भैरव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भैरवम्, त्रि, (भीरोरिदं त्रासकृत् । भीरु + अण् ।) भयानकम् । इत्यमरः । १ । ७ । २० । (यथा, महाभारते । १ । १६४ । २७ । “सव्येन च कटीदेशे गृह्य वाससि पाण्डवः । तद्रक्षो द्विगुणं चक्रे रुवन्तं भैरवं रवम् ॥”) अस्य पर्य्यायाः भयङ्करशब्दे द्रष्टव्याः ॥

भैरवः, पुं, (भीर्भयङ्करो रवो यस्य । इति भीरव । ततः स्वार्थे अण् ।) शङ्करः । इति मेदिनी । वे ४६ ॥ भयानकरसः । इत्यमरटीकायां भरतः ॥ नदविशेषः । इति शब्दरत्नाबली ॥ रागभेदः । इति हेमचन्द्रः ॥ * ॥ अष्टभैरवाणामुत्पत्तिर्यथा, “दैत्याधिपः समुत्पत्य हरोरसि गदां क्षिपत् । संस्थितस्तु महायोगी सर्व्वाधारः प्रजापतिः ॥ गदापातक्षताद्भूरि चतुर्धासृगथापतत् । पूर्ब्बधारासमुद्भूतो भैरवोऽग्निसमप्रभः ॥ विद्याराजेति विख्यातः पद्ममालाविभूषितः । तथा दक्षिणधारोत्थो भैरवः प्रेतमास्थितः ॥ कामराजेति विख्यातः कृष्णाञ्जनसमप्रभः । नागराजेति विख्यातश्चक्रमालाघिभूषितः ॥ क्षतजाद्रुधिराज्जातो भैरवः शूलभूषितः । सच्छन्दराजेति विख्यात इन्द्रायुधसमप्रभः ॥ भूयिष्ठाद्रुधिराज्जातो भैरवः फलभूषितः । ख्यातो लम्बितराजेति शोभाञ्जनसमप्रभः ॥ ततोऽभूद्देवराजेति भैरवः क्षतजादथ । उग्रराजो बभूवाथ क्षतजाद्भैरवोऽपरः ॥ एवं हि सप्तरूपोऽसौ कथ्यते भैरवो मुने ! । विघ्नराजोऽष्टमः प्रोक्तो भैरवाष्टकमुच्यते ॥” इति वामनपुराणे अन्धकवरप्रदाने भैरवप्रादु- र्भावे ६७ अध्यायः ॥ * ॥ शारदीयदुर्गापूजायां अष्टौ पूज्यभैरवा यथा, “आदौ महाभैरवञ्च संहारभैरवं तथा । असिताङ्गभैरवञ्च रुरुं भैरवमेव च ॥ ततः कालं भैरवञ्च क्रोधभैरवमेव च । ताम्रचूडं चन्द्रचूडं अन्ते च भैरवद्वयम् ॥ एतान् संपूज्य मध्ये च नवशक्तीश्च पूजयेत् ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे दुर्गोपाख्याने ६१ अध्यायः ॥ ताम्रचूडचन्द्रचूडयोः स्थाने कपालभैरवरुद्र- भैरवौ ज्ञेयौ । इति तत्रैव गणपतिखण्डे ४१ अध्यायः ॥ * ॥ अपि च । “असिताङ्गो रुरुश्चण्डः क्रोध उन्मत्तसंज्ञकः । कपाली भीषणश्चैव संहारश्चाष्टमः स्मृतः ॥” इति तन्त्रसारः ॥ * ॥ शिवगणाधिपभैरवो यथा, -- “नन्दी भृङ्गी महाकालो वेतालो भैरवस्तथा । अङ्गं भूत्वा महेशस्य वीतभीतास्तपोधनाः ॥ यैर्मानुषशरीरेण प्रापिरे तपसो बलात् । गणानामाधिपत्यन्तु ते जानन्ति हरं परम् ॥” इति कालिकापुराणे ४४ अध्यायः ॥ * ॥ करवीरपुरराजचन्द्रशेखरपत्नीतारावतीगर्भे महादेवाज्जातपुत्त्रः । स च पुरा भृङ्गी बभूव पार्व्वतीशापात् वानरमुखो भूत्वा भैरव इति नाम्ना ख्यातः । यथा, -- “प्रविवेश ततो देवी स्वयं तारावतीतनौ । महादेवोऽपि तस्यान्तु कामार्थं समुपस्थितः ॥ कल्लिनाथमते तु भैरवश्चतुर्थरागः । अस्य रागिण्यः षट् । यथा । भैरवी गुज्जरी भाषा वेलावली कर्णाटी रगतंसा वडहंसीति च केचित् । एतन्मते पूर्ब्बवत् अष्टौ पुत्त्राः । किन्तु तिलकपुरीयपञ्चमसूहस्थानेषु देवशाखललित- मालकौशविलाबला लिखिताः । सोमेश्वर- मतेऽपि रागिण्यः षट् । यथा । भैरवी गुज्जरी रेवा गुणकली वङ्गाली बहुली च । तन्मते रागिण्या सहास्य गानसमयो ग्रीष्मर्त्तुः ॥ भरतमते तु अस्य रागिण्यः पञ्च यथा । मधु- माधवी ललिता वरारी वाहाकली भैरवी च । तन्मतेऽपि अस्याष्टौ पुत्त्राः । यथा देवशाखः ललितः हर्षः विलावलः माधवः वङ्गालः वेभासः पञ्चमश्च । एषामष्टौ भार्य्या यथा । सूहा वेलावली सोरठी कुम्भारी अन्दाही बहुलगुज्जरी पटमञ्जरी मिरवी च । इति सङ्गीत- शास्त्रम् ॥ * ॥ मतान्तरे भैरवरागस्य भार्य्या यथा । भैरवी वङ्गाली वरारी मध्यमा मधु- माधवी सिन्धवी च । तत्पुत्त्रा यथा । कोशकः अजयपालः श्यामः खरतापः शुद्धः ढोलश्च । तत्पुत्त्रबध्वो यथा । अष्टी रेवा बहुला सोहिनी रम्भेली सूहा च । अत्र शोभा इति साधुः पाठः । इति नारदपुराणम् ॥ (नागभेदः । यथा, महाभारते । १ । ५७ । १६ । “भैरवो मुण्डवेदाङ्गः पिशङ्गश्चोद्रपारकः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भैरव वि।

