नीलकण्ठ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीलकण्ठः, पुं, (नीलः नीलवर्णः कण्ठो यस्य ।) शिवः । (यथा, महाभारते । १ । १८ । ४३ -- ४४ । “त्रैलोक्यं मोहितं यस्य गन्धमाध्राय तद्बिषम् । प्राग्रसल्लोकरक्षार्थं ब्रह्मणो वचनाच्छिवः ॥ दधार भगवान् कण्ठे मन्त्रमूर्त्तिर्महेश्वरः । तदा प्रभृति देवस्तु नीलकण्ठ इति श्रुतः ॥”) मयूरः । इत्यमरः । ३ । ३ । ३९ ॥ (यथा, मेघदूते । ७९ । “यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृद्बः ॥”) पीतसारः । दात्यूहः । ग्रामचटकः । खञ्ज- रीटः । इति हेमचन्द्रः ॥ मूलके, क्ली । इति राजनिर्घण्टः ॥ * ॥ विजयदशम्यां नीलकण्ठ- दर्शनविधिर्यथा, -- “कृत्वा नीराजनं राजा बलवृद्धौ यथाबलम् । शोभनं खञ्जनं पश्येत् जलगोगोष्ठसन्निधौ ॥” दर्शनानन्तरं नमस्कारमन्त्रो यथा, -- “नीलग्रीव शुभग्रीव सर्व्वकामफलप्रद । पृथिव्यामवतीर्णोऽसि खञ्जरीट ! नमोऽस्तु ते ॥ त्वं योगयुक्तो मुनिपुत्त्रकस्त्व- मदृश्यतामेषि शिखोद्गमेन । त्वं दृश्यसे प्रावृषि निर्गतायां त्वं खञ्जनाश्चर्य्यमयो नमस्ते ॥” द्रव्यविशेषोपरिस्थितस्य तस्य दर्शनफलं यथा, -- “अब्जेषु गोषु गजवाजिमहोरगेषु राज्यप्रदः कुशलदः शुचिशाद्वलेषु । भस्मास्थिकेशनखलोमतुषेषु दृष्टो दुःखं ददाति बहुशः खलु खञ्जरीटः ॥” दिग्विशेषे फलं यथा, -- “वित्तं ब्रह्मणि कार्य्यसिद्धिरतुला शक्रे हुताशे भयं याम्यामग्निभयं सुरद्विषि कलिर्लाभः समुद्रालये । वायव्यां वरवस्त्रगन्धसलिलं दिव्याङ्गना चोत्तरे ऐशान्यां मरणं ध्रुवं निगदितं दिग्लक्षणं खञ्जने ॥” अशुभखञ्जनदर्शनप्रायश्चित्तं यथा, -- “अशुभं खञ्जनं दृष्ट्वा देवब्राह्मणपूजनम् । दानं कुर्व्वीत कुर्य्याच्च स्नानं सर्व्वौषधीजलैः ॥” इति तिथ्यादितत्त्वे दुर्गोत्सवतत्त्वम् ॥ (पीतशालवृक्षः । अस्य पर्य्यायो यथा, -- “नीलकण्ठः पीतशालः पीतकः प्रियकोऽसनः ॥” इति वैद्यकरत्नमालायाम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीलकण्ठ पुं।

मयूरः

समानार्थक:मयूर,बर्हिण,बर्हिन्,नीलकण्ठ,भुजङ्गभुज्,शिखावल,शिखिन्,केकिन्,मेघनादानुलासिन्,अहिभुज

2।5।30।1।4

मयूरो बर्हिणो बर्ही नीलकण्ठो भुजङ्गभुक्. शिखावलः शिखी केकी मेघनादानुलास्यपि॥

अवयव : मयूरवाणिः,मयूरशिखा,मयूरपिच्छः

वैशिष्ट्यवत् : मयूरवाणिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

नीलकण्ठ पुं।

शिवः

समानार्थक:शम्भु,ईश,पशुपति,शिव,शूलिन्,महेश्वर,ईश्वर,शर्व,ईशान,शङ्कर,चन्द्रशेखर,भूतेश,खण्डपरशु,गिरीश,गिरिश,मृड,मृत्युञ्जय,कृत्तिवासस्,पिनाकिन्,प्रमथाधिप,उग्र,कपर्दिन्,श्रीकण्ठ,शितिकण्ठ,कपालभृत्,वामदेव,महादेव,विरूपाक्ष,त्रिलोचन,कृशानुरेतस्,सर्वज्ञ,धूर्जटि,नीललोहित,हर,स्मरहर,भर्ग,त्र्यम्बक,त्रिपुरान्तक,गङ्गाधर,अन्धकरिपु,क्रतुध्वंसिन्,वृषध्वज,व्योमकेश,भव,भीम,स्थाणु,रुद्र,उमापति,अहिर्बुध्न्य,अष्टमूर्ति,गजारि,महानट,अज,शिपिविष्ट,नीलकण्ठ,वृषाकपि

3।3।40।1।2

पटुर्द्वौ वाच्यलिङ्गौ च नीलकण्ठः शिवेऽपि च। पुंसि कोष्ठोऽन्तर्जठरं कुसूलोऽन्तर्गृहं तथा॥

