्षन्ते न तत्र तिथियुग्मता। घस्रद्वये जन्मतिथिर्यदि स्यात् पूज्या तदा जन्मभसंयु-तैव। असङ्गता भेन दिनद्वयेऽपि पूज्या परा या भव-तीह यत्रात्”। भं नक्षत्रं परवचनं वृहद्राजमार्त्त-ण्डेऽपि। पूर्व्वाह्णे तिथिनक्षत्रलाभ एवेदं लक्ष्यते
“नक्षत्रे खण्डिते येन प्राप्तः कालस्तु कर्म्मणः। नक्षत्रकर्म्माण्यत्रैव तिथिकर्म तथैव च” इति वृहस्पविवचनात्। खण्डिते खण्डद्वययुक्ते येन नक्षत्रखण्डेन विहितकालःप्राप्तः। नक्षत्रद्वैघे तु बौधायनमार्कण्डेयौ
“तन्नक्षत्रम-होरात्रं यस्मिन्नस्तं गतोरविः। यस्मिन्नुदेति सवितातन्नक्षत्रं दिनं स्मृतम्”। पूर्व्वार्द्धमहोरात्रसाध्योपवासनक्तैकभक्तेषु
“तत्रैवोपवसेदृक्षे यन्निशीथादधोभवेत्। उपवासे यद्वक्षं स्यात् तद्धि नक्तैकभक्तयोः” इति स्कन्द-पुराणात् निशीथादधैत्यनेन अर्द्धरात्रपूर्व्वकालत्वेनसूर्य्यास्तमयकालस्यापि लाभात्।
“उपोषितव्यं नक्षत्रंयेनास्तं याति भास्करः। यत्र वा युज्यते राम!निशीथे शशिना सह” इति विष्णुधर्म्मोत्तराच्च। उपवास-वन्नक्तव्रतादीनामहोरात्रसाध्यता अहोरात्रसाध्यभो-जनद्वथस्यैकतरपरित्यागसहितकालविशेषनियामकत्वात्। यस्मिन्नुदेतीति तु दिवसकर्त्तव्यस्नानदानादाविति बोध्यम्। पितृकार्य्येऽपि शुक्लकृष्णपक्षाभ्यां व्यवस्थामाह बौधायनः
“सा तिथिस्तच्च नक्षत्रं यस्मिन्नभ्युदितोरविः। वर्द्धमानस्यपक्षस्य हीने त्वस्तमयं प्रति”। हीने चन्द्रस्य हीनत्वात्[Page3028-b+ 38] कृष्णपक्षे, वर्द्धमानस्य चन्द्रस्य वर्द्धमानत्वेन शुक्लपक्षस्य। कालमाधवीयोऽप्येवम्। भोजराजः
“योजन्ममासे क्षुर-कर्मयात्रां कर्णस्य वेधं कुरुते च मोहात्। मूनं स रोगंधनपुत्रनाशं प्राप्नोति मूढोबधबन्धनानि। जातं दिनंदूषयते वशिष्ठश्चाष्टौ च गर्गोयवनोदशाहम्। जन्मा-ख्यमासं किल भागुरिश्च चूडे विवाहे क्षुरकर्णवेधे”। एतद्विषयभेदस्तु राजमार्त्तण्डे
“उक्तानि प्रतिषिद्धानिपुनः सम्भावितानि च। सापेक्षनिरपेक्षाणि श्रुति-वाक्यानि कोविदैः”। सापेक्षनिरपेक्षाणि समर्था-समर्थविषयकाणि। क्षुरेति क्षुरिकर्म्म। राजमार्त्तण्डे
“देवकार्य्ये पितृश्राद्धे रवेरंशपरिक्षये क्षुरिकर्म्मन कुर्व्वीत जन्ममासेऽथ जन्मभे”। एवञ्च चूड इतिचूडाकरणे अधिकदोषाय। नार्य्यास्तु जन्ममासे विवाह-माह श्रीपतिव्यवहारसमुच्चये
“स्नानं दानं तपो-विद्या सर्वमङ्गल्यवर्द्धनम्। उद्वाहश्च कुमारीणांजन्ममासे प्रशस्यते”। एवं
“जन्मोदये जन्मसु तारकासुमासेऽथ वा जन्मनि जन्मभे वा। व्रतेन विप्रो न-बहुश्रुतोऽपि विद्याविशेषैः प्रथितः पृथिव्याम्” इति व्यास-वचनेन जन्ममासे उपनयनविधानात्तदङ्गसशिखवषनेऽपिन दोषः। उदये लग्ने भे राशौ नवहुश्रुतोऽपि स्वल्प-विद्योऽपि। अत्र जन्ममासकृत्याकृत्ये सौरादरो यात्रा-दिसाहचर्य्यात् व्यवहारोऽपि तथा। प्रतिमासे जन्म-नक्षत्रकृत्यमाह विष्णुधर्म्मोत्तरम्
“जन्मनक्षत्रगे सोमेशिरःस्नानेन यत्नतः। पूजा सोमस्य कर्त्तव्या नक्ष-त्रस्य तथात्मनः। श्राद्धं कुर्य्यात् प्रयत्नेन वह्निब्राह्मणपूजने। वाहनायुधरत्नाद्यं पूजर्नायं प्रयत्नतः। सुराणामर्च्चनं कार्य्यं केशवस्य विशेषतः”।

"https://sa.wiktionary.org/w/index.php?title=जन्पतिथि&oldid=378262" इत्यस्माद् प्रतिप्राप्तम्