भयानकरसः

समानार्थक:भैरव,दारुण,भीषण,भीष्म,घोर,भीम,भयानक,भयङ्कर,प्रतिभय

1।7।19।2।5

हासो हास्यं च बीभत्सं विकृतं त्रिष्विदं द्वयम्. विस्मयोऽद्भुतमाश्चर्यं चित्रमप्यथ भैरवम्.।

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भैरव¦ पु॰ भीरोरिदम् अण्।

१ भये

२ तद्वति त्रि॰ अमरः। नाट्यादिप्रसिद्धे

३ भयानके रसे।

४ भयसाधने त्रि॰ मेदि॰स्त्रियां ङीप्।

५ शङ्करे

६ तदवतारतद्गणभेदे शब्दर॰

७ नदभेदे च पु॰ हेमच॰।

८ शिवपत्न्यां स्त्री ङीप्। भैरवभेदानामुत्पत्तिर्वामनपु॰

२७ अ॰ यथा
“दैत्याधिपः समुत्पत्य हरोरसि गदां क्षिपत्। संहि-तस्तु महायोगी सर्वाधारः प्रजापतिः। गदापातक्षता-द्भूरि चतुर्धाऽसृगथापतत्। पूर्वधारासमुद्भूतो भैरवो-ऽग्निसमप्रभः। विद्याराजेति विख्यातः पद्ममालावि-भूषितः। तथा दक्षिणधारीत्थो भैरवः प्रेतमास्थितः। कामराजेति विख्यातः कृष्णाञ्जनसमप्रभः। नागराजेतिविख्यातश्चक्रमालाविभूषितः। क्षतजाद्रुधिराज्जातोभैरवः शूलभूषितः। सच्छन्दराजेति ख्यात इन्द्रा-युधसमप्रभः। भूयिष्ठाद्रुधिराज्जातो भैरवः फलमूमितः। ख्यातो लग्वितराजेति शीभाञ्जनसमप्रभः। ततोभूद्देवराजेति भैरवः क्षतजादथ। उग्रराजो बभूवाथक्षतजाद्भैरवोऽपरः। एवं हि सप्तरूपोऽसौ कथ्यतेभैरवोमुने!। विघ्नराजोऽष्टमः प्रोक्तो भैरवाष्टकमुच्यते। ” शारदीयदुर्गापूजायां तस्याश्चाष्टौ भैरवा यथोक्तं ब्रह्मवै॰प्र॰ ख॰

