सपिण्ड

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सपिण्डः, पुं, (समानः पिण्डो मूलपुरुषो निवापो वा यस्य । समानस्य सः ।) सप्तपुरुषान्त- र्गतज्ञातिः । तत्पर्य्यायः । सनाभिः २ । इत्य- मरः ॥ स च अशौचविवाहदायभेदात् त्रिविधः । तत्राशौचसपिण्डस्य लक्षणं यथा । सप्तपुरु- षान्तर्गतत्वे सति गोत्रैक्ये सति दातृत्वभोक्तृ- त्वान्यतरसम्बन्धेन पिण्डलेपान्यतरवत्त्वम् । दत्त- कन्यानान्तु भर्त्तृसापिण्ड्येन सापिण्ड्यम् । अद- त्तानां पित्रवधित्रिपुरुषसापिण्डम् । विवाह- सपिण्डास्तु । पितृपितृबन्ध्वपेक्षया सप्तमपुरुषा- वधयः मातामहमातृबन्ध्वपेक्षया पञ्चमपु- रुषावधयश्च । यथा, -- “पञ्चमात् सप्तमादूर्द्ध्वं मातृतः पितृतः क्रमात् । सपिण्डता निवर्त्तेत सर्व्ववर्णेष्वयं विधिः ॥” इत्युद्वाहतत्त्वधृतनारदवचनम् ॥ दायसपिण्डास्तु । त्रिपुरुषावधयः । ते च पितृ- पितामहप्रपितामहाः तेषां पुत्त्रपौत्त्रप्रपौत्त्र- दौहित्राः । मातामहप्रमातामहवृद्धप्रमाता- महाः । तत्पुत्त्रपौत्त्रप्रपौत्त्राश्च । इति दाय- भागः ॥ * ॥ अथ सपिण्डादिविचारः । मत्स्य- पुराणम् । “लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः पिण्डदः सप्तमस्तेषां सापिण्ड्ये साप्तपौरुषम् ॥” नन्वेवं भ्रात्रादिभिः सह पिण्डतल्लेपमोक्तृत्वा- सम्भवात् कथं सपिण्डत्वमिति चेदुच्यते । तेषा- मपि पिण्डलेपयोः सम्बन्धोऽस्ति । तथा च बौधायनः । प्रपितामहः यितामहः पितः स्वयं सोदर्य्यभ्रातरः । सवर्णायाः पुत्त्रः पौत्त्रः प्रपौत्त्रो भवतीत्यननैव सर्व्वेषामुदकदाने प्राप्ते यदासप्त- माद्दशमाद्वेत्युक्तं तत् सन्निकर्षतारतम्येना- शौचभेदेऽप्युदककर्म्मसमानार्थमिति । अशौच- मेदस्तु सप्तमपुरुषपर्य्यन्तं सपिण्डत्वाद्दशाहः । ततश्च दशमपुरुषपर्य्यन्तं त्र्यहः । तथा च विष्णु- बृहस्पती । “दशाहेन सपिण्डास्तु शुध्यन्ति मृतसूतके । त्रिरात्रेण सकुल्यास्तु स्नात्वा शुध्यन्ति गोत्रजाः ॥” ततश्चतुर्द्दशपुरुषपर्य्यन्तं पक्षिणी । ततश्च जन्म- नामस्मृतिपर्य्यन्तमेकाहः । तथा च मिताक्षरा- विवादचिन्तामण्योर्बृहन्मनुः । “सपिण्डता तु पुरुषे सप्तमे विनिवर्त्तते । समानोदकभावस्तु निवर्त्तेताचतुर्द्दशात् ॥ जन्मनामस्मृतेरेके तत्परं गोत्रमुच्यते ॥” अत्र समानोदकत्वे द्विविधे । पूर्व्वत्र गोतमः पक्षिणीमसपिण्डे इति । परत्र हारीतः । “मातामहे त्रिरात्रं स्यादेकाहस्त्वसपिण्डके ॥” अत्रैव गोत्रजानामहः स्मृतमिति जावाल- वचनम् । ततः परं सर्व्वथा समानोदकतानि- वृत्तेः स्नानमात्रमिति । स्नात्वा शुध्यन्ति गोत्रजा इति बृहस्पत्युक्तत्वादिति । इति शुद्धितत्त्वम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सपिण्ड पुं।

