देवगृह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवगृहम् क्ली, (देवानां सूर्य्यादीनां गृहमिव ।) सूर्य्यचन्द्रादीनां ज्योतिर्म्मण्डलानि । यथा, -- “मन्वन्तरेषु सर्व्वेषु ऋक्षे सूर्य्यग्रहाश्रयात् । तानि देवगृहाणि स्युः स्थानाख्यानि भवन्ति हि ॥” इति मत्स्यपुराणम् ॥ देवालयः ॥ (यथा, कथासरित्सागरे । ४ । १०२ । “शून्ये देवगृहे देहमिन्द्रदत्तस्य रक्षितुम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवगृह¦ न॰

६ त॰। देवालये तल्लक्षणं गरुडपु॰

४७ अ॰ यथा
“चतुःषष्टिपदं कृत्वा दिग्विदिक्षूपलक्षितम्। चतु-ष्कोणं चतुर्भित्ति द्वाराणि सूर्यसंख्यया। चत्वारिंशा-ष्टभिश्चैव भित्तीनां क ल्पना भवेत्। ऊर्द्ध्वक्षेत्रसमाजङ्घा जङ्घार्द्धद्विगुणं भवेत्। गर्भविस्तारविस्तीर्णाशूकाग्रा च विधीयते। तत्त्रिभागेण कर्तव्या पञ्चभागेनवा पुनः। निर्गमस्तु शुकाग्राया उच्छ्रयः शिखरार्द्धतः। चतुर्धा शिखरं कृत्वा त्रिभागे वेदिबन्धनम्। चतुर्थेपुनरस्यैव कण्ठस्य मलसारकम्। अथ वापि समं वास्तुंकृत्वा षोडशभागिकम्। तस्य मध्ये चतुर्भागमादौगर्भन्तु कारयेत्। भागद्वादशकां भित्तिं ततस्तु परिक-ल्पयेत्। चतुर्भागेण भित्तीनामुच्छ्रयः स्यात् प्रमाणतः। द्विगुणः शिखरोच्छ्रायो भित्त्युच्छ्रायाच्च मानतः। शिख-रार्द्धस्य चार्द्धेन विधेयास्तु प्रदक्षिणाः। चतुर्दिक्षुतथा ज्ञेयो निर्गमस्तु तथा बुधैः। पञ्चभागेन संभज्यगर्भमानं विचक्षणः। भागमेकं गृहीत्वा तु निर्गमंकल्पयेत् पुनः। गर्भसूत्रसमो भागादग्रतो मुखमण्डपः। एतत् सामान्यमुद्दिष्टं प्रासादस्य हि लक्षणम्। लिङ्ग-मानमथो वक्ष्ये पीठो लिङ्गसमो भवेत्। द्विगुणेनभवेद्गर्भः समन्ताच्छौनक! ध्रुवम्। तद्विधा च भवेद्भित्ति-र्जङ्घा तद्विस्तरार्द्धगा। द्विगुणं शिखरं प्रोक्तं जङ्घायाश्चैव शौनक!। पीठं गर्भावरं कुर्यात् तन्मानेन शुका-[Page3678-b+ 38] ग्रकाम्। निर्गमस्तु समाख्यातः शेषं मूलवदेव तु। लि-ङ्गमानं स्मृतं ह्येतद् द्वारमानमथोच्यते। कराग्रं वेदवत्कृत्वा द्वारं भागाष्टकं भवेत्। विस्तरेण समाख्यातंद्विगुणं वेच्छया भवेत्। द्वारवत् पीठमध्ये तु शेषं शु-षिरकं भवेत्। पादिकं शैषिकं भित्तिर्द्वारार्द्धेन परि-ग्रहात्। तद्विस्तारसमा जङ्घा शिखरं द्विगुणं भवेत्। शुकाग्रा पूर्ववज्ज्ञेया निर्गमोच्छ्रायकं भवेत्। मण्डपेमानमेतत्तु स्वरूपञ्चापरं वदे। त्रैवेदं कारयेत् क्षेत्रंयत्र तिष्ठन्ति देवताः। इत्थं कृतेन मानेन बाह्यभागविनिर्गतम्। नेमिः