विषमज्वर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषमज्वरः, पुं, (विषमः ज्वरः ।) ज्वररोगबिशेषः । तस्य निदानकथनपूर्ब्बिकां संप्राप्तिमाह । “दोषोऽल्पोऽहितसम्भूतो ज्वरोत्सृष्टस्य वा पुनः । धातुमन्यतमं प्राप्य करोति विषमज्वरम् ॥” अयमर्थः । ज्वरोत्सृष्टस्य ज्वरेण त्यक्तस्य । सन्निकृष्टं लक्षणमाह । दोषः अल्पः ज्वरमुक्त्या स्वल्पोऽपि । विप्रकृष्टं हेतुमाह । अहित- माहारविहारादि तेन सम्भूतः संपूर्णो जातः अन्यतमं धातुं रसरक्तादिकं प्राप्य दूषयित्वा “विष्णुं सहस्रमूर्द्धानं चराचरपतिं विभुम् । स्तुवन्नामसहस्रेण ज्वरान् सर्व्वान् व्यपोहति ॥” सहस्रमूर्द्धानमिति सहस्रशीर्षेत्यादि वेदाभि- हितम् । नामसहस्रेण भारतोक्तेनेत्यर्थः ॥ * ॥ ज्वरस्यापि देवतात्वात् पूजा कार्य्या । यत आह विदेहः । “तीर्थायतनदेवाग्निगुरुवृद्धोपसर्पणैः । श्रद्धया पूजनैश्चापि सहसा शाम्यति ज्वरः ॥” तीर्थं ऋषिजुष्टं जलम् । आयतनं देवाधिष्ठितं पुरुषोत्तमक्षेत्रश्रीशैलादि ॥ * ॥ “निम्बपत्रं वरा व्योषं यवानी लवणत्रयम् । क्षारो दिग्वह्निरामेषुत्रिनेत्रक्रमशोऽंशकाः ॥ सर्व्वमेकीकृतं चूर्णं प्रत्यूषे भक्षयेन्नरः । एकाहिकं द्व्यहिकञ्च तथा त्रिदिवसज्वरम् ॥ चातुर्थिकं महाघोरं सन्ततं सततं हि वा । धातुस्थञ्च त्रिदोषोत्थं ज्वरं हन्ति च मान- वम् ॥” निम्बादि चूर्णम् । इति विषमज्वराधिकारः ॥ इति भावप्रकाशः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषमज्वर¦ पु॰ विषम उग्रो ज्वरः। ज्वरभेदे। यथोक्तं भावप्र॰
“तत्र विषमज्वरस्य निदानक{??}नपूर्विकां संप्राप्तिमाह[Page4931-a+ 38]
“दोषोऽल्पोऽहितसम्भूतो ज्वरो सृष्टस्य वा पुनः। धातु{??}न्यतमं प्राप्य वरोति विष॰ ज्वरम्”। अयमर्थःज्ज्वरोतसृष्टस्य ज्वरण त्यक्तस्य। सन्निकृष्टहेतुमाह। दोषःअल्पः, ज्वरमुक्तस्य स्वलोऽपि। विप्रकृष्टहेतुमाह। अहि-तमाहारविहारादि तेन सम्भूतः संपूर्णोजातः अन्यत-मन्धातुं रसरक्तादिकम् प्राप्य दूषयित्वा पुनर्विषमज्वरंकरोति ज्वरोतसृष्टस्य वेति वाशब्देनेति बोध्यते। प्रथमतो विषमज्वरो भवति यत उक्तम्।
“आरम्भा-द्विषमो यस्तु” इत्यादिकम् रसादिकन्धातुं दूषयित्वाकं वि{??}मज्वरं करोति इत्यपेक्षयामाह
“सन्ततं रसरक्तस्थःसतत रक्तधातुगः। दोषः क्रुद्धो ज्वरं पुंसां सोऽन्येद्युःपिशिताश्रितः। मेदोगतस्तृतीयेऽह्नि अस्थिमज्जागतःपुनः। कुर्य्याच्चातुर्थिकं घोरमन्तकं रोगसङ्करम्”। अन्तकमिव मारकत्वात्। अथ विषमज्वरस्य सामान्यंलक्षणमाह
