विक्रीयामम्प्रदान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विक्रीयामम्प्रदान¦ न॰ विक्रीय न सम्प्रदानं क्रेत्रे यत्र। अष्टादशविवादान्तर्गते विवादविशेषे तत्स्वरूपादिकंवीरमि॰ उक्तं यथा
“अथ विक्रीयासम्प्रदानाख्यव्यवहारपदम्। तत्स्वरूप-माह नारदः
“विक्रीय पण्यं मूल्येन क्रेतुर्यन्नप्रदीयते। विक्रीयासम्प्रदानं तद्विवादपदमुच्यते इति” तत्र विक्रेयद्रव्यस्य द्वैविध्यषड्विधत्वे क्रमेणाह स एव
“लोकेऽस्मिन् द्विविधम्पण्यं जङ्गमं स्थावरं तथा। षड्-विधस्तस्य च बुधैर्दानादानविधिः स्पृतः। गणितन्तुलिमंमेयं क्रियया रूपतः श्रियेति”। दानं विक्रयः आ-दानं क्रयः। गणयित्वा यस्य क्रयः तद्गणितम्। गणितं संख्येयं क्रमुकफलादिकम् एवं तुलिमादिकंतुलिमन्तुलाधृतं हेमचन्दनादिकम्। मेयं व्रीह्यादि-कम् क्रियया वाहनदोहनादिरूपया युक्तमिति शेषः। [Page4893-b+ 38] रूपतः रूपेण युक्तं वस्तु पण्याङ्गनादि। श्रिया दीप्त्यायुक्तं पद्मरागादिकम्। यदा विक्रेता मूल्यं गृहीत्वायाचमानाय क्रेत्रे विक्रीतं वस्तु न ददाति तदा यतक-र्त्तव्यं तदाह स एव
“विक्रीय पण्यं मल्येन क्रेतुर्यो नप्रयच्छति। स्थावरस्य क्षयं दाप्यो जङ्गमस्य क्रियाफल-मिति” यो गृही{??}मूल्योविक्रेता अजातानुशयायक्रेत्रे प्रार्थयमानाय नार्पयति तच्च पण्यं यदि स्याव-रात्मकं तदा क्षयेण सहितमसौ दाप्यः। यदा तु जङ्ग-मात्मकं तदा क्रियाफलेन सहितम् इत्यर्थः। विक्रया-नन्तरं जात उपभोगोऽत्र क्षयः क्रियाफलं दोह-नादिक्रियाकलं क्षीरादिकम्। इदञ्च क्रयकालापे-क्षया अर्पणकाले मूल्याधिक्ये वेदितव्यम्। मूल्यह्रासेत्वन्यथाभिधानात्। तथा च स एव
“अर्थश्चेदपही-येत सोदयम्पण्यमावहेदिति”। अर्वाक् चेदपचीयेतेतिवल्पतरौ पाठः। अर्वाक् विक्रीतस्य क्रेत्रे समर्पणात्पूर्वं अपचीयेत हीनमूल्यं भवेत्सोदयम्पण्यमावहेत्। विक्रयकाले यावन्मूल्यं गृहीतं तावता मूल्येनार्पण-समये मूल्यह्रासवशाद्यावदुपचयसहितं लभ्यते ताव-द्दद्यादित्यर्थः। यदा तु मूल्यसाम्यं तदा पण्योपचयरूपस्यासम्भवात्
“निक्षेपं वृद्धिशेषञ्च क्रयं विक्रयमेव{??}। याच्यमानमदत्तञ्चेद्वर्द्धते पञ्चकं शतमिति” वच-नोक्त वृद्धिसहितम्पण्यं दाप्यः। अतएव याज्ञ-वल्क्यः
“गृहीत मूल्यं यः पण्यं क्रेतुर्नैव प्रय-च्छति। सोदयं तस्य दाप्योऽसौ दिग्लाभं वा दिना-गते” इति। गृहीतमूल्यम्पण्यं विक्रेता यदि प्रा-र्थयमानाय स्वदेश{??}णिजे क्रेत्रे न समर्पयति तच्चपण्यं यदि क्रयका{??} बहुमूल्यं सत्कालान्तरे अल्पमू-ल्येनैव लभ्यते तदा सोदयं वृद्ध्या सहितं विक्रेताक्रेत्रे दापनीयः। यदा मूल्यह्रासकृतः पण्यस्वोदयोनास्ति किन्तु क्रयकाले यावता मूल्येन लभ्यं यावत्पण्य-मिति प्रतिपन्नं तावदेव तदा तत्पण्यमादाय त-स्मिन् देशे विक्रीतस्य यो लाभस्तेगोदयेन सहितंदापनीयः वचनत्रयस्यार्थः। चतुर्थस्य तु यो देशा-न्तरात् क्रयणार्थमागत्य क्रीणाति तस्मै देशान्तरे तत्पण्यविक्रये यो लाभस्तेन सहितं तत्पण्यं दापनीय इ-त्यर्थः। देशान्तरलाभसहितपण्यदानन्न केवलमाद्यंश-साम्य एव किन्तु मूल्यस्य वृद्धौ क्षयेऽपोत्याह नारदः
