निमित्तबध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निमित्तबध¦ पु॰ निमित्तेन रोधादिहेतुना बधः। रोधादि-निमित्ते

१ गवादेर्वधे तत्र प्रायश्चित्तादि प्रा॰ त॰ उक्तं यथा
“रोधादिनिमित्तकप्रायश्चित्तम्। तत्राङ्गिराः
“रोधनेबन्धने चापि योजने च गवां रुजः। उत्पाद्य मरणंवापि निमित्ती तत्र लिप्यते। पादञ्चरेद्रोधबधे द्वौपादौ बन्धने चरेत्। योजने पादहीनं स्याच्चरेत् सर्वंनिपातने”। निमित्ती लिप्यत इति यथाकथञ्चित् मरण-निमित्ततारतम्येन
“यो भूय आरभते तास्मन् फलेविशेषः” इत्यापस्तम्बवचनात् पापविशेषेणं लिप्यतेतद्विशेषात् प्रायश्चित्तविशेषमाह पादञ्चरेदित्यादि। रोधःशीणायाः गोराहारप्रचारनिर्गमविरोधः। बन्धन-मयथाबन्धनमकालबन्धनञ्च। योजनं हलशकटादौ[Page4074-a+ 38] योजनं तत्रातिवाहादिनेति शेषः। अत्रैव विषये व्य-वनः
“प्राजापत्यद्वयं गोहत्याप्रायश्चित्तं रोधनबन्धनयोक्त्र-बधे पादवृद्ध्या नस्रानि लोमानि शिखावर्जं सशिखंवपनं त्रिषवणं गवानुगमनं सहशयनं सुमहत्तृणानिरथ्यासु चारयेत् व्रतान्ते ब्राह्मणभोजनमिति”। रोधन-बन्धनयोक्त्रबध इत्यादेरयमर्थः रोधनिमित्तकवधे प्राजा-पत्यस्य पादः प्रायश्चित्तं नखच्छेदनमात्रम्। बन्धन-निमित्तबधे प्राजापत्यस्य द्वौ पादौ नखानां लीम्नाञ्चछेदनम्। योक्त्रनिमित्ते च बधे प्राजापत्यपादत्रयंनखलोमशिखावर्जकेशच्छेदनञ्च। दण्डादिप्रहारबधेसम्पूर्ण प्राजापत्यम् नखलोमकेशशिखाच्छेदनञ्च इति। एतद्विषय एव मिताक्षराधृतं संवर्त्तवचनं तदेकवाक्य-त्वात् तद्यया
“पादेऽङ्गलोमवपनं द्विपादे श्मश्रुणोऽपिच। त्रिपादे च शिम्नावर्जं वशिखन्तु निपातने”। अत्रप्राजापत्यस्य पादादित्वे किं मानमिति चत्। पराशर-वचनम्
“रोधने तु चरेत् पादं बन्धने चार्द्धमेवहि। योजने पादहीनं स्यात् प्राजापत्यं निपातने”।
“कृच्छ्रमज्ञानताडने” इति वार्हस्वत्यात्। दण्डोऽत्र हस्त-प्रमाणो ग्राह्यः। तदधिके तु द्विगुणपायश्चित्तविधानात्। यथा अङ्गिराः
“अङ्गुष्ठमात्रः स्थौल्येन बाहुमात्रःप्रमाणतः। सार्द्रश्च सपलाशश्च दण्ड इत्यभिधीयते”।
“अस्यादूर्द्ध्वप्रहारेण यदि गां विनिपातयेत्। द्विगुणन्तुभवेत्तत्र प्रायश्चित्तमिति स्थितिः”। सपलासः सपत्रः। एतद्वचनविषय एव च्यवनीक्तप्राजापत्यद्वयमिति एतच्चा-{??}नतः यथा वृहस्पतिः
“पादञ्चरेत् रोधवधे कृच्छ्रार्द्धंबन्धधातने। अतिवाहे च पादोनं कृच्छ्रमज्ञानताडने”। अन्नानञ्च क्षीणायामक्षीणत्वभ्रमः। क्षैण्यज्ञाने तुपायिकमरणं ज्ञात्वा प्रवृत्तस्य चान्द्रायणपादादिकम्। यथा हारीतः
“नासाच्छेदनदाहेषु कर्णच्छेदनबन्धने। अतिदोहातिवाहाभ्यां कृच्छ्रं चान्द्रायणं चरेत्” हत्वेतिशेषः। कृच्छ्रं व्रतं तेन चान्द्रायणव्रतमित्यर्थः। इति शूलपाणिमहामहोपाध्यायाः। भवदेवभट्टैस्तुनि{??}तने{??}पावदादिषु इति व्याख्यातं तदपि युक्तंअन्यथा तत्र पात{??}नकभयादिदर्शकस्य प्रायश्चित्तस्यानध्य-तद्धायापत्तेः।
“शस्त्रादिना तु हत्वा गां मानवंततपाक्षरेत्। रोधादिना त्वाङ्गिरनमापस्तम्बोक्तमेव चेति” वृहणत्युक्तं तत्र प्रयमादिपदाम्{??}ष्टिलो{??}लगुडविषाग्न्या-होमां प्रायि{??} ग्रहणम्। रोधादिनेति यथा[Page4074-b+ 38] कथञ्चिन्निमितमात्रस्य, बन्धादेरिति शूलपाणिव्याख्या-न्तराच्च। तस्मान्निपातनपरम् उभयपरम्। एतच्च रात्रौरक्षणार्थं रोधबन्धनव्यतिरिक्तविषयम्।
“सायं संयम-सनार्थन्तु न दुष्येद्रोधबन्धयोः” इति अङ्गिरोवचनात्वन्धने मिताक्षरायां विशेषमाह व्यासः
“न नारि-केलैर्नच शाणतालैर्नचापि मौञ्जैर्नच बन्धशृङ्खलैः। एतैस्तु गावो न हि बन्धनीया बद्ध्वा तु तिष्ठेत् परशुंगृहीत्वा। कुशैः काशैश्च बध्नीयात् स्थाने दोषविवार्जते”। निमित्तिन्शब्दे वक्ष्यमाणे मन्यूत्पादनदारा

२ हनने च।

"https://sa.wiktionary.org/w/index.php?title=निमित्तबध&oldid=361029" इत्यस्माद् प्रतिप्राप्तम्