मल्लार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मल्लारः, पुं, (मल्लं ऋच्छति प्राप्नोतीति । ऋ + अण् ।) रागविशेषः । स तु षण्णां रागाणां मध्ये द्वितीयः । यथा, -- “आदौ मालवरागेन्द्रस्ततो मल्लारसंज्ञितः । श्रीरागस्तस्य पश्चाद्वै वसन्तस्तदनन्तरम् ॥ हिल्लोलश्चाथ कर्णाट एते रागाः प्रकी- र्त्तिताः ॥” अस्य षट्रागिण्यो यथा, -- “वेलावली पूरवी च कानडा माधवी तथा । कोडा केदारिका चैव मल्लारस्य प्रिया इमाः ॥” अस्य गानसमयः । “मेघमल्लाररागस्य गानं वर्षासु सर्व्वदा ॥” अस्य स्वरूपं यथा, -- “शङ्खावदातं पलितं दधानः प्रलम्बकर्णः कुमुदेन्दुवर्णः । कौपीनवासाः सविहारचारी मल्लाररागः शुचिशान्तमूर्त्तिः ॥” इति सङ्गीतदामोदरः ॥ (तथा च सङ्गीतदर्पणे रागाध्याये । “भैरवः पञ्चमो नाटो मल्लारो गौडमालवः । देशाख्यश्चेति षड्रागाः प्रोच्यते लोकविश्रुताः ॥” “मेघमल्लारिका मालकौशिकः पटमञ्जरी । आशावरीति विज्ञेया रागा मल्लारसंश्रयाः ॥” इति रागार्णवमतम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मल्लार¦ पु॰ मल्ल इव ऋच्छति ऋ--अच्।

१ रागभेदे

२ वसन्त-रागस्य रागिणीभेदे स्त्री ङीप् सङ्गीतदामो॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मल्लारः [mallārḥ], N. of one of the six Rāgas.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मल्लार m. (in music) N. of a रागSam2gi1t.

"https://sa.wiktionary.org/w/index.php?title=मल्लार&oldid=331580" इत्यस्माद् प्रतिप्राप्तम्