सामग्री पर जाएँ

महाकाली

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाकाली, स्त्री, (महाकाल + पत्न्यर्थे ङीष् ।) महाकालस्य पत्नी । सा तु पञ्चवक्त्वाष्टभुज- कालीविशेषः । इति तन्त्रम् ॥ (इयमेव पराशक्ते- स्तामसी शक्तिः । यथा, देवीभागवते । १ । २ । २० । “तस्यास्तु सात्त्विकी शक्ती राजसी तामसी तथा । महालक्ष्मीः सरस्वती महाकालीति ताः स्त्रियः ॥”) अथ महाकालीमन्त्रः । “ओ~ फ्रें फ्रें क्रों क्रों पशून् गृहाण ह्रूं फट् स्वाहा । श्मशानभैरवीमन्त्रेण यावत् क्रूर- कर्म्मणि प्रयोगः कर्त्तव्यः । अथ महाकाली- मन्त्रप्रयोगः । तत्र न्यासशुद्ध्यादिकं न कर्त्त- व्यम् । तथा च । न्यासशुद्ध्यादिकं किञ्चिन्नात्र कार्य्या विचारणा । कृष्णतोयैश्च संपूर्णे कृष्णकुम्भेऽथ कालिकाम् ॥ पञ्चवक्त्रां महारौद्रीं प्रतिवक्त्रत्रिलोचनाम् । शक्तिशूलधनुर्वाणखड्गखेटवराभयान् ॥ दक्षादक्षभुजैर्देवीं बिभ्राणां भूरिभूषणाम् । ध्यात्वैवं साधकः साध्यं साधयेन्मनसेप्सितम् ॥ ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा । वाराही च तथा चैन्द्री चामुण्डा चण्डिका- ष्टमी । पूर्ब्बादीशानपर्य्यन्तं कुम्भस्थाने स्थिता इमाः ॥ तत्र क्रमः । देवीं ध्यात्वा यथाविध्युपचारेण संपूज्य ब्राह्म्याद्यष्टशक्तीः पूर्ब्बादिक्रमेण पूज- येत् । तथा । नामोच्चारणसंरब्धं वह्नौ प्रज्वलितेऽम्बरे । जुहुयाद्वैरिणां शुद्धौ देवीमन्त्रं जपंस्तथा ॥ समिधः पिचुमर्द्दस्य तथा विभीतकाष्ठिकाः । गृहधूमश्मशानास्थिविभीताङ्गारहोमतः ॥ सप्ताहाद्वैरिणं हन्ति कालिकामन्त्रयोगतः । उच्चाटनं चापराह्रे सन्ध्यायां मारणं तथा ॥ दक्षिणस्यां दिशि स्थित्वा ग्रामादेर्दक्षिणा- मुखः ॥” इति तन्त्रसारः ॥ जिनानां चतुर्विंशतिशासनदेवतान्तर्गतदेवी- विशेषः । इति हेमचन्द्रः ॥ * ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाकाली/ महा--काली f. N. of दुर्गाin her terrific form MBh. Buddh.

महाकाली/ महा--काली f. of one of -D दुर्गा's attendants W.

महाकाली/ महा--काली f. (with जैनs) of one of the 16 विद्या-देवीs Hemac.

महाकाली/ महा--काली f. of a goddess who executed the commands of the 5th अर्हत्of the present अवसर्पिणीib.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a वर्ण s4akti. Br. IV. ४४. ५७; ३२. 4.
(II)--a mind-born mother. M. १७९. १४; Vi. II. १३. ४९.
(III)--came out from the wrath of शिव. वा. १०१. २९८.
"https://sa.wiktionary.org/w/index.php?title=महाकाली&oldid=434870" इत्यस्माद् प्रतिप्राप्तम्