प्रतिहार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिहारः, पुं, (प्रतिविषयं प्रत्येकं वा हरति स्वामिसमीपमानयतीति । प्रति + हृ + अण् ।) द्वारपालः (यथा, देवीभागवते । १ । १७ । ३० । “ज्ञातो हि प्रतिहारेण ज्ञानी कश्चिद् द्विजो- त्तमः ॥” प्रति + हृ + आधारे घञ् ।) द्वारः । इति शब्दरत्नावली ॥ (यथा, रघौ । ६ । २० । “ततो नृपाणां श्रुतवृत्तवंशा पुंवत्प्रगल्भा प्रतिहाररक्षी । प्राक्सन्निकर्षं मगधेश्वरस्य नीत्वा कुमारीमवदत् सुनन्दा ॥” प्रतिरूपं हरतीति । हृ + अण् ।) माया- कारः । इत्यमरटीकायां भरतः । २ । १० । ११ ॥ (परमेष्ठिनः पुत्त्रः । यथा, विष्णु पुराणे । २ । १ । ३७ । “परमेष्ठी ततस्तस्मात् प्रतिहारस्तदन्वथः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रति(ती)हार¦ पु॰ प्रत्येकं हरति स्वामिपार्श्वमानयति अण्वादीर्घः।

१ द्वारपाले अमरः। स्त्रियां ङीप् गौरा॰ ङीष्या। आधारे घञ्। तदधिष्ठानस्थाने

२ द्वारे च शब्दर॰। प्रतिरूपं हरति हृ--अण् उपस॰।

३ मायाकारे भरतः। साम्रस्तृतीयभागे उद्गात्रा गेये

४ सामावयवभेदे उद्गीथशब्दे

११

७० पृ॰ दृश्यम्। तस्य देवता च अन्नं यथोक्तं छा॰ उ॰
“अथ हैनं प्रतिहर्तोपससाद प्रतिहर्तर्या देवता प्रतिहा-रमन्वायत्ता ताञ्चेदबिद्वान् प्रतिहरिष्यसि मूर्द्ध्वा ते विपतिव्यतीति मा भगवानवोचत्कतमा सा देवतेति। अन्न-मिति होवाच सर्वाणि ह वा इमानि भूतान्यन्नमेवप्रतिहरमाणानि जीवन्ति सैषा देवता प्रतिहारमन्वायत्ताताञ्चदविद्वान् प्रत्यहरिष्यो मूर्द्ध्वा ते व्यपतिष्यत्तथोक्तस्यमयेति”।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिहार/ प्रति-हार m. striking against , touch , contact ( esp. of the tongue with the teeth in the pronunciation of the dentals) RPra1t.

प्रतिहार/ प्रति-हार m. shutting , closing , stopping( अ-प्र्) Ta1n2d2Br.

प्रतिहार/ प्रति-हार m. N. of partic. syllables in the सामन्hymns (with which the प्रतिहर्तृbegins to join in singing , generally at the beginning of the last पदof a stanza ; also प्रती-ह्AV. S3a1n3khBr. ) Br. S3rS. etc.

प्रतिहार/ प्रति-हार m. N. of a partic. magical formula spoken over weapons R. ( v.l. र-तर)

प्रतिहार/ प्रति-हार m. (that which keeps back) , a door , gate (also प्रती-ह्L. ; See. comp. below)

प्रतिहार/ प्रति-हार m. a door-keeper , porter Hariv. Ka1v. Pur. etc. (also प्रती-ह्; du. two -ddoor--kkeeper i.e. two statues at the entrance of a temple VarBr2S. ; f( ई). a female -ddoor--kkeeper , portress , Priyad. )

प्रतिहार/ प्रति-हार m. a juggler L.

प्रतिहार/ प्रति-हार m. juggling , trick , disguise L.

प्रतिहार/ प्रति-हार m. the office of a porter or a portress Ragh.

"https://sa.wiktionary.org/w/index.php?title=प्रतिहार&oldid=501883" इत्यस्माद् प्रतिप्राप्तम्