निर्णयपाद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्णयपादः, पुं, (निर्णयात्मकः पादो भागविशेषः ।) चतुष्पादव्यवहारान्तर्गतव्यवहारविशेषः । तस्य रूपम् । मिलितानां सभासदां पराजितोऽय- मित्यवधारणम् । इति व्यवहारतत्त्वम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्णयपाद¦ पु॰ चतुष्पाद्व्यवहारस्य निर्णयात्मके सिद्धिपादापरपर्थाये अंशभेदे
“भाषोत्तरक्रियासाध्यसि-द्धिभिः व्रमवृत्तिभिः। आक्षिप्तचतुरशस्तु चतुष्पाद-मिधीयते” मिता॰ घृतवचनम्। स च वीरमि॰ विस्त-रतो दर्शितो यथा(
“अथ निणयापरपर्य्यायः सिद्धिपादः। येषां प्रत्या-कलित व्यवहारपाद इत्यभिसतं तेषां सिद्धेः फलत्वाद्-थ्यवहारपृथग्{??} वोऽन्येषां प्रत्याकलितस्य च{??}त्त्वमेवतु सर्वमते ध्यवहारस्य। याज्ञवल्क्यः
“तत्सिद्धौ सिद्धि-माप्नोति विपरीतमथोऽन्यथा” इति। तस्य प्रमाणस्यसिद्धौ नि शङ्कप्रामाण्यव्यवस्थितौ सत्यां प्रमाणोपन्यास-वर्त्ता सिद्धिं जया क्षणामाप्नोति। अन्थथा प्रामाण्या-सिद्धौ विपरीतमसिद्धिं पराजयलक्षणमाप्नोति। नारदःसारस्तु ध्यवहाराणां प्रतिज्ञा समुदाहृता। तद्धानौहीयते वादी तरंस्तामुत्तरो भवेत्”। तरन्निर्वाहयन्। उत्तरः उत्कृष्टो{??}जिर्याति यावत्। निर्णयप्रकारानाहव्यासः
“प्रमाणैर्हेतुचरितैः श{??}थेन नृपाज्ञया। वादि{??}तिपत्त्या वा निर्णयोऽष्टविधः स्मृतः। विवृतवानेतत्स एव
“लिणितं साक्षिणो भुक्तिः प्रमाणं त्रिविधंस्मृतम्। अनुमानं विदुर्हेतुस्तर्कश्चेति मनीषिणः। देशस्थितिः पूर्वकृताञ्चरितं समुदाहृतम्। अर्थानुरूपाःशपथाः स्मृताः सत्यघटादयः। तेषामभावे राजाज्ञांनिर्णयन्तु निदुर्बुधाः”। इति प्रमाणत्रयं सतर्कोपष्टब्ध-भनुमानं चरितादिचतुष्टयमित्यष्टविधहेतुकत्वान्निर्णयस्या-{??}ष्टविधत्वं{??}यद्यपि भुक्तिरप्यनुमानमेव। तथापि प्रत्या-कलितकालीनं सम्यानामनुमानमिहानुमानपदेन विन-{??}तम्।
“धर्मेण व्यवहारेण चरित्रेण मृपाज्ञया। चतुःप्रकारोऽभिहितः सन्दिग्धेऽर्थे विनिर्णयः” इतिवृहस्मत्युक्तानां धर्मादीनां निर्णयहेतुत्वं प्रागेव
“तत्र{??}त्ये स्थितो धर्म” इत्यादिना तेनैव विवृतं प्रागेव निरूपितम्। स एव
“एकैको द्विविधः प्रोक्तः क्रियाभेदाम्भनी-षिभिः”। क्रियाभेदात् धर्मनिर्णयस्य द्वैधमाह। स एव
“सम्यग्विचार्य्य कार्य्यन्तु युक्त्या संपरिकल्पितम्। परीक्षितन्तु शपथैः स ज्ञेयो धर्मनिर्णयः। प्रतिवादीप्रपद्येत यत्र धर्मः स निर्णयः। दिव्यैर्विशोधितः सम्यक्द्वितीयः स उदाहृतः”। प्रतिवादी प्रपद्येतेत्यस्य काका-क्षिवदुभयत्र सम्बन्धः। यत्र प्रतिवादी युक्त्या सम्यग्सिचार्य सम्यरिकल्पितं निर्धारितं पुनः{??}पथैः पुत्रशिरः-[Page4094-b+ 38] स्पर्शादिभिः परौक्षितं कार्यं प्रपद्येताङ्गीकर्थ्यात् सआद्यो धर्मनिर्णयः दिव्यैर्षटादिभिर्बिशोधितः प्रतिवादीयत्र कार्यं प्रपद्येग स द्वितीयो धर्माख्यो निर्णयः इ-त्यर्थः। व्यवहारनिर्णयस्यापि द्वैविध्यमाह स एव