पादेन विस्तीर्णा प्रासादस्य सम-न्ततः। गर्भन्तु द्विगुणं कुर्यात् नेम्यामानं भवेदिह। स एव भित्तेरुत्सेधो द्विगुणः शिखरो मतः। प्रासादा-नाञ्च वक्ष्यामि मानं योनिञ्च नामतः। वैराजः पुष्प-काख्यश्च कैलासो मालकाह्वयः। त्रिपिष्टः पञ्च पञ्चैतेप्रासादाः सर्वयोनयः। प्रथमश्चतुरस्रो हि द्वितीयस्तु तदायतः। वृत्तो वृत्तायतश्चान्योऽष्टास्रश्चेह च पञ्चमः। एतेभ्य एव सम्भूताः प्रासादाः सुमनोहराः। सर्वप्रकृतिभूतेभ्यश्चत्वारिंशच्च पञ्च च। मेरुश्च मन्दरश्चैव विमानश्चतथाऽपरः। भद्रकः सर्वतोभद्रो! रुचकोनन्दनस्तथा। नन्दिवर्द्धनसंज्ञश्च श्रीवत्सश्च नवेत्यमी। चतुरस्रात् समु-द्भुता वैराजादिति{??} गम्यताम्। वडभी गृहराजश्चशालागृहञ्च मन्दिरम। विशालश्च तथा ब्रह्ममन्दिरंभवनं तथा। उत्तम्भं शिविका वेश्म नवैते पुष्पकोद्-भवाः। बलयो दुन्दुभिः पद्मो महापद्मस्तथाऽपरः। बर्द्धनोऽप्यन्य उष्णीष शङ्खश्च कलसस्तथा। खपूरवृक्षका-श्चान्यो वृत्ताः कैलाससम्भवाः। गजोऽथ वृषभो हंसोगरुडः सिंहनामकः। भूमुखो भूधरश्चैव श्रीजयः पृ-थिवीधरः। वृत्तायतसमुद्भूता नवैते मालकाह्वयात्। वज्रं चक्रं तथान्यच्च स्वस्तिकं वज्रसंज्ञितम्। चित्रस्व-स्तिकखड्गौ च गदा श्रीवृक्ष एव च। विजयो ना-मतश्चैते त्रिपिष्टपसमुद्भवाः। त्रिकोणपत्रमर्द्धेन्दुचतुष्कोणं द्विरष्टकम्। यत्र तत्र विधातव्यं संस्थानंमण्डपस्य तु। राज्यञ्च विजयश्चैवमायुर्बर्द्धनमेव च। पुत्रलाभः श्रियः पुष्टिस्त्रिकोणादिक्रमाद्भवेत्। कुर्य्यात्ध्वजादिसंख्यां वा द्वारि गर्भगृहन्तथा। मण्डपः समसंख्याभिर्गुणितः सूत्रतस्तथा। मण्डपस्य चतुर्थांशाद्-भद्रः कार्यो विजानता। स्पर्द्धागवाक्षकोपेतो निर्ग-वाक्षोऽथ वा भवेत्। सार्द्धभित्तिप्रमाणेन भित्तिमाने-[Page3679-a+ 38] न वा पुनः। भित्तेर्द्वैगुण्यतो वापि कर्तव्या मण्डपाःक्वचित्। प्रासादे मञ्जुरी कार्य्या चित्रा विषममूमिका। परिमाणनिरोधेन रेखा वैषम्यभूमिका। आधारस्तुचतुर्द्वारश्चतुर्मण्डप्रशोभितः। शतशृङ्गसमायुक्तो मेरुप्रा-साद उत्तमः। मण्डपास्तस्य कर्तव्या भद्रैस्त्रिभिरल-ङ्कृताः। घटनाकारमानानां भिन्ना भिन्ना भवन्ति ये। कियन्तोयेषु साधारानिराधाराश्च केचन। प्रतिच्छन्द-कभेदन प्रासादाः सम्भवन्ति ते। अन्योन्यसङ्करा-स्तेषां घटना नामभेदतः। देवतानां विशेषाय प्रासादाबहवः स्मृताः। प्रासादे नियमो नास्ति देवानां च स्वयम्भुवाम्। तान्येव देवतानाञ्च पूर्बमानेन कारयेत्चतुरस्रायतास्तत्र