सम्भूयसमुत्थान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्भूयसमुत्थानम्, क्ली, (सम्भूय मिलित्वा समुत्थानं कर्म्मकरणं यत्र ।) मिलित्वैकमत्या बणिजां कर्म्मकरणम् । तत्तु विवादपदविशेषः । यथा, सम्भूयसमुत्थानं नाम विवादपदमिदानीमभि- दधाति । “समवायेन बणिजां लाभार्थं कर्म्म कुर्व्वताम् । लाभालाभौ यथाद्रव्यं यथा वा संविदा कृतौ ॥” न्नानां श्राद्धादिषु विभवे सत्यनिमन्त्रणे एतदेव दशपणात्मकं दण्डनं वेदितव्यम् ॥ * ॥ देशा- न्तरमृतबणिग्रिक्थं प्रत्याह । “देशान्तरगते प्रेते द्रव्यं दायादबान्धवाः । ज्ञातयो वा हरेयुस्तदागतास्तैर्विना नृपः ॥” यदा सम्भूयकारिणां मध्ये यः कश्चिद्देशान्तरं गतो मृतस्तदा तदीयमंशं दायादः पुत्त्राद्यपत्य- वर्गः बान्धवाः मातृपक्षीयाः मातुलाद्याः ज्ञातयोऽपत्यवर्गव्यतिरिक्ताः सपिण्डा वा आ- गताः सम्भूयव्यवहारिणो ये देशान्तरादाग- तास्ते वा गृह्णीयुस्तैर्विना दायाद्यभावे राजा गृह्णीयात् । वाशब्देन च दायादीनां वैकल्पिकं अधिकारं दर्शयति । पौर्व्वापर्य्यनियमस्तु पत्नी दुहितर इत्यादि प्रतिपादित एवात्रापि विज्ञेयः । शिष्यसब्रह्मचारिब्राह्मणनिषेधो बणिक्- प्राप्तिश्च वचनप्रयोजनम् । बणिजामपि मध्ये यः पिण्डदानर्णदानादिसमर्थः स गृह्णीयात् । सामर्थ्याविशेषे पुनः सर्व्वे बणिजः संसृष्टिनो विभज्य गृह्णीयुस्तेषामभावे दशवर्षं दायाद्या- गमनं प्रतीक्ष्यानागतेषु स्वयमेव राजा गृह्णी- यात् तदिदं नारदेन स्पष्टमुक्तम् । “एकस्य चेत् स्यात् मरणं दायादोऽस्य तदाप्नुयात् । अन्यो वासति दायादे शक्तश्चेत् सर्व एव ते ॥ तदभावे तु गुप्तं तत् कारयेद्दशवत्सरात् । अस्वामिकमदायाद दशवर्षस्थितं ततः ॥ राजा तदात्मसात् कुर्य्यात् एवं धर्म्मो न हीयते ॥” किश्च । “जिह्मं त्यजेयुर्निर्लाभमशक्तोऽन्येन कारयेत् ।” जिह्मो वञ्चकः तं निर्लाभं निर्गतलाभं लाभमा- च्छिद्य त्यजेयुः बहिष्कुर्य्युः । यश्च सम्भूयकारिणां मध्ये भाण्डप्रत्यवेक्षणादिकं कर्त्तुमसमर्थोऽसाव- न्येन स्वं कर्म्म भाण्डभारवाहनं तदायव्ययपरी- क्षणादिकं कारयेत् । इति मिताक्षरा ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्भूयसमुत्थान¦ न॰ सम्भूय मिलित्वा सम्यमुत्तिष्ठन्त्यनेनसम् + उद् + स्था--करणे ल्युद्।