“प्रमाणैर्निश्चयो यस्तु व्यवहारः स उच्यते। वाक्छला-नुत्तरत्वेन द्वितीयः परिकीर्त्तितः” प्रमाणपदेनात्र सा-क्षिणो लिस्यितञ्च व्यक्त्यभिप्रायेण च बहुवचसम्। भुक्तेरनुमानत्थाद्दिव्यस्य धर्मनिर्णयान्तर्भावात्। वाक्छ-लानुंत्तरत्वेन वाक्छलेनानुत्तरत्वेन च यो निश्चयोद्वितीयो व्यवहारः स इत्यर्थः। चरित्रनिर्णयस्यापिभेदद्वयन्तेनैवाभिहितम्
“अनुमानेन निर्णीतं चरित्र-मिति कीर्त्तितम्। देशस्थित्या द्वितीयन्तु शास्त्रविद्भिरु-दाहृतम्” अनुमानेन भुक्तिस्वरूपेण यो निर्णय-स्तदेकं चरित्रम्। देशस्थित्या यो निर्णयस्तद्द्वितीयंचरित्रमित्यर्थः। राजाज्ञानिर्णयस्यापि द्विभेदताभिहितातेनैव
“प्रमाणसहिताद्यस्तु राजाज्ञा निर्णयः स्मृतः। शास्त्रसभ्यविरोधे च तथान्यः परिकीर्त्तितः” प्रमाण-सहिता राजाज्ञा आद्यो निर्णय इत्यन्वयः। शास्त्राणांसभ्यानाञ्च विरोधे परस्परं विप्रतिपत्तौ या राजाज्ञास द्वितीयो राजाज्ञानुरूपो निर्णय इत्यर्थः। ननु शा-स्त्राणां सम्याना{??} विरोध एवासम्भवी स्मृत्यपेतानामधि-कारिणां सभ्यानां दण्ड्यत्वात्। न च शास्त्राणां परस्वरविरोधे सभ्यानाञ्चेत्यर्थ इति वाच्यम् सम्यविरोधोप-भ्यासानर्थक्यात्। शास्त्रविरोधे न्यायोपष्टब्धशास्त्रानुसा-रेण निर्णयः कार्य इत्यस्यार्थस्य
“स्मृत्योर्विरोधे न्याय{??}वसवान् व्यवहारतः। धर्मशास्त्रविरोधे तु युक्तियुक्तोविधिःस्मृतः। केबलं शास्त्रमाश्रित्य न कर्त्तव्यो हिनिर्णयः। युक्तिहीनविचारे हि धर्महानिः प्रजा-यते”
“न्यायाधिगमे तर्कोऽभ्युपायस्तेनाभ्यूह्य यथास्थानंगमयेदित्यादि” योगीश्वरनारदवृहस्पतिनीतमोदिवचो-भिर्निर्धारितत्वात्। तदृशि विषये राजाज्ञानवसरात्अनीदृशराजाज्ञाया निषिद्धत्वाच्चेति चेत् उच्यतेयत्र शास्त्रविरोधे बलवान्न्यायोऽन्यतरार्थविनिर्णायकःसलभ्यप्राड्विवाकस्य सभापतेर्न हृदयमारोहति चिर-तरं मीमांसितोऽपि तादृशशास्त्रविरोधे तन्मूलक वासमाधेये सभ्यविरोधे राजकृतव्यवस्था वादिप्रतिवादिभ्यांजन्तव्येत्येतदर्थकमिदं वचनम्। अतएव पिताबहः
“वश्चनं प्रा{??}णितन्निश्चेतुं येन श{??} स्युः” इत्यादि[Page4095-a+ 38] धर्मादोनां चतुर्णां पूर्वयोत्तरोत्तरापेक्षया दुर्बलत्वमाहनारदः
“धर्मश्च व्याहारश्च चरितं राजशासनम्। चतुष्पाद्व्यवहारोऽयमुनरः पूर्ववाधकः” इति। व्यवहारस्यधर्मबाधकतामाह वृहस्पतिः