चतुष्कोणसमन्विताः। चन्द्रशालान्विताः कार्य्या भेरीशिखरसंयुता। पुरतो वाहना-नाञ्च कर्तव्या लघुमण्डपाः। नाट्यशाला च कर्तव्याद्वारदेशसमाश्रया। प्रासादा देवतानाञ्च कार्या दिक्षुविदिक्ष्वपि। द्वारपालाश्च कर्तव्या मुख्याङ्गत्वात् पृथक्पृथक्। किञ्चिद्विदूरतः कार्य्या मठास्तत्रोपजीविनाम्। प्रावृता जगती कार्य्या फलपुष्पजलान्विता। प्रासादेषुसुरान् स्थाप्य पूजभिः पूजयेन्नरः। वासुदेवे सर्वदेवान्स्वर्गभाक् तद्गृहादिकृत्” प्रासादसामान्यलक्षणमुक्तमग्निपुराणे

१०

४ अ॰ यथा(
“ईश्वर उवाच वक्ष्येप्रासादसामान्यलक्षणं ते शिखि-ध्वज!। चतुर्भागीकृते क्षेत्रे भित्तेर्भागेन विस्तरात्। अद्रिभागेण गर्भः स्यात् पिण्डिका पादविस्तरात्। पञ्च-भागीकृतेक्षेत्रे ह्यन्तर्भागेतु पिण्डिका। सुषिरं भागवि-स्ती{??} भित्तयो भागविस्तरात् भागौ द्वौ मध्यमे गर्भेज्यष्ठनागद्वयेन तु। त्रिभिस्तु कन्यसोगर्भः येषो भित्तिरिति क्वचित्। षोढाभक्तेऽथ वा क्षेत्रेभित्तिर्मागैकविस्त-रात्। गर्भो भागेन विस्तीर्णो भागद्वयेन पिण्डिका। विस्ताराद् द्विगुणो वापि सपादद्विगुणोऽपि वा। अर्द्धा-र्द्धद्विगुणो वापि त्रिगुणः क्वचिदुच्छ्रयः। जगती विस्त-रार्द्धेन त्रिभागेण क्वचिद्भवेत्। गेमिः पादोनविस्तीर्णाप्रासादस्य समन्ततः। परिधिस्त्र्यंशको मध्ये रथकां-स्तत्र कारयेत्। चामुण्डभैरवं तेषु नाट्येशं च निवे-शयेत्। प्रासादार्द्धेन देवानामष्टौ वा चतुरोऽपि वा। प्रदक्षिणं बहिः कुर्यात् प्रासादादिषु वा न वा। आ-दित्याः पूर्वतः स्थाप्याः स्कन्दोऽग्निर्वायुगोचरे। एवंयमादयो न्यास्याः स्वस्यां स्वस्यां दिशि स्थिताः। चतुर्द्धा[Page3679-b+ 38] शिखरं कृत्वा शुकनासा द्विभागिका। तृतीये वेदिकात्वग्रे सकण्ठा मलसारकः। वैराजः पुष्पकश्चान्यः कै-लासो मालकस्तथा। त्रिविष्टपश्च पञ्चैव मेरुमूर्द्धनिसंस्थिताः। चतुरस्रस्तु तत्राद्यो द्वितीयोऽपि तदायतः। वृत्तो वृत्तायतश्चान्यो ह्यष्टास्रश्चापि पञ्चमः। एकैकोनवधा भेदैश्चत्वारिंशच्च पञ्च च। प्रासादः प्रथमो मेरु-र्द्वितीयो मन्दरस्तथा। विमानश्च तथा भद्रः सर्वतोभद्रएव च। रुचको नन्दको नन्दिवर्द्धनश्च तथापरः। श्रीवत्सश्चेति वैराजान्ववाये च समुत्थिताः। बलभीगृहराजश्च शालागृहञ्च मन्दिरम्। विशालश्च तथाब्रह्ममन्दिरं भुवनन्तथा। उत्तम्भः शिविका वेश्म नवैतेपुष्पकोद्भवाः। बलयो दुन्दुभिः पद्मो महापद्मक एव च। बर्द्धनो वान्य उष्णीषः शङ्खश्च कलसस्तथा। खपूरवृक्ष-कश्चान्योः वृत्ताः कैलाससम्भवाः। गजोऽथ वृषभो हंसोगरुत्मान् सिंहनामकः। भूमुखो भूधरश्चान्यः श्रीजयःपृथिवीधरः। वृत्तायतात् समुद्भूता नवैते मालकाह्वयात्। वज्रं चक्रं तथा चान्यत् स्वस्तिकं वज्रस्वस्तिकम्। चित्रंस्वस्तिकखड्गञ्च गदा श्रीवृक्ष एव च। विजयो नाम-तश्चैते त्रिविष्टपसमुद्भवाः। नगराणामिमाः सञ्ज्ञालाटादीनामिमास्तथा। ग्रीवार्द्धेनोन्नतञ्चूलं पृथुलञ्चविभागतः। दशधा वेदिकां कृत्वा पञ्चभिः स्कन्धविस्तरः। त्रिभिः कण्ठं तु कर्तव्यं चतुर्भिस्तु तदण्डकम्। दिक्षुद्वाराणि कार्याणि न विदिक्षु कदाचन। पिण्डिकाकोणविस्तीर्णा मध्यमान्ता ह्यदाहृता। क्वचित् पञ्चम-भागेन महतां गर्भपादतः। उच्छ्राया द्विगुणास्तेषाम-न्यथा वा निगद्यते। षष्ठ्याधिकात् समारभ्य अङ्गुलानांशतादिह। उत्तमान्यपि चत्वारि द्वाराणि दशहानितः। त्रीण्येव मध्यमानि स्युस्त्रीण्येव कन्यसान्यतः। उच्छ्रा-यार्द्धेन विस्तारो ह्युच्छ्रायोऽभ्यधिकस्त्रिधा। चतुर्भि-रष्टभिर्वापि दशभिरङ्गुलैस्ततः। उच्छ्रायात् पादविस्तीणांविशाखास्तदुदुम्बरे। विस्तरार्द्धेन बाहुल्यं सर्वेषामेव की-र्तितम्। द्विपञ्चसप्तनवभिः शाखाभिर्द्वारमिष्टदम्। अघः-शाखा चतुर्थांशे प्रतीहारो निवेशयेत्। मिथुनैरथ-बल्लीभिः शाखाशेषं विभूषयेत्। स्तम्भविद्धेऽभृत्यतास्यात् वृक्षविद्धे त्वभू{??}ता। कूपविद्धे भयं पूगवृक्षविद्धे धनक्षयः। प्रासादगृहशालादिमार्गविद्धेषु बन्ध-नम्। सभाबिद्धे तु दारिद्र्यं वर्णविद्धे निराकृतिः। उलूखले च दारिद्र्यं शिलाविद्धे तु शत्रुता। छायाविद्धे[Page3680-a+ 38] तु दारिद्र्यं वेधदोषे हि जायते। छेदादुत्पाटनाद्वापितथा प्राकारलङ्घनात्। सीमाया द्विगुणत्यागाद् वेध-दोषी न जायते”। देवगृहरूपप्रासादे विशेषस्तत्र

४२ अ॰ उक्तो यथा
“मानेन प्रतिमाया वा प्रासादमपरं शृणु। प्रतिमायाःप्रमाणेन कर्तव्या पिण्डिका शुभा। गर्भस्तु पिण्डिका-र्द्धेन गर्भमानास्तु भित्तयः। भित्तेरायाममानेन उत्से-धन्तु प्रकल्पयेत्। भित्त्युच्छ्रायात्तु द्विगुणं शिखरं कल्प-येद् बुधः। शिखरस्य तु तुर्येण भ्रमणं परिकल्पयेत्। शिखरस्य चतुर्थेन अग्रतो मुखमण्डपम्। अष्टमांसेनगर्भस्य रथकानान्तु निर्गमः। परिधेर्गुणभागेन रथकां-स्तत्र कल्पयेत्। तत्तृतीयेन वा कुर्याद्रथकानान्तु निर्ग-मम्। वामत्रयं स्थापनीयं रथकत्रितये सदा। शिख-रार्थं हि सूत्राणि चत्वारि विनिपातयेत्। शुकनासो-र्द्ध्वतः सूत्रं तिर्यग्भूतं निपातयेत्। शिखरस्यार्द्धभा-गस्थं सिंहं तत्र तु कारयेत्। शुकनासां