सपिण्डाः

समानार्थक:सपिण्ड,सनाभि

2।6।33।2।3

पितामहः पितृपिता तत्पिता प्रपितामहः। मातुर्मातामहाद्येवं सपिण्डास्तु सनाभयः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सपिण्ड¦ त्रि॰ समानः पिण्डः स्वदेहारम्भकांशभेदः श्राद्धे{??}यपिण्डो वा यस्य समानस्य सः। एकदेहारभ्यदेहे ज्ञा-तिभेदे
“असपिण्डा च या मातुरिति” स्मृतिः। ज्ञाती-ना{??} साक्षात् परम्परया अतिपरम्परया वा एकदेहार-भ्यत्वात्तघात्वम् मिता॰।

२ दातत्वभोक्त त्वेनैकपिण्डयुतेटायभा॰। एतच्च दायग्रहणोपयोगिसापिण्ड्यामति।{??}पिण्डता हि विषयभेदेन त्रिविधा अशौचोपयोगिनी[Page5220-b+ 38] विवाहोपयोगिनी दायोपयोगिनी चेति। तत्र समानदेह-सम्बन्धे या सपिण्डता साऽशौचग्रहणार्था विवाहार्थाच। श्राद्धे देयपिण्डसम्बन्धात् सपिण्डता तु दायग्र-हणोपयोगिनीति विवेकः। यथोक्तं शु॰ त॰ रघुनन्दनेन
“मत्स्यपुराणे
“लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्ड-भागिनः। पिण्डदः सप्तमस्तेषां सापिण्ड्यं साप्तपौरु-षम्”। नन्वेवं भ्रात्रादिभिः सह पिण्डतल्लेपभोक्तृ-त्वासम्भवात् कथं सपिण्डत्वमिति चेदुच्यते तेषामपिपिण्डलेपयोः सम्बन्धोऽस्ति तथाच बौधायनः
“प्रपिता-महः पितामहः पिता स्वयं, सोदर्य्यभ्रातरः सवर्णायाःपुत्रः पौत्रः प्रपौत्रो वा एतानविभक्तदायादान् सपिण्डा-नासक्षते। विभक्तदायादान् सकुल्यानाधक्षते सदस्वङ्गजषु तद्गामी ह्यर्थो भवति” इति अस्यार्थः पित्रा-दिपिण्डत्रयेषु सपिण्डनेन भोक्तृत्वात् पुत्रादिभिस्त्रिभि-स्तत्पिण्डदानात्। यश्च जीवन् यस्य पिण्डदाता समृतः सन् सपिण्डनेन तत् पिण्डभोक्ता एवं सति मध्य-स्थितः पुरुषः पूर्वेषा जीवन् पिण्डदाता मृतः सन् तत्-पिण्डभोक्ताऽपरेषां जीवतां पिण्डसम्प्रदाता आसीत्। मृतश्च तैः सह दौहित्रादिदेयपिण्डभोक्ता अतो येषा॰मयं पिण्डदाता ये चास्य पिण्डभोक्तारस्तेऽविभक्तंपिण्डरूपं दायमश्नन्तीति अविभक्तदायादाः सपिण्डाइति। इदञ्च सपिण्डत्वं सकुल्यत्वञ्च दायग्रहणार्थम्अशौचाद्यर्थन्तु पिण्डलेपभुजामपि
“लेपभाजश्चतुर्थाद्याःपित्राद्याः पिण्डभागिनः” इति प्रागुक्तमत्स्यपुराणात्। वक्ष्यमाणकूर्मपुराणशङ्खलिखितवचनाच्च। पिण्डे यथा-परस्परं भाक्तृत्वं तथा लेपे तुल्यन्यायात्। हारलतायांकूर्मंपुराणम्
“सपिण्डता तु पुरुषे सप्तमे विनिवर्त्तते। समानोदकभावस्तु जन्मनाम्नोरवेदने। पिता पिता-महश्चैव तथैव प्रपितामहः। लेपभाजश्चतुर्थाद्याः सा-पिण्ड्यं साप्तपौरुषम्”। लेपभागिभ्यस्तूर्द्ध्वं यावज्जन्म-नाम्नोरवेदनं यावदमुकनाम्नोऽस्मात् पूर्वपुरुषादयं जातइति विशेषः अयमस्मत् कुले जात इति सामान्यतो वास्मर्य्यते तावत् समानोदकत्वमिति हारलता। अत्रपरवचनेनैव सापिण्ड्यसिद्धौ पूर्ववचनपूर्वार्द्धं जीवत्पितृ-कत्वादिना अधिकपुरुषेषु पिण्डलेपसम्बन्धेऽपि सपिण्ड-तानिवृत्तिज्ञापनाय। सर्वदेशीयाचारोऽपि तथा”।
