त्रिवेणी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिवेणी, स्त्री, (तिस्रो वेण्यः वारिप्रवाहा वियुक्ताः संयुक्ता वा यत्र ।) स्थानविशेषः । यत्र गङ्गया यमुनासरस्वत्योर्वियोगः । सा दक्षिणप्रयागः । तस्य सीमनिर्णयः । यथा, -- “प्रद्युम्नस्य ह्रदात् याम्ये सरस्वत्यास्तथोत्तरे । तद्दक्षिणप्रयागस्तु गङ्गातो यमुना गता ॥” इति प्रायश्चित्ततत्त्वम् ॥ इयं मुक्तवेणीति कथ्यते । प्रयागे युक्तवेणी ॥ (अत्र गङ्गया यमुनासरस्वत्योः सङ्गमात् ॥ * ॥ हठयोगोक्तेडापिङ्गलासुषुम्नारूपपारिभाषिक- नदीत्रयसङ्गमस्थानम् । यथा, हठयोगप्रदीपि- कायाम् । ३ । २४ । “कालपाशमहाबन्धविमोचनविचक्षणः । त्रिवेणीसङ्गमं धत्ते केदारं प्रापयेन्मनः ॥” इदन्तत्वाद्वा ङीबिति त्रिवेणिरपि पाठः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिवे(णि)णी¦ स्त्री तिस्रः वेणयः प्रवाहाः विच्छिन्नाः सं-युक्ता वा यत्र ततः इदन्तत्वात् वा ङीप्। गङ्गा-यमुनासरस्वतीनां विच्छिन्नप्रवाहे

१ दक्षिणप्रयागे युक्त-प्रवाहे

२ प्रयागे तीर्थभेदे च दक्षिणप्रयागसीमा चयथा
“प्रद्युम्नस्य ह्रदात् याम्ये सरस्वत्यास्तथोत्तरे। तद्दक्षिणप्रयागन्तु गङ्गातो यमुना गता” प्रा॰ त॰। त्रिवेण्या इदम् शिवा॰ अण्। त्रैवेण। तदोये त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिवेणी¦ f. (-णी) A name of the Ganges. E. त्रि three, वेणी a braid of hair: the name is especially applied to the river at Allahabad, where it [Page326-a+ 60] receives the Jumuna, and is supposed to receive under ground the Saraswati; it is also that of a village in Bengal, above Hugli.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिवेणी/ त्रि--वेणी f. ( g. शिवा-दि)" triple-braided " , the place of confluence ( प्रयाग, now Allahabad) of the Ganges with the यमुना(Jumna) and the subterranean सरस्वती

त्रिवेणी/ त्रि--वेणी f. N. of another place.

"https://sa.wiktionary.org/w/index.php?title=त्रिवेणी&oldid=412436" इत्यस्माद् प्रतिप्राप्तम्