६१ अ॰।
“आदौ महाभैरवञ्च संहारभैरवन्तथा। असिताङ्गभैरवञ्च रुरुभैरवमेव च। ततः कालभैरवञ्चक्रोधभैरवमेव च। ताम्रचूडं चन्द्रचूडम् अन्ते चभैरवद्वयम्। एतान् संपूज्य मध्ये च नव शक्तीश्च पूज-येत्। ” कालीपूजादौ पूजनीया भैरवाश्च तन्त्रसारोक्तायथा
“ससिताङ्गो रुरुश्चण्डः क्रोध उन्मत्तसंज्ञकः। कपाली भीषणश्चैव संहारश्चाष्टमः स्मृतः”।

९ शिवगणा-धिपभेदे कालि॰ पु॰

४४ अ॰ यथा
“नन्दी भृङ्गी[Page4704-a+ 38] महाकालो वेतालो भैरवस्तथा। अङ्गं भूत्वा महे-शस्य वीतभीतास्तपोधनाः। यैर्मानुषशरीरेण प्रापिरेतपसोबलात्। गणानामाधिपत्यन्तु ते जानन्ति हरंपरम्। ” शिवांशकरवीरभूपचन्द्रशेखरस्य पार्वत्यंश तारा-वतीगर्भजाते

१० वेतालसोदरे च यथोक्तं कालिपु॰

४५ अ॰।
“प्रविवेश ततो देवी स्वयं तारावतीतनौ। महादेवोऽपितस्यान्तु कामार्थं समुपस्थितः। कामावसाने तस्यान्तुसद्योजातं सुतद्वयम्। अभवन्नृपशार्दूल! तथा शाखा-मृगाननम्। ततस्तयोर्नाम चक्रे नारदवचनान्नृपः। ज्येष्ठो भैरबनामाभूत् भीरोः पुत्रो भयङ्करः। वेताल-सदृशः कृष्णो वेतालोऽभूत्तथाऽपरः”। अपि च
“यीऽसौभृङ्गी हरसुतो महाकालोऽपि भूगतः। तावेव गौरी-शापेन सम्भूय नरयोनिजौ। वेतालभैरवौ जातौपृथिव्यां नृपवेश्मनि। यथा भृङ्गिमहाकालावुत्पन्नौप्राक् तथा शृणु। योऽसौ महाभैरवाख्यः सकायःशारमो हरः। भैरवः पृथगेवायं गणाध्यक्षो हरा-त्मजः। ” देवीभेदेषु शिवरूपभैरवभेदाश्च तीडल-तन्त्रे

१ पटले उक्ता यथा
“शिव उवाच। शृणुचार्वङ्गि! शुभगे! कालिकायाश्च भैरवम्। महाकालंदक्षिणाया दक्षभागे प्रपूजयेत्। महाकालेन वै सार्द्धंदक्षिणा रमते सदा। ताराया दक्षिणे भागे अक्षोभ्यंपरिपूजयेत्। समुद्रमथने देवि! कालकूटं समुत्थितम्। सर्वे देवाः सदाराश्च महाक्षोभमवाप्नुयुः। क्षोभादि-रहितं यस्मात् पीतं हालाहलं विषम्। अतएवमहेशानि! अक्षोभ्यः परिकीर्त्तितः। तेन सार्द्धं महा-माया तारिणी रमते सदा। महात्रिपुरसुन्दर्य्या दक्षिणेपूजयेत् शिवम्। पञ्चवक्त्रं त्रिनेत्रञ्च प्रतिवक्त्रं सुरे-श्वरि!। तेन सार्द्धं महादेवी सदा कामकुतूहला। अतएव महेशानि! पञ्चमीति प्रकीर्त्तिता। श्रीमद्भु-वनसुन्दर्य्या दक्षिणे त्र्यम्बकं यजेत्। स्वर्गे मर्त्त्ये चपाताले या चाद्या भुवनेश्वरी। एतया रसते तेनत्र्यम्बकस्तेन कथ्यते। सशक्तिश्च समाख्यातः सर्वतन्त्रेप्रपूजितः। भैरव्या दक्षिणे भागे दक्षिणामूर्त्तिर्सज्ञ-कम्। पूजयेत् परयत्नेन पञ्चवक्त्रं तमेव हि। छिन्न-मस्तादक्षिणांशे कबन्धं पूजयेत् शिवम्। कबन्ध-पूजनाद्देवि! सर्वसिद्धीश्वरी भवेत्। धूमावती महा-मिद्या विधवा रूपधाऐणी। वगलाया दक्षभागे एक-वक्त्रं प्रपूजयेत्। महारुद्रेति विख्यातं जगत्संहार-[Page4704-b+ 38] कारकम्। मातङ्गीदक्षिणांशे च मतङ्गं पूजयेत्शिवम्। तमेव दक्षिणामूर्त्तिं जगदानन्दकारकम्। कमलाया दक्षिणांशे विष्णुरूपं सदाशिवम्। पूजयेत्परमेशानि! स सिद्धो नात्र संशयः। पूजयेदन्नपूर्णायादक्षिणांशे च रूपकम्। महामोक्षप्रर्द देवं दश-वक्त्रं महेश्वरम्। दुर्गाया दक्षिणे देशे नारदं परि-पूजयेत्। नकारः सृष्टिकर्त्ता च दकारः पालकः सदा। रेफसंहाररूपत्वान्नारदः परिकीर्त्तितः। अन्यासु सर्व-विद्यासु ऋषिर्यः परिकीर्त्तितः। स एव तस्या भर्त्ता चदक्षभागे तु पूज्यते”।