“अथ यः खलापण्डान् दत्त्वैव मृतः परतश्चाप्राप्त-पितृभावः स कथं सपिण्डः। एकपिण्डदातृत्वभाक्तृत्व-[Page5221-a+ 38] लक्षणसम्बन्धाभावादिति चेत् तद्योग्यतयेति ब्रूमः। योग्यताप्रयोजकञ्च सामान्यशास्त्रविषयत्वम्। ततश्चात्य-तिवृद्धप्रपितामहावधिकाधस्तनानां षण्णां पुंसां प्रत्येका-{??}क्षया सप्तानामेकगोत्राणां स्वावधिपरतनानां सप्तानाञ्चसापिण्ड्यं पिण्डलेपयोर्दातृत्वभोक्तृत्वसम्बन्धादिति। स्त्रीणान्तु भर्तृसापिण्ड्येन सापिण्ड्यम्
“प्रत्तानां भर्तृ-सापिण्ड्यमिति” वचनात्। नन्वेवं कन्यायाः कथं स-पिण्डतेति चेत् आदिपुराणवचनात् त्रैपुरुषं सापिण्ड्यम्। यथा
“सपिण्डता तु कन्यानां सवर्णानां त्रिपौरुषी”। अत्र कन्यानामूढानाम्
“अपत्तानां त्रिपौरुषमिति” वशि-ष्ठवचनात्। तेन आत्मपञ्चमे वृद्धप्रपितामहे सापिण्ड्यंनिवर्त्तते इति प्रतिपादितम्। अत एव कन्यायाः प्र-पितामहभ्रात्रा तत्सन्ततिमिः सह सापिण्ड्याभावात्कन्यामरणजननयोस्तेषां सपिण्डाशौचं नास्ति किन्तुसमानोदकनिमित्तमेवाशौचमिति एवं तेषामपि जनन-मरणयोः कन्यानामिति शूलपाणिमहामहोपाध्यायः। यत्तु कूर्सपुराणम्
“अप्रत्ताना तथा स्त्रीणां सापिण्ड्यंसाप्तपौरुषम्। प्रत्तानां भर्तृसापिण्ड्यं प्राह देवःपितामहः” इति रत्नाकरधृतम्। तद्विवाहे पितृपक्ष-विषयम्। यथा विष्णुपुराणम्
“सप्तमीं पितृपक्षाच्चमातृपक्षाच्च पञ्चमीम्। उद्वहेत द्विजो भार्य्यां न्यायेनविधिना नृप!” सप्तमीं पञ्चमीं हित्वेति शेषः। भर्तृ-सापिण्ड्यमित्यत्र साप्तपौरुषमित्यनुषज्यते। तेन भर्तृ-समानसापिण्ड्यमित्यर्थः। शङ्खलिखितौ
“सपिण्डतातु सर्वेषां गोत्रतः साप्तपौरुषी। पिण्डञ्चोदकदानञ्चशौचाशौचं तदानुगम्”। गोत्रतः गोत्रैक्ये तेन माता-महकुले कदाचित् षट्पुरुषपर्य्यन्तं पिण्डसम्बन्धेऽपि नसपिण्डता। तान् सप्तपुरुषान् आ समन्तात् पिण्डा-दिकम{??}गच्छतीति तदानुगम्। एतेन
“सपिण्डताएकशरीरावयवान्वयेन भवति तथाहि पितुः शरीरावय-वान्वयेन पित्रा सह एवं पितामहादिभिरपि पितृद्वारेणतच्छरीरावयवान्वयात्। एवं मातृशरीरावयवान्वयेनभ्रात्रादिभिरिति। एवं पत्या सह पत्न्या एकशरीरा-रम्भकतया सापिण्ड्यम्। तथाच गर्मोपनिषदि
“एतत्षाट्कौषिकं शरीरं त्रीणि पितृतः त्रीणि मातृतःअस्थिस्नायुमज्जानः पितृतः, त्वङ्मांसरुधिराणि मातृत-श्चेति” तत्र तत्रावयवान्वयप्रतिपादनात्। निर्वाप्यपिण्डा-{??}ये तु सापिण्ड्ये भ्रातृपितृव्यादिसापिण्ड्यं न स्यात्। [Page5221-b+ 38] अतिप्रसङ्गस्तु सप्तान्यतमत्वेन प्रयोगोपाधिना निरस-नीयः। यद्येवं मातामहादीनामपि मरणे सपिण्डत्वेनदशाहाशौचं प्राप्नोति, स्यादेतत् यदि मातामहादीनांमरणे