१ मिलित्वा बणिजां वा-णिज्यादिकर्मकरणे

२ तद्विषयके विवादमेदे च तत्खरूपा-दिकं वीरमि॰ उक्तं यथा
“अथ सम्भूयसमुत्थानाख्यव्यवहारपदम्। तस्य स्वरूप-साह नारदः
“बणिक्वभृतयो यत्र कर्म सम्भूयकुर्वते। तत् सम्भूयसमुत्थानं व्यवहारपद स्मृतम्” इति। वणिक्प्रभृतय इत्यनेन ऋत्विङ्गटनर्त्तककर्षकादीनांग्रहणम्। यद्यपि फलभूतस्य स्वर्गस्य ऋत्विग्गामित्वा-मावादात्मनेपदस्यानुपपन्नत्वेन प्रभृतिशब्देन ऋत्विग्-ग्रहणमनुचितम्। तथापि आत्मनेपदाऽविवक्षयेदमुक्तन्नच ऋत्विङ्मात्रे आत्मनेपदाविवक्षणे अन्यांशे च विव-क्षणे वैरूप्यप्रसङ्ग इति वाच्यम्। सम्भूयकर्त्तृत्वमात्रस्यलक्षणत्वेनान्यत्र वास्तवतत्सत्त्वेऽपि लक्षणवैयर्थ्यप्रसङ्गा-भावात्। न च चिन्तामणिकृता कत्नभिप्राय इत्यस्यकर्त्रभिप्रायविषये कर्त्रिच्छाविषये क्रियाफल इति व्या-ख्यातत्वादृत्विजामपि सफलं यजमानस्य कर्म भवत्वितिवेतनोपरागेणेच्छा सम्भवत्येवेत्यात्मनेपदविवक्षायामपिका क्षतिरिति वाच्यम्। कर्त्रमिप्राये कर्तृगामिनीत्यस्यैवव्याख्यानस्य सहाभाष्याद्यनेकग्रन्थसम्मतत्वेनान्यादृशव्या-ख्यानस्य महाभाष्यादिविरुद्धत्वात्। सह वणिज्यादि-करणे अधिकारिणो दर्शयति वृहस्पतिः
“कुलीनदक्षा-नलसैः प्राज्ञैर्नाणकवेदिसिः। आयव्ययज्ञैः शुचिमिः शूरैःकुर्य्यात् सह क्रियाम्” इति। क्रियां क्रतुकृषिशिल्प-स्तेयबाणिज्यरूपाम्। नाणकविज्ञानं बाणिज्यक्रियानयामुपंयुज्यते। आयव्ययज्ञानमात्रं कृषिक्रियायाम्। शिल्पिक्रियायां सङ्गीतक्रियायां च प्राज्ञत्वम्। क्रतोकुलीनत्वप्राज्ञत्वशुचित्वानि। स्तेये तु शूरत्वमात्रमुप-युज्यते। दक्षत्वानलसत्वे सर्वत्रोपयुज्येते। अतएवाद-क्षादीन्निषंधयति स एव
“असक्तालसरोगार्त्तमन्दभाग्यानिराश्रयाः। बाणिज्याद्याः सहैतैस्तु न कर्त्तव्या बुधैःक्रियाः” इति। निराश्रयाः मूलधनरहिताः। ये तुसम्भूय बाणिज्यादिक्रियां कुर्वन्ति ते द्रव्यानुरोधेनलाभादिभाजो भवन्तीत्याह नारदः
“समोऽतिरिक्तोहीनो वा तत्रांशा यस्य यादृशः। क्षयव्ययो तथावृद्धिस्तत्र तस्य तषाविधा” इति। वृहस्पतिरपि[Page5245-a+ 38]
“प्रयोगं कुर्वते ये तु हेमघान्यरसादिना। समन्यूना-धिकैरंशैर्लाभस्तेषां तथाविधः। समो न्यूनोऽधिकोवांशो येन क्षिप्तस्तथैव सः। व्ययं दद्यात् कमं-कुर्य्याल्लाभं गृह्णीत चैव हि” इति। यत्र पुनरस्य द्वौभागौ अस्यैक इति संवित् कृता तत्र तदनुरोधेन व्यय-लाभौ प्रकल्प्यावित्याह याज्ञवल्क्यः