स्थिरीकृत्यमध्यसन्धौ निधापयेत्। तदूर्द्ध्वन्तु भवेद्वेदी सकण्ठा म-लसारकम्। स्कन्धभग्नं न कर्तव्यं विकरालं तथैव च। ऊर्द्ध्वं च वेदिकामानात् कलसं परिकल्पयेत्। विस्ता-राद्द्विगुणं द्वारं कर्तव्यं तु सुशोभनम्। उदुम्बरौतदूर्द्ध्वञ्च न्यसेच्छाखां सुमङ्गलैः। द्वारस्य तु चतुर्थांशेकार्य्यौ चण्डप्रचण्डकौ। विश्वक्सेनवत्सदण्डौ शिखोर्द्ध्वोडु-म्बरे श्रियम्। दिग्गजैः स्नाप्यमानान्तां घटैः साब्जांसुरूपिकाम्। प्रासादस्य चतुर्थांशैः प्राकारस्योच्छ्रयोभवेत्। प्रासादात् पादहीनस्तु गोपुरस्योच्छ्रयो भवेत्। पञ्चहस्तस्य देवस्य एकहस्ता तु पीठिका। गारुडं म-ण्डपं चाग्रे एकं भौमादिधाम च। कुर्याद्धि प्रतिमा-यान्तु दिक्षु चाष्टासु चोपरि। पूर्बं वराहं दक्षे च नृ-सिंहं श्रीधरं जले। उत्तरे तु हयग्रीवमाग्नेय्यां जाम-दग्न्यकम्। नैरृत्यां रामकं वायौ वामनं वासुदेव-कम्। ईशे प्रासादरचना देया वस्वर्ककादिभिः। द्बा-रस्य चाष्टमाद्यंशं त्यक्त्वा वेधो न दोषभाक्”। वृ॰ सं॰

५७ अ॰ कश्चिद्विशेषोऽत्रोक्तो यथा
“कृत्वा प्रभूतं सलिलमारामान् विनिवेश्य च। देवता-यतनं कुर्याद्यशोधर्माभिवृद्धये। इष्टापूर्तेन लभ्यन्ते येलोकास्तान् बुभूषता। देवानामालयः कार्यो द्वयमप्यत्रदृश्यते। सलिलोद्यानयुक्तेषु कृतेष्वकृतकेषु च। स्थाने-{??}वेतेष सान्निध्यमुपगच्छन्ति देवताः। सरःसु नलिनोच्छ-[Page3680-b+ 38] त्रनिरस्तरविरश्मिषु। हंसांसाक्षिप्तकह्लारवीचीविमल-वारिषु। हंसकारण्डवक्रौञ्चचक्रवाकविराविषु। पर्य-न्तनिचुलच्छायाविश्रान्तजलचारिषु। क्रौञ्चकाञ्चीक-लापाश्च कलहंसकलस्वनाः। नद्यस्तोयांशुका यत्र शफ-रीकृतमेखलाः। फुल्लतीरद्रुमोत्तंसाः सङ्गमश्रोणिम-ण्डलाः। पुलिनाभ्युन्नता रम्या हंसहासाश्च निम्नगाः। वनोपान्तनदीशैलनिर्झरोपान्तभूमिषु। रमन्ते देवतानित्यं पुरेषूद्यानवत्सु च। भूमयो ब्राह्मणादीनां याःप्रोक्ता वास्तुकर्मणि। ता एव तेषां शस्यन्ते देवतायतने-ष्वपि। चतुःषष्टिपदं कार्यं देवतायतनं सदा। द्वारंच मध्यमं तत्र समदिक्स्थं प्रशस्यते। यो विस्तारो भवे-द्यस्य द्विगुणा तत्समुन्नतिः। उच्छ्रायाद् यस्तृतीयोऽश-स्तेन तुल्या कटिर्भवेत्। विस्तारार्धं भवेद्गर्भो भित्तयो-ऽन्याः समन्ततः। गर्मपादेन विस्तीर्णं द्वारद्विगुणमुच्छ्रि-तम्। उच्छ्रायात्पादविस्तीर्णा शाखा तद्वदुदुम्बरः। वि-स्तारपादप्रतिमं बाहुल्यं शाखयोः स्मृतम्। त्रिपञ्चसप्त-नवभिः शाखामिस्तत्प्रशस्यते। अधःशाखाचतुर्भागेप्रतीहारौ निवेशयेत्। शेषं