पद्मनाभ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पद्मनाभः, पुं, (पद्मं नाभौ यस्य । “अच्प्रत्यन्वय पूर्ब्बात् सामलोम्नः ।” ५ । ४ । ७५ । इत्यत्र “अच्” इति योगविभागादच् । ब्रह्मोत्पत्ति- कारणीभूतपद्मस्य नाभिजातत्वादस्य तथात्वम् ।) विष्णुः । इत्यमरः । १ । १ । १० ॥ (यथा, महा- भारते । १३ । १४९ । १९ ॥ “अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः ॥”) शयने तस्य स्मरणीयत्वं यथा, -- “औषये चिन्तयेद्विष्णुं भोजने च जनार्द्दनम् । शयने पद्मनाभञ्च विवाहे च प्रजापतिम् ॥” इत्यादि बृहन्नन्दिकेश्वरपुराणम् ॥ (हृदयपद्मस्यनाभौ नाभेरीषदुपरिभागे प्रकाश- नात् महादवः । यथा, महाभारते । १३ । १७ । १०५ । “पद्मनाभो महागर्भश्चन्द्रवक्त्रोऽनिलोऽनलः ॥” पद्ममिव वर्त्तुलाकृतिः नाभिर्यस्य । धृतराष्ट्रपुत्त्रा- णामन्यतमः । यथा, महाभारते । १ । ६७ । ९५ । “ऊर्णनाभः पद्मनाभस्तथा नन्दोपनन्दकौ ॥” नागविशेषः । यथा, तत्रैव । १२ । ३५५ । ४ । “कृताधिवासो धर्म्मात्मा तत्र चक्षुःश्रवा महान् । पद्मनाभो महानाभः पद्म इत्येव विश्रुतः ॥”) भाविजिनविशेषः । इति हेमचन्द्रः ॥ (स्तम्भ- नास्त्रविशेषः । यथा, गोः रामायणे १ । ३१ । ७ । “पद्मनाभो महानाभः सुनाभो दुन्दुभिस्वनः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पद्मनाभ पुं।

विष्णुः

समानार्थक:विष्णु,नारायण,कृष्ण,वैकुण्ठ,विष्टरश्रवस्,दामोदर,हृषीकेश,केशव,माधव,स्वभू,दैत्यारि,पुण्डरीकाक्ष,गोविन्द,गरुडध्वज,पीताम्बर,अच्युत,शार्ङ्गिन्,विष्वक्सेन,जनार्दन,उपेन्द्र,इन्द्रावरज,चक्रपाणि,चतुर्भुज,पद्मनाभ,मधुरिपु,वासुदेव,त्रिविक्रम,देवकीनन्दन,शौरि,श्रीपति,पुरुषोत्तम,वनमालिन्,बलिध्वंसिन्,कंसाराति,अधोक्षज,विश्वम्भर,कैटभजित्,विधु,श्रीवत्सलाञ्छन,पुराणपुरुष,यज्ञपुरुष,नरकान्तक,जलशायिन्,विश्वरूप,मुकुन्द,मुरमर्दन,लक्ष्मीपति,मुरारि,अज,अजित,अव्यक्त,वृषाकपि,बभ्रु,हरि,वेधस्

1।1।20।2।1

उपेन्द्र इन्द्रावरजश्चक्रपाणिश्चतुर्भुजः। पद्मनाभो मधुरिपुर्वासुदेवस्त्रिविक्रमः॥

पत्नी : लक्ष्मी

जनक : वसुदेवः

सम्बन्धि2 : विष्णुशङ्खः,विष्णुचक्रम्,विष्णुगदा,विष्णुखड्गः,विष्णोः_मणिः,विष्णुचापः,विष्णोः_अश्वः,विष्णोः_सारथिः,विष्णोः_मन्त्रिः,गरुडः

वैशिष्ट्यवत् : विष्णुलाञ्छनम्

जन्य : कामदेवः

सेवक : विष्णुशङ्खः,विष्णुचक्रम्,विष्णुगदा,विष्णुखड्गः,विष्णोः_मणिः,विष्णुचापः,विष्णोः_अश्वः,विष्णोः_सारथिः,विष्णोः_मन्त्रिः,गरुडः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पद्मनाभ¦ पु॰ पद्मं नाभौ यस्य संज्ञायाम् अच्स॰।

१ विष्णौ।
“पद्मनाभोऽरविन्दाक्षः” विष्णुसं॰ भाष्ये तु पद्मस्यनामौ स्थित इत्येवं उक्तम्। तत्र अर्श आद्यच् इति-मेदः।

२ धृतराष्ट्रपुत्रमेदे भा॰ आ॰

६७ अ॰।

३ नागभेदेपु॰ शा॰

३५

७ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पद्मनाभ¦ m. (-भः)
1. A name of VISHN4U.
2. One of the Jinas of a fur- ture age. E. पद्म a lotus, and नाभि a navel, अच् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पद्मनाभ/ पद्म--नाभ m. " -llotus-naveled " , N. of विष्णु(from whose navel sprang the lotus which contained ब्रह्मा, the future creator) MBh. Hariv. R.

पद्मनाभ/ पद्म--नाभ m. N. of the 11th month (reckoned from मार्गशीर्ष) Var.

पद्मनाभ/ पद्म--नाभ m. a magical formula spoken over weapons R.

पद्मनाभ/ पद्म--नाभ m. N. of a serpent-demon MBh.

पद्मनाभ/ पद्म--नाभ m. of a son of धृत-राष्ट्रib.

पद्मनाभ/ पद्म--नाभ m. of the first अर्हत्of the future उत्-सर्पिणीL.

पद्मनाभ/ पद्म--नाभ m. of sev. authors (also -तीर्थ, -दत्त, -दीक्षित, -पुरी, -भट्ट, -याज्ञिक)and other men Cat. Inscr.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--also जनार्दन; the God who per- vades all the worlds; lustrous as the sun and with bow as weapon. Br. II. १९. १७७-80; III. ३३. १७; IV. ३४. ८१.
(II)--a यक्ष; a son of देवजनी and मणिवर. Br. III. 7. १३०; वा. ६९. १६१.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Padmanābha  : m.: See Padma^2.


_______________________________
*3rd word in left half of page p37_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Padmanābha  : m.: See Padma^2.


_______________________________
*3rd word in left half of page p37_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=पद्मनाभ&oldid=445667" इत्यस्माद् प्रतिप्राप्तम्