“यः स्यादनियतात् कालात् शीतोष्णाभ्यांतथैव च। वेगतश्चापि विषमोज्वरः स विषमः स्मृतः”। यः स्यादनियतात् कालादित्यस्यायमर्थः। यथा वाति-कोज्वरः सप्त दिनानि, पैत्तिको दश दिनानि, श्लैष्मिकोद्वादशदिनानि, दोषाणां प्राबल्यैर्वातिकश्चतुर्दशदिनानि,पैकिको विंशतदिनानि, श्लैष्मिकश्चतुर्विंशतिदिनानिस्यात्। तथा विष{??}ज्वरो नियतं कालं व्याप्य न स्या-दित्यर्थः। शीतोष्णभ्यां गुणभ्यां स्यात्।
“वेगतश्चापिविषमः कदाचिदतिवेगवान्”। कदाचिच्छान्तवेगः। वि-षमज्वरस्य भेदानाह
“सन्ततः सततोऽन्येद्युस्तृतीयकचतुर्थकौ”। तत्र सन्ततस्य लक्षणमाह
“सप्ताहं वादशाहं वा द्वादशाहमथापि वा। सन्तत्या योऽविसर्गीस्यात् सन्ततः स निगद्यते”। विकल्पो वातिकादिभेदात्। सन्तत्था नैरन्तर्य्येण अविसग्र्गी अपरित्यागो। ननु{??}क्तानुबन्धित्वं विषमत्वमिति विषमलक्षणम्। तदत्रन घटत इति कथमयं विषमेषु पठ्यते”। घटत एवेति{??} दोषः। यत उक्तं चरकेण
“विसर्गं द्वादशे कृत्वादिवसे व्यक्तलक्षणम्। दुर्लभोपशमः कालं दीर्घमेवानु-पर्त्तते” इति। यत्तु खरनादेनोक्तम
“ज्वराः पञ्च तुये प्रोक्ताः पूर्वे सन्ततकादयः। चत्वारः सन्ततं हित्वाज्ञेयास्ते विषमज्वराः” इति तच्चिरेण त्यागाभिप्रायेण। सततकक्षणमाह
“व्यहोरात्रे सततको द्वौ कालावनु-पर्त्तते”।{??} काणौ कहन्येककालं रात्रामेककालम्। यतो दोषाक्षागहोरात्ने प्रत्येकं{??} प्रकोपकालौ। [Page4931-b+ 38] यत उक्तं वाग्मटेन
“वयोऽहोरात्रिभुक्तानामन्तमध्यादिकाःक्रमादिति”। अन्येद्युष्कलक्षणमाह।
“अन्येद्युष्कस्त्र-होरात्रादेककालं प्रवर्त्तते”। एककालं दोषापेक्षयाएककालमपि न द्वितीयं, प्रथमकाले हृद्येव दाषस्थितेः। तृतीयकचतुर्थकयीर्लक्षणमाह।
“तृतीयकस्तृतीयेऽह्निचतुर्थेऽह्नि चतुर्थकः”। तृतीयेऽह्नि इत्यागमनदिनं गृ-हीत्वा यत उक्तम्
“दिनमेकमतिक्रम्य यो भवेत् सतृतीयकः। दिनद्वयन्त्वतिक्रम्य यः स्यात् स हि चतु-र्थकः” इति। अत्राह वृद्धसुश्रुतः
“कफस्थानविभागेनयथासङ्ख्यं करोति हि। सततान्येद्युष्कत्र्याख्य चतु-र्थकप्रलेपकान्। अहोरात्रादहोरात्रात् स्थानात् स्थानंप्रपद्यत। दोष आमाशयं प्राप्य करोति विषमज्वरम्”। अयमर्थः आमाशयोरःकण्ठशिरःसन्धयः पञ्च कफ-स्थानानि एषु तिष्ठन् दोषो यथासङ्ख्यं संततादीन्करोति। तत्र आमाशये स्थितो दोषः सततं करोतिद्वौ कालौ, अहोरात्रे कालद्वये दोषप्रकोपात्। हृदयेस्थितो दोष आमाशयमागत्य अन्येद्युष्कं करोतिएककालं नैकट्यादेकस्मिन्नेवाहोरात्रे दोष आमाशयमा-गत्य अन्येद्युष्कं करोति। तत्र द्वौ दोषप्रकोपकालौएकस्मिन् काले हृदये तिष्ठत्यपरस्मिन्नामाशय इति। कण्ठेस्थितो दोषोऽहोरात्रात् हृदयमायाति। तृतीयेदिने आमाशयमागत्य स्वप्रकोपकाले तृतीयकं ज्वरंकरोति एककालं न तु द्वौ कालौ स्वभावात्। एव-मेव शिरःस्थितो दोषः अहोरात्रात् कण्ठमायातिततः पुनरहोरात्रात् हृदयमायाति चतुर्थे दिनेआमाशयमागत्य स्वप्रकोपकाले चतुर्थकं ज्वरं करोतिएककालन्नतु द्वौ कालौ स्वभावादेव। ननु दोषस्यागमनक्रमेण निजस्थानगमनक्रमात् कथं तृतीयचतुर्थ-दिवसयोर्ज्वरागमनम्। उच्यते। दोषो हि प्रकोप-समये वेगवत्तया लाघवात् स्वस्थानन्तु वेगदिन एवयाति। यत आह
