सप्तपदी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सप्तपदी, स्त्री, सप्तानां पदानां ममाहारः । (“द्विगोः ।” ४ । १ । २१ । इति ङीप् ।) इति व्याकरणम् ॥ विवाहाङ्गसप्तपदीगमनं यथा । ततो जामाता प्रागुदीचीं गत्वा बधूं सप्तमि- र्म्मन्त्रैः सप्तमण्डलिकासु सप्तपदानि नयेत् । बवृश्च दक्षिणपादं नीत्वा पश्चाद्वामपादं मण्ड- लिकां नयत् जामाता च बधूं ब्रूयात् । वामेन पादेन दक्षिणं पादमाक्रमयेति । सप्तानां मन्त्राणामृष्यादयः साधारणाः । प्रजापति- रृषिरेकपाद्विराट् छन्दो विष्णुर्द्देवता पादा- क्रामणे विनियोगः । ओ~ एकमिषे विष्णुस्त्वा नयतु । द्वे ऊर्ज्जे विष्णुस्त्वा नयतु । त्रीणिंव्रताय विष्णुस्त्वा नयतु । चत्वारि मायो भवाय विष्णुस्त्वा नयतु । पञ्चपशुभ्यो विष्णुस्त्वा नयतु । षड्- रायस्पोषाय विष्णुस्त्वा नयतु । सप्तसप्तभ्यो होत्राभ्यो विष्णुस्त्वा नयतु ॥ ततः सप्तमं पदं गतां बधूं पतिराशास्ते । प्रजापतिरृषिर्म्मा- मकीपंक्तिच्छन्दः कन्या देवता पादाक्रामणा- नन्तरमाशासने विनियोगः । सखा सप्तपदीभव सख्यन्ते गमेयं सख्यन्ते मा योषा सख्यन्ते मायोष्ठ्याः । इति सप्तपदीगमनम् । इति भव- देवभट्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सप्तपदी¦ स्त्री सप्तानां पदानां समाहारः ङीप्। विवाह-काले मण्डलिकासु गन्तव्येषु सप्तसु पदेषु। तत्प्रकारोभवदेवभट्टोक्तो यथा
“ततो जामाता प्रागुदीचीं गत्वा वधूंसप्तभिर्मन्त्रैः सप्तसु मण्डलिकासु सप्त पदानि नयेत्। षभूश्च दक्षिणपादं नीत्वा पश्चात् वामपादं मण्डलिकांनयेत्। जामाता च वधूं ब्रूयात् वामेन पादेन दक्षिणंपादमाक्रमयेति” इत्यादि। अस्यैव कर्मणो विवाहनिष्ठा-करत्वमुक्तं मनुना
“पाणिग्रहणिकामन्त्रा नियतं दार-लक्षणम्। तेषां निष्ठा तु विज्ञेया विद्वद्भिः सप्तमे पदे”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सप्तपदी¦ f. (-दी) The ceremony of walking together round the nuptial fire.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सप्तपदी/ सप्त--पदी f. the 7 steps (round the sacred fire at the marriage ceremony) Kr2ishis. RTL. 364 , 380 , 3

"https://sa.wiktionary.org/w/index.php?title=सप्तपदी&oldid=391411" इत्यस्माद् प्रतिप्राप्तम्