“त्रिरात्रं स्यादशौचकम्” इत्यादिविशेषवचनं नस्यात्। यत्र तु विशेषवचनं नास्ति तत्र दशाहमितिमिताक्षरारत्नाकरादिमतमपास्तं लेपभाजैत्यादि वा-चनिकेऽर्थे सापण्ड्ये एकशरीरावयवान्वयरूपस्वकपोल-रचितार्थानवकाशात् निर्वाप्यपिण्डसम्बन्धेन भ्रात्रा-दीनां सापिण्ड्यस्य मत्स्यपुराणबौधायनाभ्यां पूर्वमुक्त-त्वात् कामधेनुहारलताकल्पतरुपारिजातकारादिभिस्त-थैव व्याख्यातत्वाच्च। रेतःशोणितपरिणामरूपत्वादपत्य-शरीरस्य भवतु वा तथा पत्या सह पत्न्या एकशरीरा-रम्भकतायाः प्रत्यक्षबाधितत्वात् कथं सापिण्ड्यं प्रमाता-महादीनां विशेषवचनाभावात् सपिण्डत्वेन दशाहाद्य-शौचप्रसङ्गाच्च मातामहादौ सापिण्ड्यस्य लोकविरुद्ध-त्वाच्च। भवतु वा तथा शरीरद्वारा सापिण्ड्यं तथापिवचनात् यथासप्तान्तर्गत्रत्वं तन्त्रं तथा
“गोत्रतः साप्त-पौरुषीति” वचनात् गोत्रैक्यमपि प्रागुक्तवचनात् कन्याया-स्त्रीपौरुषम् उढायाश्च भर्त्तृसपिण्डनेन सापिण्ड्यमितिचेत् तदेतन्मतेऽपि व्यवस्थायां न क्षतिरिति अतएवसुमन्तुवचनाभिहितं यद्दशमपुरुषपर्य्यन्तमशौचं तत् सप्तम-पुरुषाभ्यन्तराशौचान्न्यूनं त्रिरात्रं यथा
“ब्राह्मणा-नामेकपिण्डस्वधानामादशमाद्धर्मविच्छित्तिर्भवति आस-प्तमात् ऋक्थविच्छित्तिर्भवति आतृतीयात् स्वधावि-च्छित्तिर्भवति” अन्यथा पिण्डशौचक्रियाद्युच्छेदात् ब्रह्म-हत्यातुल्यो भवति” अस्यार्थः। एका समाना पिण्डस्वधा-येषां ते तथा यथैकोद्दिष्टस्य पिण्डे तु अनुशब्दो नयुज्यते इत्यत्रानुशब्देनानुशब्दयुक्तमन्त्रो लक्ष्यते अनु-युक्तमन्त्रस्तु
“वे चात्र त्वामनु यांश्च त्वमनु तस्मै ते स्वधा” इति तथा पिण्डस्वधाशब्देन पिण्डसम्बन्धिस्वधाशब्द-युक्तमन्त्रकरणकदेयजलं लक्षितम्। तथा च ऊर्ज्ज्{??}वहन्तीरमृतं घृतं पयःकीलालं परिस्रुतं स्वधास्थ तर्पयतमे पितॄन्” इत्यनेन पिण्डान् सिञ्चेदित्युक्तम्। ततश्च एक-पिण्डस्वधानां समानोदकानामित्यर्थः। अतएव मनुः।
“जन्मन्येकोदकानान्तु त्रिरात्रात् शुद्धिरिष्यते”। विष्णुपु-राणं
“मातृपक्षस्य पिण्डेन सम्बद्धाः ये जलेन वा” मातृष-क्षस्य मातामहपक्षस्य ये जलेन मम्बद्धाः समानोदका इतिश्राद्धविवेकेऽपि व्याख्यातम्।