“दोषः प्रकोपकाले हि वेगवत्त्वेनलाघवात्। वेगवासर एवायं स्वस्थानमधिगच्छति”। सन्धिषु स्थितः प्रलेपकं करोति। सन्धयश्चामाशयेऽपिसन्ति तेषु स्थितः प्रलेपकं सर्वदा करोति
“निवृत्तःपुनरायाति विषमो नियते दिने। स्वमावः कारणंतत्र मन्थन्वे मुनिपुङ्गवाः”। स्वभावस्य कारणत्वे कफ-स्वानविभागनिरपेक्षाश्चतुर्थकादिविपर्य्यया अपि ज्वराःस्वस्वकाले प्रभवन्ति अधिशेते यथा मूमिं वीजं काले[Page4932-a+ 38] प्ररोहति। अधिशेते तथा धातून् दोषः काले प्रकुप्यति”। सुश्रुतोऽप्याह
“स चापि विषमं देहं न कदाचित् प्रमु-ञ्चति। ग्लनिगौरवकार्श्येभ्यः स यस्मान्न प्रमुच्यते। येगे तु समतिक्रान्ते गतोऽयमिति लक्ष्यते। धात्वन्त-रेषु लोनत्वात् सौक्ष्म्यान्नैवोपलभ्यते”। द्विदोषोल्वणस्यतृतीयकस्य लक्षणमाह
“कफपित्तात् त्रिकग्राही पृष्ठा-द्वातकफात्मकः। वातपित्ताच्छिरोग्राही त्रिविधः स्यात्तृतीयकः”। त्रिकग्राही वेदनया त्रिकं गृह्णातीत्यर्थः। ननु कफपित्तात् त्रिकग्राही वेदनया त्रिकव्यापी त्रिकंतु वातस्थानं तत्कथं तद्गृह्णीतः पित्तकफौ अन्यस्थान-गत्वेन दुर्बलत्वात् दुर्बलौ च कथं वेगं कुरुतः, दोषाणांस्थाननियमः न तु कुपितानां तथा च सूश्रुतः
“कुपितानांहि दोषाणां शरीरे परिधायति। यत्र सङ्गः स वैगु-ण्यात् व्याधिस्तत्रोपजायते”। एवमन्यस्थानगत्वेन चतुर्थकोवाच्यः। वातकफात्मकः पृष्ठात् व्यथया पृष्ठं व्याप्य भवती-त्यर्थः।
“ल्यव्लोपे कर्मण्यधिकरणे च” पा॰ सूत्रेण पञ्चमी। कफोल्वणस्य वातोल्वणस्य चतुर्थकस्यलक्षणमाह
“चतु-र्थका दर्शयति स्वभावं द्विविधं ज्वरः। जङ्घाभ्यांश्लैष्मिकः पूर्वं शिरसोऽनिलसम्भवः। मध्यकायन्तु गृ-ह्णाति पूर्वं यस्तु स पित्तजः। विषमज्वर एवान्यश्चतु-र्थकविपर्य्ययः”। श्लैष्मिकः श्लेष्मोल्वणः। तथा अनि-लसम्भवो वातोल्वणः सन्ततादीनां त्रिदोषजत्वम्। यतउक्तं चरके
“प्रायशः सन्निपातेन पञ्च स्युर्विषमज्वराः” इति। प्रायशोग्रहणादे कदोषजा द्विदोषजा अपि भव-न्तीति जैज्जटः। पूर्वं प्रथमं जङ्घाभ्याम् व्यथयाजङ्घे व्याप्य पश्चात् सकलं शरीरं व्याप्नोति। एव-मुल्वखवातजातः शिरणः पूर्वं व्यथया शिरोव्याप्य स-कलं शरीरं व्याप्नोनीत्यर्थः।
“विषमज्वर एवान्थश्चातु-र्थकविपर्य्ययः। अस्थिमज्जगतो दोषश्चातर्थकविपर्य्ययः। जायते भिषजा ज्ञेयो विषमज्वर एव सः”। अन्थः सन्त-तादिपञ्चकादपरः चातुर्थकविपर्थ्ययाख्यो ज्वरः सोऽपिविषमज्वर एव वैद्येन ज्ञातव्यः। स किं धातुस्थ इत्य-पेक्षयामाह अस्थीत्यादि। तस्य चातुर्थकविपर्य्ययस्यलक्षणमाह