“समवायेन बणिजांलाभार्थं कर्म कुर्वताम्। लाभालाभौ यथाद्रव्यं यथावा संविदा कृतो” इति। सम्भूयकारिणां कर्त्तव्यमाहव्यासः
“समक्षमसमक्षं वाऽवञ्चयन्तः परस्परम्। नाना-पण्यानुसारास्त्रे प्रकुर्युः क्रयविक्रयौ। अगोपयन्तो भा-ण्डानि दद्युः शुल्कञ्च तेऽध्वनि। अन्यथा द्विगुणंदाप्याः शुल्कस्थानाद्बहिःस्थिताः” इति। नारदोऽपि
“भाण्डपिण्डव्ययोद्धारसारासारत्ववीक्षणम्। कुर्युस्ते-ऽव्यभिचारेण समये स्वे व्यवस्थिताः” इति। अथ वासर्वानुज्ञया सर्वेषां कार्य्यमेक एव कुर्य्यात्। अतएववृहस्पतिः
“बहूनां सम्मतो यस्तु दद्यादेको धनन्नरः। करणं कारयेद्वापि सर्वेणैव कृतं भवेत्” इति। करणंकेण्यादिकम्। सम्भूयकारिणाम्मिथोविवादे निर्णय-प्रकारनाह स एव
“परीक्षकाः साक्षिणश्च त एवोक्ताःपरस्परम्। सन्दिग्धेऽर्थे वञ्चनाया न चेद् विद्वेषसं-युतः” इति। यदा तु विद्वेषसंयुक्तास्तदाप्याह स एव
“यः कश्चिद्वञ्चकस्तेषां विज्ञातः क्रयविक्रये। शपथैःसोऽपि शोध्यः स्यात् सर्ववादेष्वयं विधिः” इति। सर्व-वादेऽपि वञ्चनरहितवादेऽपि। वञ्चकत्वे सिद्धे सति किंकार्य्यमित्यपेक्षिते आह याज्ञवल्क्यः
“जिह्मं त्यजेयु-र्निर्लाभम्” इति। जिह्मं वञ्चकन्निर्लाभं कृत्वा त्यजेयु-र्वहिः कुर्युरितरे सम्भूयकारिण इत्यर्थः। सम्भूय-कारिष्वसमर्थं प्रत्याह स एव
“अशक्तोऽन्येन कारयेत्” इति। स्वांशानुरूपं कर्मेति शेषः। दैप्रराजकृतद्रव्यहा-निविषये सर्वान् प्रत्याह वृहस्पतिः
“द्रव्यहानिर्यदातत्र दैवराजकृता भवेत्। सर्वेषामेव सा प्रोक्ता कल्प-नीया यथांशतः” इति। सम्भूयकारिभिः सर्वैरितिशेषः। क्षयहानिरिति पाठे क्षयायैव हानिः क्षयहा-निरुपचय्यार्थव्यतिरिक्ता हानिरित्यर्थः। प्रातिस्विकदो-षेण द्रव्यनाशे स एवाह
“अनिर्दिष्टो वार्य्यमाणः प्रमा-दाद्यस्तु नाशयेत्। तेनैव तद्भवेद्देयं सर्वेषां समवायिनाम्” इति। अनिर्दिष्टः समवाय्यननुज्ञातः। याज्ञवल्क्यो-ऽपि
“प्रतिषिद्धमनादिष्टं प्रमाद्राद्यच्च नाशितम्। स[Page5245-b+ 38] तद् दद्यात्”। पालने त्वाह स एव
“विप्लवाच्चरक्षिताद्दशमांशभाक्” इति। वृहस्पतिरपि