“असम्बन्धा भवेद् या तु[Page5222-a+ 38] पिण्डेनैवोदकेन वा” इति विवाहेऽप्युक्तम्। अत्र पुत्रिकायाःपार्वणे पिण्डोदकयोः सम्बन्धात् कन्यामात्रेऽपि तद्योग्यतायाः सत्त्वात्। कन्या पिण्डोदकसम्बन्धोच्यते एतदनुसा-रादपि तस्याः सपिण्डता बोद्धव्या तस्मादेकपिण्डखधाना-मित्यनेन समानोदकभावः समाख्यातः न तु दशमपर्य्यन्तं, पित्रादिजीवनादिना सापिण्ड्यसम्बन्धेऽपिसापिण्ड्यं विहितं प्रागुक्तयुक्तेः स्वधेत्यस्य तदनुप्र-युक्तत्वेन वैयर्थ्यापत्तेः। अपुत्रधवाधिकारस्तु सन्निहित-तराभावे सप्तमपुरुषपर्य्यन्तं भूतपितृकस्य स्यधोपलक्षित-श्राद्धाधिकारः पुरुषत्रयपर्य्यन्तमिति अत्र स्वधाशब्दोमन्त्रपरः पितृभक्षपरोऽपि। तधा च गुणविष्णुधृताश्रुतिः
“स्वधा वै पितॄणामन्नमिति। ” दशमपुरुषपर्य्यन्तंसमानोदकत्वेऽपि न त्रिरात्रं किन्तु पक्षिण्यादि तथाहिउदकक्रियामधिकृत्य पारस्करः
“सर्वे ज्ञातयो भाव-यन्ति आसप्तवाद्दशमाद्वा समानग्रामवासेन यावत्सम्बन्धमनुस्मरेयुर्वा” इति भावयन्ति निष्पादयन्ति अत्रयावत्सम्बन्धमनुस्मरेयुरेककुलजातावयमिति स्मरणं भव-तीत्यनेनैव सर्वेषामुदकदाने प्राप्ते यद् आसप्तमाद्दशमा-दित्युक्तं तत्सन्निकर्षतारतम्येनाशौचभेदेऽप्युदककर्मसमा-नार्थमिति। अशौचभेदस्तु सप्तमपर्य्यन्तं सपिण्ड-त्वाद्दशाहः। ततश्च दशमपुरुषपर्य्यन्तं त्र्यहः। तथाचविष्णुवृहस्पती।
“दशाहेन सपिण्डास्तु शुध्यन्ति मृत-सृतके। त्रिरात्रेण सकुल्यास्तु स्नात्वा शुध्यन्तिगोत्रजाः। ” ततश्चतुर्दशपुरुषपर्य्यन्तं पक्षिणी ततश्चजन्मनामस्मृतिपर्य्यन्तमेकाहः। तथाच मिताक्षराविवाद-चिन्तामण्योर्वृहन्ममुः।
“सपिण्डता तु पुरुषे सप्तमेविनिवर्त्तते। समानोदकभावस्तु निवर्त्तेताचतुर्द्दशात्। जन्मनामस्मृतेरेके तत्परं गोत्रमुच्यते। ” अत्र समा-नोदकत्वे द्विविधे पूर्वत्र गोतमः
“पक्षिणीमसपिण्डे” परत्र हारीतः।
“मातामहे त्रिरात्रं स्वादेकाहस्त्व-सपिण्डके” इति। अत्रैव गोत्रजानामहः स्मृतमितिजावालवचनं ततः परं सर्वथा समानोदकतानिवृत्तेः। स्नानमात्रमिति
“स्नात्वा शुद्ध्यन्ति गोत्रजाः” इति वृह-स्पत्युक्तत्वादिति”। तथा च गोत्रैक्ये सति पिण्डलेपयोर्दातृत्वभोक्तृत्वा-न्यतरवत्त्वम् अशौचसापिण्ड्यम्। साक्षात्परम्परयासप्तमपर्य्यन्तदेहसम्बन्धवत्त्वं विवाहसापिण्ड्यं त्रिपुरुयपर्य्यन्तं देयपिण्डदातृत्वभोक्तृत्वान्यत्वरवत्त्वं दायग्रहणे[Page5222-b+ 38] सापिण्ड्यमिति विवेकः मिता॰ मातृसपत्न्या अपिसापिण्ड्यं स्वीकृत्य धनाधिकारोऽभिहितः तन्मते समा-नदेहसम्बन्धयोग्यतयैव सापिण्ड्यात्। दायमागमते तुश्राद्धे देयपिण्डदातृत्वभोक्तृत्वाभावात् न तस्याः सापिण्ड्यंतद्योग्यत्वेऽपि स्त्रीमात्रस्य विशेषवचनाभावे धनाधिकार-पर्युदासात् इति विवेकः एवं स्नुषाया अपि।