“स्थायिनामेष नियमोदिग्लामं दिग्विचारिणामिति”। [Page4894-a+ 38] स्थायिनां विक्रेतृदेशख्यायिनाम् एष नियमः ख्यावरस्यक्षयं दाप्य इत्यादिवचनोक्तो नियम इत्यर्थः। विष्णुर्वि-क्रेतुर्दण्डमप्याह
“गृहीतमूल्यं यः पण्यं क्रतुर्नैवदद्यात्तत्तस्य सोदयं दाप्यो राज्ञा च पणशतं दण्ड्यः” इति। एतच्चानुशयरहिततृप्तविक्रेतृविषयमिति म-दनरत्ने। यस्तु विक्रीयानुशयवशान्नार्पयति यश्चक्रीत्वाऽनुशयवशान्न गृह्णाति तौ प्रत्याह कात्यायनः
“क्रीत्वा प्राप्तान्न गृह्णीयाद्यो न दद्याददूषितम्। समूल्याद्दशभानन्तु दत्त्वा स्वन्द्रव्यमाप्नुयात्”। अप्राप्तेऽथक्रियाकाले कृते नैव प्रदापयेत्। एष धर्मो दशाहात्तुपरतोऽनुशयो नत्विति”। अदूषितं जलादिनेति शेषः। दोह्यवाह्यादिपण्यस्य दोहनवाहनादिरूपः कालोऽल्प-क्रियाकालस्तस्मिन्नाप्ते सति अग्रहणेऽदाने वा कृतेसति न दशमभानं प्रदापयेत् किन्तु तमदत्त्वैव स्वीयंद्रव्यं प्राप्नुयादिति। एष धर्मो दशाहात्प्राग्वेदितव्यः तत ऊर्द्ध्वमनुशयो न कर्त्तव्यः। विक्रीयासम्प्र-यच्छती यद्विक्रीतं पण्यं विक्रेतुः पाश्वं स्थितं तस्य यदि-नाशः स्यात्तदा विक्रेतुरेव हानिरित्याह याज्ञवल्क्यः
“राजदैवोपघातेन पण्ये दोषमुपागते। हानिर्वि-क्रेतुरेवासौ याचितस्याप्रयच्छतः” इति। अत्र याचित-स्येति विशेषणोपादानान् याचनाभावे न विक्रेतुर्हानि-रित्यर्थाद्गम्यते। नारदोऽपि
“उपहग्येत वा पण्यंदह्येतापह्रियेत वा। विक्रेतुरेव सोऽनर्थो विक्रीयासम्प्र-यच्छतः” इति। यथा याचितस्वाप्रयच्छतो विक्रोगृहानि-स्तथा दीयमानं पण्यमगृह्णतः क्नेतुरपीत्याह ल एव
“दीयमानन्न गृह्णाति क्रीतम्पण्यञ्च यः क्र{??}। सएवास्य भवेद्दोषी विक्रेतुर्योऽप्रयच्छतः” इति। अप्रय-च्छतः विक्रेतुर्या दाषः स एवास्य भवेदित्यन्ययः। क्रेतु-र्दोषाभिधानस्य फल पण्यस्य मूल्यं क्रेत्रे विक्रेत्रा नप्रत्यर्पणीयमिति। दीयमानन्न नृह्णातीति वदता दीय-{??} न मूल्यहानिरिति दर्शितम्। क्रयान-{??}रं क्रेत्रा न याचितं विक्रेत्रा च न समर्पितं जात-श्चौराद्युपद्रवस्तत्र द्वयोः समा हानिः। क्रेतृविक्रेत्रो-{??}भयोरपि याचनानर्पणशैथिल्येन लापराधत्वादित्युक्तंदे{??}लभट्टैः स्मृतिचन्द्रिकायाम्। याज्ञवल्क्योऽपिसानिश्चेत् क्रेतृदोषेण क्रेतुरेव हि सा भवेदिति”{??}तृदो{??}ः दायमानस्याग्रहणम्। यत्र पुनर्जातानुशयः{??} पिक्रेत्रा दोयमानन्न गृह्णाति तत्राप्याह ना-[Page4894-b+ 38] रदः