“दैवराज-भयाद् यस्तु स्वशक्त्या परिपालयेत्। तस्यांशं दशमंदत्त्वा गृह्णीयुस्तेऽशतोऽपरम्” इति। तस्य तस्मौ दशम-मंशन्ते समवायिद्रव्यमिति शेषः। प्रतिपालयेत् समाहरेत्स्वशक्त्या प्रत्याहरेदित्यर्थः। नारदोऽपि
“दैवतस्कररा-जाग्निव्यसने समुपस्थिते। यस्तत् स्वशक्त्या रक्षेत त-स्यांशो दशमः स्मृत” इति। यस्तु समवायिद्रव्यं सम-वायिभिः सह प्रतियाचनादिना न साधयति तस्य लाभ-हानिरित्याह वृहस्पतिः
“समवेतैस्तु यद्दत्तं प्रार्थनीयंतथैव तत्। न याचते च यः कश्चिल्लाभात् स परि-हीयते” इति।
“योचनग्रहणं येन यत्कर्म स्वांशानु-रूपं कर्त्तव्यं तस्याप्युपलक्षणार्थं तेन तत्कर्माकरणेऽपिलाभहानिरित्यस्वादेव वचनात् प्रतिपत्तव्यमिति” स्मृति-चन्द्रिकायाम्। सम्भूयकारिणामृत्विजां कर्त्तव्यमाहमनुः
“ऋत्विजः समवेतास्तु यत्र सत्रे निमन्त्रिताः। कुर्युर्यथार्हं तत्कर्म गृह्णीयुर्दक्षिणां तथा” इति। अत्रसत्रशब्दो थज्ञमात्रविवक्षया प्रयुक्तो न पुनर्बहुयजमानकसत्राख्ययज्ञविशेषविवक्षया। तत्र यजमानानामेवा-ध्वर्यवादिकर्मकारित्वे दक्षिणार्हाणामृत्विजामभावात्। तथा कर्मानुसारेण दक्षिणां गृह्णीयुरित्यर्थः। तथा चस एव
“सम्भूय स्वानि कर्माणि कुर्बद्भिरिह मानवैः। अनेन कर्मयागेन कर्त्तव्यांशप्रकल्पना” इति। स्वानिकर्माणि याजमानव्यतिरिक्तानीति शेषः। इयं चांश-कल्पना द्वादशशतं गावो दक्षिणेत्येवं क्रतुसम्बन्धित्वेनविधीयमानायां दक्षिणायामेव न ऋत्विग्विशेषोल्लेखनेनविहितायास्तद्विधायकश्रुतिविरोधापत्तेः अतएवाहतुर्मनुवृहस्पती
“रथं हरेद् तथःध्वर्युर्व्रह्माधाने च वा-जिनम्। होता निविद्धरं चाश्वमुद्गाता चाप्यनः क्रये” इति। निविद्वरं निविच्छंसनलब्धं वरम्। उद्गातृशब्देनो-द्गातृगणमध्यस्थः सुब्रह्मण्यो गृह्यत इति मदनरत्ने। अनः शकटम् क्रये सोमक्रये। दक्षिणांशकल्पनायाःप्रकारमाहतुः मनुवृहस्पती
“सर्वेषामर्द्धिनो मुख्यास्तदर्द्धे-नार्द्धिनोऽपरे। तृतीयिमस्तृतीयांशाश्चतुर्थांशाश्च पादिनः” इति। सर्वेषां षोडशानामृत्विजां मध्ये ये मुख्या गण-स्याग्राः होतृ ब्रह्माध्यर्यूद्गातारस्तेऽर्द्धिनः उक्तदक्षि-णायाः किञ्चित् न्यूनमर्द्धं

४८ गृह्णीयुः समग्रार्द्धग्रहणेवक्ष्यमाणविभासकल्पनाविरोधः स्यात्। अपरे द्वितीया[Page5246-a+ 38] मैत्रावरुणप्रतिप्रस्थातृब्राह्मणाश्छंसिप्रस्तोतारस्तदर्द्धेन