“स मध्ये ज्वरयत्यह्नी आद्यन्ते च विमु-{??}ति”। चतुर्थकविपर्य्ययः इत्युपलक्षणम्{??}सन्ततादि-वि{??}योऽपि बोद्धव्यः। यथा अहोरात्रे द्वौ कालौसुतति शेषं सर्वमहोरात्रं तिष्ठतीति सततविपर्य्ययः। अहोरात्रे एकखालं मुञ्चति शेषं सर्वमहोरात्रं तिष्ठति[Page4932-b+ 38] अन्येद्युष्कविपर्य्ययः मध्ये एकं दिनं ज्वरयति आ दाव न्तेच मुञ्चतीति तृतीयकविपर्य्ययः। एते विषमज्वरोपल-क्षकाः अन्ये रात्रिज्वरादयोऽपि विषमज्वरा बोद्धव्याःयथा
“समौ वातकफो यस्य क्षोणपित्तस्य देहिनः। रात्रौ प्रायो ज्वरस्तस्य दिवा हीनकफस्य तु”। प्रायःबाहुल्येन। सन्ततादीनां शीतपूर्वत्वे दाहपूर्वत्वे च हेतु-माह
“त्वक्स्थौ श्लेष्मानिलौ शीतमादौ जनयतो ज्व-रम्। तयोः प्रशान्तयोः पित्तमन्तर्दाहं करोति चं। शीतं शीतसहितम्। प्रशान्तयोः प्रशान्तवेगयोः अन्तःअभ्यन्तरे।
“करोत्यादौ तथा पित्तं त्वक्स्थं दाहमतीवच। तस्मिन् प्रशान्ते त्वितरौ कुरुतः शीतमन्ततः”। अन्ततः हस्तपादादितः। शीतादिदाहादिज्वरयोःत्रिदोषजत्वमाह
“द्वावेतौ दाहशीतादिज्वरौ संसर्गजोस्मृतौ। दाहपूर्वस्तयोः कष्टः सुखसाध्यतमोऽपरः”। संसर्गजौ मान्निपातिकौ। कष्टः कष्टसाध्यः। विषम-ज्वरविशेषमाह
“विदग्धेऽन्नरसे देहे श्लेष्मपित्ते व्यव-स्थिते। तेनार्द्धं शीतलं देहमूर्द्धमुष्णं प्रजायते”। अन्नरसे विदग्धे आहारजे रसे दुष्टे, देहे श्लेष्मपित्तेव्यवस्थिते दुष्टे स्थिते। तेन हेतुना शीतलं कफेनउष्णं पित्तेन, अर्द्धत्वं चार्द्धनारीश्वराकारेण नरसिंहाकारेण वा।
“काये दुष्टं यदा पित्तं श्लेष्मा चान्ते व्यव-स्थितः। तेनोष्णत्वं शरीरस्व शीतत्थं हस्तपादयोः”। अन्ते हतपादादौ
“काये श्लेष्मा यदा दुष्टः पित्तचान्ते व्यवस्थितम्। शीतत्वं तेन गात्रे स्यादुष्णत्वंहस्तपादयोः”। विषमज्वरविशेषस्य प्रलेपकस्य लक्षण-माह
“प्रलिपन्निव गात्राणि घर्मेण गौरवेण च। मन्द-ज्वरविलेपी च स शींतः स्यात् प्रलेपकः”। गोरवेणउपलक्षितः। मन्दज्वरविलेपी मन्दवेगस्य विलेपः सदासम्बन्धोऽस्यास्तीति मन्दज्वरपिलेपी। अथं विषमज्वरः। तथा च सुश्रुतः
“प्रलेपसाख्यो विषमः प्रायशःक्लेशशोषिणाम्। ज्वराश्च विषमाः सर्वे प्रायः क्ले{??}यशोषिणाम्”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषमज्वर¦ m. (-रः)
1. A violent fever.
2. Irregularly remittent fever. E. विषम and ज्वर a fever.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषमज्वर/ वि-षम---ज्वर m. irregular (chronic) fever Sus3r.

"https://sa.wiktionary.org/w/index.php?title=विषमज्वर&oldid=273684" इत्यस्माद् प्रतिप्राप्तम्