“दीयमानन्न गृह्णाति क्रीत्वा पण्यं च यः क्रयी। विक्रीणानस्तदन्यत्र विक्रेता नापराध्नुयादिति”। क्रयीजातानुशय इति शेषः। याज्ञवल्क्योऽपि
“विक्रीत-मपि विक्रेयं पूर्वक्रेतर्य्यगृह्णतीति”। यस्त्वदुष्टं पण्यंदर्शयित्वा सदोषं विक्रीणीते यश्चान्यहस्ते विक्रीतंतत्क्रेत्रनुशयाभाव एवान्यत्र विक्रीणीते तयोः समानो-दण्ड इत्याह नारदः
“निर्दोषं दर्शयित्वा तु सदोषंयः प्रयच्छति। स मूल्याद्द्विगुणं दाप्यो विनयं ताव-देव तु। तथान्यहस्ते विक्रीय योऽग्यस्मै तत्प्रयच्छति। द्रव्यन्तद्द्विगुणं दाप्यो विनयं तावदेव त्विति”। याज्ञ-वल्क्योऽपि
“अन्थहस्ते च विक्रीतं दुष्टं वाऽदुष्टवद्यदि। विक्रीणीते दमस्तस्य मूल्यात्तु द्विगुणो भवे-दिति” बुद्धिपूर्वविषयमेतत्।
“ज्ञात्वा सदोषं यःपण्यं विक्रीणीते विचक्षणः। तदैव द्विगुणं दाप्यस्तत्समंविनयं तथेति” वृहस्पतिनोक्तत्वात्। अबुद्धिपूर्वकविक्रये तु क्रयपरावर्त्तनमेव। अन्यत्रापि विषयविशेषेपरावर्त्तनमाह वृहस्पतिः
“मत्तोन्मत्तेन विक्रीतं ही-नमुल्यं भयेन वा। अस्वतन्त्रेण मूढेन त्याज्यन्तस्य पुन-र्भवेदिति”। एतत्सर्वं दत्तमूल्ये पण्ये द्रष्टव्यम्। अत-एव नारदः।
“दत्तमूल्यस्य पण्यस्य विधिरेष प्रकी-र्त्तितः” इति। यत्र पुनर्मूल्यं न दत्तं तत्रापि सएवाह
“अदत्तेऽन्यत्र समयान्न विक्रेतुरविक्रयः” इति। अदत्तमूल्ये तु पण्ये वाङ्मात्रेण क्रये कृते न परावर्त्त-नीयमित्येवमादिसमयाभावे सति प्रवृत्तौ निवृत्तौ न क-णिद्दोष इत्यर्थः। यत्र पुनर्वाङ्मात्रक्रयपरिहारार्थं वि-क्रेतुर्हस्ते क्रेत्रा किञ्चिद्द्रव्यं दत्तं तत्र क्रेतृदोषवशे{??} क्रयासिद्दौ त्वाह व्यासः
“सत्यङ्गारं च योदत्त्वा यथाकालं न दृश्यते। पण्यं भवेन्निसृष्टन्तद्दोय-{??}मृह्णतः” इति। निसृष्टं भवेत् उत्सृष्टं भवेदि-त्यर्{??}। अत्र पण्यद्रव्यस्योत्सर्गः सत्यङ्कारद्रव्योत्सर्गे-ऽभिमतः। अन्यथा वाङ्मात्रक्रयकर्तृतुल्यत्वेन विक्रेतुःसत्यङ्कारद्रव्यग्राहकत्वकृतमन्यत्र विक्रयणाद्यपराधनिमि-त्तकं सत्यङ्क रद्रव्यस्य द्वैगुण्येन प्रतिदानं न स्यात्। अत्रापि विक्रीतमविक्रेयनित्यनुसन्धेयम्। अस्मिञ्चेवविषये विक्रेतृदोषवशेन क्रयासिद्धौ त्वाह याज्ञबलक्यः
“सत्यङ्कारकृतं द्रव्यं द्विगुणं प्रतिदापयेदिति” सत्यङ्कारःसत्यापनं कृतस्य क्रयस्य सत्यताकरणमिति यावत्।
“क्लीवे सत्यापनं सत्यङ्कारः सत्याकृतिः स्त्रियाम्”{??}त्यमर[Page4895-a+ 38] कोषःभिधानात्। सत्यङ्क राय कृतं समार्पतं सत्यङ्कार-कृतं व्रयं रत्यं कर्त्तुं यद्विक्रेतृहस्ते कृतमित्यर्थः”।

"https://sa.wiktionary.org/w/index.php?title=विक्रीयामम्प्रदान&oldid=254527" इत्यस्माद् प्रतिप्राप्तम्