२४ मुख्यभागार्द्धेनार्द्धिनोऽद्धंग्राहिणः, तृतीयिनोऽच्छावा-काग्नीध्रोन्नेतृप्रतिहर्त्तारो मुख्यभागस्य तृतीयांश

१६ भाजः। पादिनोऽन्त्याः ग्रावस्तोतृपोतृनेष्टृसुब्रह्मण्याख्या मुख्य-भागस्य चतुर्थांश

१२ ग्राहिण इत्यर्थः। मुख्यानां चतुर्णांमिथोविभागश्च समः एवं द्वितीयादीनामपि स एवविभागः। तथा च गोशतं दक्षिणेति पक्षमाश्रित्य का-त्यायनसूत्रम्
“द्वादश द्वादश मुख्येभ्यः षट्षट् द्वितीये-भ्यश्चतस्रश्चतस्रस्तृतीयेभ्यस्तिस्रस्तिस्र इतरेभ्यः” इति। संगृहीतमेत्रद्बौधायनकारिकायामपि
“पञ्चविंशतिधाकृत्वा वर्गीया दक्षिणा क्रमात्। द्वादशैवाथ षट्कं चचत्रास्तिस्र एव चेति” द्वादशाधिकनोशतरूपायादक्षिणायाः प्रथमञ्चत्वारो भागाः कर्त्तव्याः। तत्रैकोभागो होतृवर्गस्यापरो भागो ब्रह्मवर्गस्यापरोऽध्वर्युवर्ग-स्यापर उद्गातृवर्गस्य। पुनरेकैकस्य भागस्य पञ्चविंश-तिर्भागाः कर्त्तव्याः। तेष्वाद्यानां होत्रादीनां द्वादशभागाः, द्वितीयानां षट्, तृतीयानां चत्वारश्चतुर्थानांत्रय इत्यर्थः पशुबन्धादौ तु विषमविभागानभिधा-नात्
“समं स्यादश्रुतत्वादिति” न्यायेन समत्वेनैवविभाग इति मन्तव्यम्। स्वकीयकर्मकलापांशकर्तृषुकृतानुसारेण भागो देय इत्याह मनुः
“ऋत्विग्यदिवृतो यज्ञे स्वकर्म परिहापयेत्। तस्य कर्मानुरूपेणदेयोऽंशः सह कर्तृभिः” इति। सहकर्त्तृभिः सम्भूय-कारिभिरित्यर्थः। यद्वा कर्तृभिः सह देयः दक्षिणा-काले देयो यजमाननेनेत्यर्थः। अथ वा कर्म परिंत्यक्तंसह कर्तृभिरित्यर्थः। यदा तु ऋत्विक् कर्मैकदेशं दक्षिणा-दानानन्तरं त्यजति तदाऽवशिष्टं तद्गणवर्त्तिनां मध्येसन्निहितेनान्येन कारयेदित्याह स एव
“दक्षिणासुच दत्तासु स्वकर्म परिहापयेत्। कृत्स्ममेव लभेतांश-मन्येनैव च कारयन्” इति। कर्ममध्ये ऋत्विङ्मरणेकर्त्तव्यमाह नारदः
“ऋत्विजां व्यसनेऽप्येवमन्येनकर्म निस्तरेत्। लभेत दक्षिणादानं स तस्मात् सम्प्र-कल्पितम्” इति। अन्येन स्वस्वगणमध्यवर्त्तिनां मध्येप्रत्यासन्नेन, येन केनचिदन्येन कार्यमाणे त्वध्वर्य्यादिसमाख्याबाधापत्तेरिति ध्येयम्। यत्तु शङ्खलिखितयो-र्वचनम्
“अथ चेदनुप्राप्ते सवने ऋत्विक् म्रियते तस्यसगोत्रोऽथ शिष्यो वा तत्कार्य्यमनुपूरयेत्”। अथ चेदबा-न्धवस्ततोऽन्यमृत्विजं वृणुयात्” इति। यच्च वृह-[Page5246-b+ 38] स्पतिवचनम्।