अवयव : शिवस्य_जटाबन्धः

पत्नी : पार्वती

जनक : शक्तिदेवता

सम्बन्धि2 : शिवस्य_जटाबन्धः,शिवधनुः,शिवानुचरः,शक्तिदेवता,अणुताद्यष्टविधप्रभावः,सिद्धिः,नन्दिः,चर्ममुण्डा

वैशिष्ट्यवत् : शिवस्य_जटाबन्धः,सिद्धिः

जन्य : गणेशः,कार्तिकेयः

सेवक : शिवधनुः,शिवानुचरः,नन्दिः,चर्ममुण्डा

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीलकण्ठ¦ पुंस्त्री नीलः कण्ठो थस्य।

१ मशूरे अकरः।

२ दात्यूहे कालकण्ठे

३ ग्रामचटके

५ खञ्जने च हेमच॰स्त्रियां सर्वत्र ङीष्।

५ पीतसारे पु॰ हेमच॰ विभेणकालकण्ठे

६ शिवे पु॰ अमरः।
“स्कन्धाधिरूढोजज्वलनीलकण्टानुर्वीरुहः श्लिष्टतनूनहीन्द्रैः”
“अवाप बा-ल्योचितनीलकण्ठ!” माघः
“क्व नीलकण्ठ! व्रजसीत्यअलख्यवाक्” कुमा॰।

७ मूलके न॰ राजनि॰

८ राक्षस-भेदे पु॰
“घण्टाजालावसक्तास्तु नीलकण्ठा विभीषणाः” भा॰ सौ॰

८ अ॰ नानाराक्षसोक्तौ शिवस्य नीलकण्ठ-नामनिर्वचनम् हरिवं॰

१३

३ अ॰ अन्यथोक्तं यथा
“दत्तःप्रहारः कुलिशेन पूर्व तवेशान! सुरराज्ञाऽतिवीर्य्य। कण्ठे नैल्यं तेन ते यत् प्रवृत्तं तस्मात् ख्यातस्त्वं नील-कण्ठेति कल्यः”

२२

२ अ॰। अन्यथापि तस्य तथात्वमुक्तम्[Page4134-a+ 38]
“ततः प्रसभमाप्लुत्य रुद्रं विष्णुः सनातनः। जग्राहकण्ठे भगवान्नीलकण्ठस्ततोऽभवत्”। भागवते

५८ अ॰
“तद्विषं जग्धुमारेभे प्रभावज्ञानुमोदतः। ततः कर-त्वलीकृत्य व्यापि हालाहलं विषम्। अभक्षयन् महा-देवः कृपया भूतभावनः। तस्यापि दर्शयामास स्ववीर्यंजलकल्मषः। यच्चकार गले नीलं तच्च साधोर्विभू-षणम्। नीलग्रीवादयोऽप्युक्तार्थे
“नीलग्रीव! शुभ-ग्रीव! सर्वकालफलप्रद”।
“असौ यो अवसर्पतिनीनग्रीवो विलोहितः” यजु॰

१६ ।

७ रुद्राध्याये। खञ्ज-नश्च स्वनामख्यातः पक्षिभेदः खञ्जनशब्दे

२४

५६ पृ॰दृश्यम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीलकण्ठ/ नील--कण्ठ mfn. blue-necked MBh.

नीलकण्ठ/ नील--कण्ठ m. a peacock MBh. Ka1v. Sus3r. a species of gallinule or water-hen(= दात्यूह) L.

नीलकण्ठ/ नील--कण्ठ m. a wagtail L.

नीलकण्ठ/ नील--कण्ठ m. a sparrow L.

नीलकण्ठ/ नील--कण्ठ m. the blue-necked jay L.

नीलकण्ठ/ नील--कण्ठ m. Ardea Sibirica L.

नीलकण्ठ/ नील--कण्ठ m. a species of plant(= पीत-सार) L.

नीलकण्ठ/ नील--कण्ठ m. N. of शिव(as having a black throat from swallowing the poison produced at the churning of the ocean) R. Hit. etc.

नीलकण्ठ/ नील--कण्ठ m. N. of the celebrated Sch. on MBh. and of other authors (also -दीक्षित, -नाग-नाथ, -भट्ट, -भारती, -मिश्र, -शर्मन्, -शास्त्रिन्, -शिवा-चार्य, -सूनु, -सूरि, ठा-चार्य) Cat.

नीलकण्ठ/ नील--कण्ठ m. N. of sev. Comms. composed by a नील-कण्ठCat.

नीलकण्ठ/ नील--कण्ठ n. a radish L.

नीलकण्ठ/ नील--कण्ठ n. N. of a तीर्थCat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the God enshrined in कालञ्जर hill; an epithet of शिव; फलकम्:F1: M. २०. १५; १५७. २३.फलकम्:/F narrated to पार्वती that at the request of ब्रह्मा and other gods he devoured the कालकूट poison that came out of the churning of the ocean; फलकम्:F2: Br. II. २५. ९०; वा. ५४. 3-९४.फलकम्:/F praise of, by राम; फलकम्:F3: Br. II. २४. २५-31.फलकम्:/F by gods. फलकम्:F4: वा. ५४. ९७-101.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=नीलकण्ठ&oldid=431965" इत्यस्माद् प्रतिप्राप्तम्