मङ्गल्यविहगैः श्रीवृक्षस्व-स्तिकैर्घटैः। मिथुनैः पत्रवल्लीभिः प्रमथैश्चोपशोभयेत्। द्वारमानाष्टभागोना प्रतिमा स्यात्सपिण्डिका। द्वौ भागौप्रतिमा तत्र तृतीयांशश्च पिण्डिका। मेरुमन्दरकैलासवि-मानच्छन्दनन्दनाः। समुद्गपद्मगरुडनन्दिवर्द्धनकुञ्जराः। गृहराजो वृषो हंसः सर्वतोभद्रको घटः। सिंहो वृत्त-श्चतुष्कोणः षोडशाष्टाश्रयस्तथा। इत्येते विंशतिः प्रोक्ताःप्रासादाः संज्ञया मया। यथोक्तानुक्रमेणैव लक्षणानिवदाम्यतः। तत्र षडश्रिर्मेरुर्द्वादशभौमो विचित्रकुहरश्च। द्वारैर्युतश्चतुर्भिर्द्वात्रिंशद्धस्तविस्तीर्णः। त्रिंशद्धस्तायामोदशभौमो मन्दरः शिखरयुक्तः। कैलासोऽपि शिख-रवान् अष्टाविंशोऽष्टभौमश्च। जालगवाक्षकयुक्तो विमा-नसंज्ञस्त्रिसप्तकायामः। नन्दन इति षड्भौमो द्वात्रिंशःषोडशाण्डयुतः। वृत्तः समुद्गनामा पद्मः पद्माकृतिःशयानष्टौ। शृङ्गेणैकेन भवेदेकैव च भूमिका तस्य। गरुडाकृतिश्च गरुडो नन्दीति च षट्चतुष्कविस्तीर्णः। कार्यश्च सप्तभौमो विभूषितोऽण्डैश्च विंशत्या। कुञ्जर इतिगजपृष्ठः षोडशहस्तः समन्ततो मूलात्। गृहराजःषोडशकस्त्रिचन्द्रशाला भवेद्वलभी। वृष एकभूमिशृङ्गोद्वादशहस्तः समन्ततो वृत्तः। हंसो हंसाकारो घटो-ऽष्टहस्तः क{??}सरूपः। द्वारैर्युतश्चतुर्भिर्बहुशिस्वरो भ-[Page3681-a+ 38] वति सर्वतोभद्रः। बहुरुचिरचन्द्रशालः षड्विंशः पञ्च-भौमश्च। सिंहः सिंहाक्रान्तो द्वादशकोणोऽष्टहस्तवि-स्तीर्णः। चत्वारोऽञ्जनरूपाः पञ्चाण्डयुतस्तु चतुरस्रः। भूमिकाङ्गुलमानेन मयस्याष्टीत्तरं शतम्। सार्धं हस्त-त्रयं चैव कथितं विश्वकर्मणा। प्राहुः स्थपतयश्चात्रमतमेकं विपश्चितः। कपोतपालिसंयुक्ता न्यूना गच्छन्तितुल्यताम्। प्रासादलक्षणमिदं कथितं समासाद्गर्गेणयद्विरचितं तदिहास्ति सर्वम्। मन्वादिभिर्विरचितानिपृथूनि यानि तत्सस्मृतिं प्रति मयात्र कृतोऽधिकारः”। तत्प्रतिष्ठाविधिश्च मठप्रतिष्ठाशब्दे वक्ष्यते।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवगृह¦ n. (-हं)
1. A celestial or planetary sphere, the dwelling of the gods.
2. A temple. E. देव, and गृह house.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवगृह/ देव--गृह n. house of the -ggods TBr. R.

देवगृह/ देव--गृह n. temple , chapel R. Sus3r. Var. etc.

देवगृह/ देव--गृह n. palace of a king Ma1lav. v , 11/12.

"https://sa.wiktionary.org/w/index.php?title=देवगृह&oldid=307289" इत्यस्माद् प्रतिप्राप्तम्