“एवं क्रियाप्रवृत्तानां यदा कश्चिद्विप-द्यते। तद्वन्धुना क्रिया कार्य्या सर्विर्वा सहकासिभिः” इति। तदेकान्तगणरहितर्त्विक्कर्तृकदर्शपौर्णमासादि-यागविषयमित्यभिहितं स्मृतिचन्द्रिकायाम्। जीवत्येवतु ऋत्विजि यजमानेन ऋत्विगन्तरकरणे कस्य दक्षि-णेति वीक्षायामाह शङ्खः
“अथ ऋत्विजि वृते पश्चा-दन्यं वृणुयात्पूर्वाहूतस्यैव दक्षिणा पश्चादाहूतः किञ्चि-ल्लभते” इति। यदा त्वकारणमृत्विग् याज्य त्यजतियाज्यो वा ऋत्विजं, तदा तयोर्दण्डमाह मनुः ऋत्विजंयस्त्यजेद् याज्यो याज्यमृत्विक् त्यजेद् यदि। शक्तंकर्मण्यदुष्टञ्च तयोर्दण्डः शतं शतम्” इति। नारदोऽपि
“ऋत्विक् च त्रिविधो दृष्टः पूर्वैर्जुष्टः स्वयंकृतः। यदृच्छयाच यः कुर्य्यादार्त्विज्यं प्रीतिपूर्वकम्। ऋत्विग्याज्य-मदुष्टं यस्त्यजेदनपकारिणम्। अदुष्टञ्चर्त्विजं याज्योविनेयौ तावुभावपीति”। ये कृषिसाधने स्वसमानास्तैःसह कृषिःकार्य्येत्याह वृहस्पतिः
“वाह्यकर्षकवीजाद्यैःक्षेत्रोपकरणेन च। ये समानास्तु तैः सार्द्धं कृषिःकार्य्या विजानता” इति। वाह्याः लाङ्गलादिवाहकाःवलीवर्दाः। कर्षकाः कृष्यर्थं स्वीकृताः पुरुषाः आ-दिशब्देन कृषिसाधनानामन्येषां ग्रहणम्। सम्भूय-कारिणां कृषकाणां कर्त्तव्यमाह वृहस्पातः
“पर्वतेनगराभ्यासे तथा राजपथस्य च। ऊषरं मूषकव्याप्तंक्षेत्रं यत्नेन वर्जयेत्” इति। पर्वते पर्वतसमीपे कल्प-तरुकृता तु विवीत इति पठित्वा विवीतशब्देन यव-{??}द्यर्थं रक्षितः प्रदेश इति व्याख्यातम्। नगराभ्यासेनगरसमीपे। राजपथस्य समीप इति शेषः। एतदुक्तंभवति पवताद्यासन्नमनासन्नमपि ऊषरं मूषकव्याप्नञ्चक्षेत्रं वर्जयेदिति। वाह्येष्वपि वर्जनीयानाह स एव
“कृशातिवृद्ध क्षुद्रञ्च रोगिणं प्रपलायिनम्। काणंखञ्जञ्च नादद्याद्वाह्यं प्राज्ञः कृषीवलः” इति। काणःएकाक्षः खञ्जः भग्नचरणः। क्वचिदत्रैकस्यैव हानिमाहस एव
“वाह्यवीजात्ययाद्यस्य क्षेत्रहानिः प्रजायते। तेनैव सा प्रदातव्या सर्वेषां कृषिजीविनामि” ति। सम्भूय-कारिणामिति शेषः। वाह्यवीजग्रहणं कृषिसाधनाना-मुपलक्षणार्थम्। सम्भूयकारिणा शिल्पिनां स्वरूपंदर्शयंस्तेषां लाभविभागेऽंशपरिकल्पनाप्रकारमाह स एव