११ रागभेदे स च महादेवस्वरूपः। धैवतनिषादषड्जगान्धारमध्यमरूपपञ्चस्वरमिलितैर्गेयः। अस्य स्थानं धैवतस्वरः शरदृतौ प्रातर्गेयता। मतान्तरे अस्य रागिण्यः पञ्च। भैरवी वैराटी मधु-माधवी सिन्धवी वङ्गाली चेति” कलानाथमते भैरवोगुर्लरी भाषा विलाबली कर्णाटी वतंसा वडहंसीचेति षट्। भरतमते मधुमाधवी ललिता वरारीबहाकुली भैरवी चेति अन्यविधा पञ्च सङ्गी॰ दा॰दृश्या।

१२ महाविद्यामूर्त्तिभेदे स्त्री ङीप् सा चपञ्चदशविधा तन्त्रसारे उक्ता यथा

१ त्रिपुरभैरवी

२ सम्पत्प्रदा भैरवी

३ कौलेशभैरवी

४ भय-विध्वंसिनी भैरवी

५ सकलसिद्धिदा भैरवी

६ चैतन्यभैरवी

७ कामेश्वरी भैरवी

८ षट्कूटा भैरवी

९ नित्या भैरवी

१० रुद्र-भैरवी

११ भुवनेश्वरी भैरवी

१२ सकलेश्वरी भैरवी

१३ त्रि-पुरबालाभैरवी

१४ नवकूटा वालाभैरवी

१५ अन्नपूर्णेश्वरी-भैरवी च एतासां मन्त्रध्यानादिकं क्रमेण तत्र दृश्यम्।

१३ तारिणीशक्तियोगिनीभेदे च
“महाकाल्यथ रुद्राणीउग्रा भीमा तथैव च। घोरास्या भ्रामरी चैव महा-रात्रिश्च सप्तमी। अष्टमी भैरवी प्रोक्ता योगिनीस्ताःप्रपूजयेत्” तन्त्रसा॰। तत्र शिवस्य पत्न्यां
“कालीतन्त्रादौ
“भैरव्युवाच
“कालीपूजा श्रुता नाथ” कालीकवचम्

१४ भैरवरागस्य पत्नीरूपरागिणीभेदे स्त्री
“भैरवी कौशिकीचैव भाषा वेलाबली तथा। बङ्गाली चेति रागिण्योभैरवस्यैव वल्लभाः” संगीतसा॰। मतान्तरे

१५ मालवरागस्यपत्नीभेदे
“धानसी मानसी चैव रामकीरी च सिन्धुता। आशावरी भैरवी च मालवस्य प्रिया इमाः”। तस्या गान-कालः पूर्वाह्णः।
“विभाषा ललिता चैव कामोदा पठ-मञ्जरी। रामकीरी रामकेली वेला मारी च गुर्जरी। देशकारी च सुभगा पञ्चमी च गडातुडी। भैरवी चाथ[Page4705-a+ 38] कौमारी रागिण्यो दश पल्ल च। एताः पूर्वाह्णकालेतु गीयन्ते गायनोत्तमैः”{??}तदा॰।

१५ नागभेदे पु॰भा॰ आ॰

५७ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भैरव¦ mfn. (-वः-वी-वं) Formidable, horrible, terrific. n. (-वं) Horror, the property of exciting terror. m. (-वः)
1. A name of S4IVA, but more especially an inferior manifestation or form of the deity, eight of which are called by the common name Bhairava, and are severally termed ASITA4NGA, RURU, CHANDA, KRODHA, UN- MATTA, KUPATI, BHISHANA, and SANHA4RA, all alluding to terrific properties of mind or body.
2. The name of a river.
3. A musical mode; that which is calculated to excite emotion of terror. f. (-वी)
1. A name or form of DURGA
4.
2. A young girl personating DURGA4 at the festival of that goddess.
3. Name of a Ra4gini. E. भीरु fear- ful, aff. अण् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भैरव [bhairava], a. (-वी f.) [भीरोरिदम् अण्]

Terrible, frightful, horrible, formidable; वेल्लद्भैरवरुण्डमुण्डनिकरैर्वीरो विधत्ते भुवम् U.5.6.