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सपिण्ड¦ m. (-ण्डः) A kinsman, especially one connected by the offering of the funeral cake to either or all of the manes of the father, grandfather, and great-grandfather, and their wives respectively, as sprung from them in directly collateral lines; the relationship stops with every fourth person, as the fifth cannot perform the offer- ing of a cake to the father even of the deceased. The following are enumerated as Sapin4da4s:--the son, son's son, and son's grandson; [Page759-b+ 60] widow, daughter and daughter's son; the father, the mother, the brother, brother's son, and brother's grandson; father's daughter's son; father's brother's son and grandson; paternal grandfather's daughter's son; paternal grandfather; paternal grandmother, paternal grandfather's brother, brother's son and grandson; and lastly the great grandfather's daughter's son: these all present oblations in which the deceased is either included, or may participate: other enumerations, including the oblations he was bound to offer, &c. extend the connection of Sapin4d4a to seven persons both in an ascending or descending line. E. स for ससान common, and पिण्ड ball of meat, &c., offered to the manes of the deceased ancestors, at the S4ra4d'dhas performed in honour of them.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सपिण्डः [sapiṇḍḥ], 'Having the same पिण्ड or funeral rice-ball offering', a kinsman connected by the offering of the funeral rice-ball to the Manes of certain relations; गुरुदारे सपिण्डे वा गुरुवद्वृत्तिमाचरेत् Ms.2.247;5.59; Y.1.52.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सपिण्ड/ स--पिण्ड etc. See. s.v.

सपिण्ड/ स-पिण्ड m. " having the same पिण्ड" , a kinsman connected by the offering of the पिण्ड(See. )to certain deceased ancestors at the श्राद्ध(See. ; the kinship is through six generations in an ascending and descending line , or through a man's father , father's father , father's grandfather ; mother , mother's father , mother's grandfather ; son , son's son , son's grandson ; daughter , daughter's son etc. ; and also includes father's mother , father's grandmother etc. , also father's brothers and sisters , mother's brothers and sisters , and several others) Gr2S3rS. Gaut. Mn. v , 60 MBh. etc. ( RTL. 285 ; 286 IW. 248 ; 266 ).

"https://sa.wiktionary.org/w/index.php?title=सपिण्ड&oldid=505316" इत्यस्माद् प्रतिप्राप्तम्