“हिरण्यकुप्यसूत्राणां काष्ठपाषाणचर्मणाम्। संस्कर्त्तातत्कलाभिज्ञः शिल्पी प्रोक्तो मनीषिभिः। हेमकारादयो[Page5247-a+ 38] यत्र शिल्पं सम्भूय कुर्वते। कर्मानुरूपं निर्वेशं लभेरं-स्ते यथांशतः” इति। कुप्यं हेमरूप्यव्यतिरिक्तत्रपुसी-सादिकम्। हेमरूप्ये इति प्रस्तुत्य ताभ्यां यदन्यत्कुप्य-मित्यमरसिंहेनोक्तत्वात्। निर्वेशो भृतिः। कात्या-यनोऽपि
“शिक्षकाभिज्ञकुशला आचार्याश्चेति शिल्पिनः। एकद्वित्रिचतुर्भागान् हरेयुस्ते यथोत्तरम्” इति। ह-र्म्यादिनिर्मातॄणां मध्ये मुख्यस्य भागद्वयमाह वृहस्पतिः
“हर्म्यं देवगृहं वापि वाटिकोपस्कराणि च। सम्भूयकुर्वतां तेषां प्रमुख्यो द्व्यंशसर्हति” इति। नर्त्तकेष्वपिमुख्यस्यांशद्वयभागित्वमतिदिशन् विशेषान्तरमाह स एव
“नर्त्तकानामेष एव धर्मः सद्भिरुदाहृतः। कालज्ञो लभतेऽध्यर्द्धं गायनास्तु समांशिनः” इति। अध्यर्द्धम् अर्द्धा-धिकमेकमंशम्। सम्भूयकारिणाञ्चौराणां लाभभागेऽंश-परिकल्पनाप्रकारमाह कात्यायनः
“परराष्ट्राद्धनं यत्स्याच्चोरैः स्वाम्याज्ञया हृतम्। राज्ञे दशांशानुद्धृत्यविभजेरन् यथाविधि। चौराणां मुख्यभूतस्तु चतुरो-ऽंशांस्ततो हरेत्। शूरोऽंशांस्त्रीन् समर्थो द्वौ शेषा-स्त्वेकैकमेव च” इति। एतद्धनं दुर्बलवैरिदेशादाहृतविष-यम् प्रवलवैरिदेशादाहृते त्वाह वृहस्पतिः
“स्वा-म्याज्ञया तु यच्चौरैः परदेशात् समाहृतम्। राज्ञेदत्त्वा तु षड्भागान् भजेयुस्ते यथांशतः। चतुरोऽंशान्भजेन्मुख्यः शूरस्त्र्यंशमवाप्नुयात्। समर्थस्तु हरेत्द्व्यंशंशेषास्त्वन्ये समांशिनः” इति। समर्थः शक्तः। एतेषांहानिरप्येवमेवेत्याह कात्यायनः
“तेषां चेत् प्रसृता-नाञ्च ग्रहणं सममाप्नुयात्। तन्मोक्षणार्थं यद्दत्तं वहे-युस्ते यथांशतः” इति। इयमंशपरिकल्पना ऋत्विग्-भिन्नसम्भूयकारिणां समयाभावविषया कृते तु समयेतदनुसारेणैव। अतएव तेनैवोक्तम्
“वणिजां कर्षका-णाञ्च चौराणां शिल्पिनान्तथा। अनियम्यांशकर्तृणांसर्वेषामेष निर्णयः” इति। अनियम्य लाभहान्योःसमयेन प्रतिपुरुषमशमकृत्वेत्यर्थः”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्भूयसमुत्थान¦ n. (-नं) Partnership, association in trade, joint execution of work or conduct of business. E. सम्भूय, समुत्थान performance of work.

"https://sa.wiktionary.org/w/index.php?title=सम्भूयसमुत्थान&oldid=403043" इत्यस्माद् प्रतिप्राप्तम्