Miserable.

Relating to Bhairava.

वः A form of Śiva (of which 8 kinds are enumerated).

The sentiment of terror (भयानक).

Fear, terror.

N. of a musical mode (राग) calculated to excite emotions of fear or terror.

A mountain.

वी A form of the goddess Durgā. ˚चक्रम् a disc of the goddess भैरवी; प्रवृत्ते भैरवीचक्रे सर्वे वर्णा द्विजोत्तमाः । निवृत्ते भैरवीचक्रे सर्वे वर्णाः पृथक् पृथक् ॥ Utpattitantra.

N. of a Rāgiṇī in the Hindu musical system.

A girl of 12 or a young girl representing the goddess Durgā at the Durgā festival.-वम् Terror, horror. -Comp. -ईशः an epithet of Viṣṇu (or Śiva ?); so भैरवतर्जकः. -यातना a sort of purificatory torment inflicted by Bhairava of Benares on those who die there, to make their spirits fit for absorption into the Supreme Spirit.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भैरव mf( आand ई)n. (fr. भीरु)frightful , terrible , horrible , formidable(652990 अम्ind. ) MBh. R. etc.

भैरव mf( आand ई)n. relating to भैरवCat.

भैरव m. N. of a form of शिव(cf RTL. 85 ) Prab. Ra1jat. Pur. (in the latter 8 -Bh भैरव's are enumerated , viz. महा-, संहार-, असिता-ङ्ग-, रुरु-काल-, क्रोध-, ताम्रचूड-, or कपाल-, चन्द्रचूड-or रुद्र-भ्; sometimes other names are given e.g. विद्या-राज, काम-र्, नाग-र्, स्वच्छन्द-र्, लम्बित-र्, देव-र्, उग्र-र्, विघ्न-र्)

भैरव m. a man representing -Bh भैरव's W.

भैरव m. a jackal L.

भैरव m. a mountain L.

भैरव m. (in music)N. of a राग

भैरव m. N. of a chief of शिव's host , Ka1lP.

भैरव m. of a son of शिवby तारा-वती(wife of चन्द्र-शेखर, king of करवीर-पुर) ib.

भैरव m. of a नागMBh.

भैरव m. of a यक्षCat.

भैरव m. of a hunter Hit.

भैरव m. of 2 kings and various teachers and authors (also with त्रिपाठिन्, दैवज्ञ, तिलक, दीक्षित, आचार्य, भट्टand मिश्र) ib.

भैरव m. of a river L.

भैरव m. pl. N. of a partic. sect VP.

भैरव n. terror or the property of exciting terror W.

भैरव n. = भैरव-तन्त्रbelow.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a शिव gan2a. Br. III. ४१. २७; IV. १४. 7; १७. 4; १९. ७८-9; ३३. १७.
(II)--An epithet of Rudra; the form assumed by शिव when गौरी returned from penance; She became भैरवी; फलकम्:F1:  M. १५८. २४; १७९. 1.फलकम्:/F Image of, to be placed in each temple but not in मूलायन्तन। फलकम्:F2:  Ib. २५२. १०; २५९. १४.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bhairava  : m.: A mythical serpent.

Born in the family of Dhṛtarāṣṭra, listed by Sūta among those offered in the snake sacrifice of Janamejaya; described as ‘fast as wind’ (vātavega), ‘having excess of poison’ (viṣolbaṇa) 1. 52. 15, 13.


_______________________________
*1st word in right half of page p44_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bhairava  : m.: A mythical serpent.

Born in the family of Dhṛtarāṣṭra, listed by Sūta among those offered in the snake sacrifice of Janamejaya; described as ‘fast as wind’ (vātavega), ‘having excess of poison’ (viṣolbaṇa) 1. 52. 15, 13.


_______________________________
*1st word in right half of page p44_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=भैरव&oldid=446008" इत्यस्माद् प्रतिप्राप्तम्