“शास्त्रं केवलमाश्रित्य क्रि-यते यत्र तिर्णयः। व्यवहारः स विज्ञेयो धर्मस्तेनाव-हीयत”। शास्त्रशब्देन शास्त्रीकं साक्ष्यादिप्रमाणं तेनयो निर्णयः क्रियते स व्यवहारः। तेन धर्मः शपथा-दिकतो निर्णयोऽवहीयते बाध्यते मानुषप्रमाणे सतिदिव्यानवसरात्। अतएवाह कात्यायनः
“युक्तियुक्तन्तुकार्यं स्याद्विव्यं यत्र विवर्जितम्। धर्मस्तु व्यवहारेणबाध्यते तत्र नान्यथा” चरित्रस्य व्यवहारबाधकतामाहवृहस्पतिः
“देशस्थित्यानुमानेन नैगमानुमतेन वा। क्रियते निर्णयस्तत्र व्यवहारस्तु वाध्यते”। नैगमाःवौरबणिजः। नैगमानुमतेनानुमानेनेति सम्बन्धः सा-मानाधिकरण्येन शब्दाद्देशस्थित्यपेक्षः। अमुमेवार्थंस्फुटयति कात्यायनः
“प्रतिलोमप्रसूतेषु तथा दुर्गनि-वासिषु। विरुद्धन्नियनं प्राहुस्तं धर्मं न विचालयेत्। निर्णयन्तु यदा कुर्य्यात्तेन धर्मेण पार्थिवः। व्यरहार-श्चरित्रेण तदा तेनैव वाध्यते” इति। स्मृतिविरुद्धमपिनियतत्वान्न विचालवेद्राजा। राजशासनस्य चरित्रबाध-कतामाह वृहस्पतिः
“विहाय चरिताचारं यत्र कुर्य्यात्पुनर्नृपः। निर्णयं सा तु राजाज्ञा चरित्रं वाध्यतेतया” इति चरिताचारं पूर्वपूर्वाचरितमाचारम्। यद्यपितं धर्मं न विचालयेदित्युक्तभत्र तु विहाय चरिताचारनित्युच्यते तेन विरोधः प्रतिभाति। तथापि यदितद्विचालने पुरराष्ट्रादिक्षोभो न भवति तदा स्मृत्या-दिविरुद्वत्वात्तं दूरीकृत्य स्मृत्याद्यविराधो राजाज्ञया नि-र्णयः कार्य इति तात्पर्यम्। अतएव पुरराष्ट्रस्य विरु-द्धस्य विवादस्यानादेयत्वमुक्तम् पुरराष्ट्रक्षोमापादकतयातदनापादकतया तु स्मृत्याद्यनुरोध एव कार्य्यो राज्ञेति। अतएवाह कात्यायनः
“विरुद्धं न्यायतो यत्तु चरित्रंकल्प्यते बुधैः। एवन्तत्र निरस्येत चरित्रन्तु नृपाज्ञया” इति नृपैर्यन्न्यायविरुद्धं चरित्रं न तद्ग्राह्यमिति क-ल्प्यते। तत्र नृपाज्ञया तच्चरित्रं निरस्यते बाध्यतइत्यर्थः। यथोक्तप्रकारातिरिक्तप्रकारेणैषां बाध्यवाध-कताकल्पने दोषमाह कात्यायनः
“अनेन विधिनायुक्तं बाधकं यद्यदुत्तरम्। अत्यथा बाधनं यत्र तत्रधर्मो विहन्यते”। [Page4095-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्णयपाद¦ m. (-दः) A sentence, a verdict, a decree, (in Law,) E. निर्णय, and पाद process.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्णयपाद/ निर्- m. the fourth (and last) part of a lawsuit , sentence , decree , verdict L.

"https://sa.wiktionary.org/w/index.php?title=निर्णयपाद&oldid=365818" इत्यस्माद् प्रतिप्राप्तम्